अमरकोशः
1.1.6 |
स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः । सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥ ६ ॥ |
|
1.1.7 |
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः । सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥ |
|
1.1.8 |
आदितेया दिविषदो लेखा अदितिनन्दनाः । आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥ |
|
1.1.9 |
बर्हिर्मुखाः क्रतुभुजो गीर्बाणा दानवारयः । वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥ |
|
1.1.10 |
आदित्यविश्ववसवस्तुषिताभास्वरानिलाः । महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥ १० ॥ |
|
1.1.11 |
विद्याधरोऽप्सरोयक्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥ |
|
1.1.12 |
असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः । शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥ |
|
1.1.13 |
सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः ॥ १३ ॥ |
|
1.1.14 |
षडभिज्ञो दशबलोऽद्वयवादी विनायकः । मुनीन्द्र: श्रीघन: शास्ता मुनि: शाक्यमुनिस्तु यः ॥ १४ ॥ |
|
1.1.15 |
स शाक्यसिंह: सर्वार्थसिद्धः शौद्धोदनिश्च सः । गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥ |
|
1.1.16 |
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः । हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥ |
|
1.1.17 |
धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः । स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ॥ १७ ॥ |
|
1.1.18 |
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः । दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥ |
|
1.1.19 |
दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः । पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १९ ॥ |
|
1.1.20 |
उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः । पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥ |
|
1.1.21 |
देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः । वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥ |
|
1.1.22 |
विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः । वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २२ ॥ |
|
1.1.23 |
बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः । रेवतीरमणो रामः कामपालो हलायुधः ॥ २३ ॥ |
|
1.1.24 |
नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली । सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २४ ॥ |
|
1.1.25 |
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः । कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥२५ ॥ |
|
1.1.26 |
संबरारिर्मनसिजः कुसुमेषुरनन्यजः । पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥ २६ ॥ |
|
1.1.27 |
ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः । लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया ॥ २७ ॥ |
|
1.1.28 |
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनः । कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥ २८ ॥ |
|
1.1.29 |
गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः । नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ २९ ॥ |
|
1.1.30 |
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः । ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ॥ ३० ॥ |
|
1.1.31 |
भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः । मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥ |
|
1.1.32 |
उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् । वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥ |
|
1.1.33 |
कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः । हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥ |
|
1.1.34 |
गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः । व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥ ३४ ॥ |
|
1.1.35 |
कपर्दोऽस्य जटाजूट: पिनाकोऽजगवं धनुः । प्रमथाः स्युः पारिषदा: ब्राह्मीत्याद्यास्तु मातरः ॥ ३५ ॥ |
|
1.1.36 |
विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा । उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥ ३६ ॥ |
|
1.1.37 |
शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला । अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥ ३७ ॥ |
|
1.1.38 |
विनायको विघ्नराजद्वैमातुरगणाधिपाः । अप्येकदन्तहेरम्बलम्बोदरगजाननाः ॥ ३८ ॥ |
|
1.1.39 |
कार्तिकेयो महासेनः शरजन्मा षडानन: । पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ ३९ ॥ |
|
1.1.40 |
बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः । षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ॥ ४० ॥ |
|
1.1.41 |
इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः । वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४१ ॥ |
|
1.1.42 |
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः। सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥ |
|
1.1.43 |
वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः । जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥ |
|
1.1.44 |
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः । आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४४ ॥ |
|
1.1.45 |
पुलोमजा शचीन्द्राणी नगरी त्वमरावती । हय उच्चैः श्रवाः सूतो मातलिर्नन्दनं वनम् ॥ ४५ ॥ |
|
1.1.46 |
स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः । ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः॥ ४६ ॥ |
|
1.1.47 |
ह्रादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः । शतकोटि: स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ॥ ४७ ॥ |
|
1.1.48 |
व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः । स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ ४८ ॥ |
|
1.1.49 |
मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका । मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ ४९ ॥ |
|
1.1.50 |
पञ्चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५० ॥ |
|
1.1.51 |
सनत्कुमारो वैधात्र: स्वर्वैद्यावश्विनीसुतौ । नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५१ ॥ |
|
1.1.52 |
स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः । हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥ ५२ ॥ |
|
1.1.53 |
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनंजयः । कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ ५३ ॥ |
|
1.1.54 |
बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः । आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५४ ॥ |
|
1.1.55 |
लोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः । हिरण्यरेता हुतभुग् दहनो हव्यवाहनः ॥ ५५ ॥ |
|
1.1.56 |
सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः । शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५६ ॥ |
|
1.1.57 |
वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम् । त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ ॥ ५७ ॥ |
|
1.1.58 |
धर्मराजः पितृपतिः समवर्ती परेतराट्। कृतान्तो यमुनाभ्राता शमनो यमराड्यमः॥ ५८ ॥ |
|
1.1.59 |
कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः । राक्षसः कौणपः क्रव्यात्क्रव्यादोऽस्रप आशरः ॥ ५९ ॥ |
|
1.1.60 |
रात्रिंचरो रात्रिचरः कर्वुरो निकषात्मजः । यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ ६० ॥ |
|
1.1.61 |
प्रचेता वरुणः पाशी यादसांपतिरप्पतिः। श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६१ ॥ |
|
1.1.62 |
पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः । समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥ ६२ ॥ |
|
1.1.63 |
नभस्वद्वातपवनपवमानप्रभञ्जनाः । प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥ ६३ ॥ |
|
1.1.64 |
शरीरस्था इमे रंहस्तरसी तु रयः स्यदः । जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ ६४ ॥ |
|
1.1.65 |
सत्वरं चपलं तूर्णमविलम्बितमाशु च । सततानारताश्रान्तसंतताविरतानिशम् ॥ ६५ ॥ |
|
1.1.66 |
नित्यानवरताजस्रमप्यथातिशयो भरः । अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥ |
|
1.1.67 |
तीव्रैकान्तनितान्तानि गाढबाढदृढानि च । क्लीबे शीघ्राद्यसत्त्वे स्यात्त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥ |
|
1.1.68 |
कुबेरस्त्र्यम्बकसखो यक्षराड्गुह्यकेश्वरः । मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ ६८ ॥ |
|
1.1.69 |
किंनरेशो वैश्रवणः पौलस्त्यो नरवाहनः । यक्षैकपिङ्गैडविडश्रीदपुण्यजनेश्वराः ॥ ६९ ॥ |
|
1.1.70 |
अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूवरः । कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् ॥ ७० ॥ |
|
1.1.71 |
स्यात्किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः । निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधे: ॥ ७१ ॥ |
|
1.2.1 |
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥ १ ॥ |
|
1.2.2 |
वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी । विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥ २ ॥ |
|
1.3.1 |
दिशस्तु ककुभ: काष्ठा आशाश्च हरितश्च ताः । प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमा: ॥ १ ॥ |
|
1.3.2 |
उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे । इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् ॥ २ ॥ |
|
1.3.3 |
कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् । ऐरावत: पुण्डरीको वामनः कुमदोऽञ्जन: ॥ ३ ॥ |
|
1.3.4 |
पुष्पदन्तः सार्वभौम: सुप्रतीकश्च दिग्गजाः । करिण्योऽभ्रमुकपिलापिङ्गलानुपमा: क्रमात् ॥ ४ ॥ |
|
1.3.5 |
ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती । क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् ॥ ५ ॥ |
|
1.3.6 |
अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् । अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥ |
|
1.3.7 |
धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत् । घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ७ ॥ |
|
1.3.8 |
कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम् । स्तनितं गर्जितं मेघनिर्घोषो रसितादि च ॥ ८ ॥ |
|
1.3.9 |
शंपाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा । तडित्सौदामनीविद्युच्चञ्चला चपला अपि ॥ ९ ॥ |
|
1.3.10 |
स्फूर्जथुर्वज्रनिर्घोषे मेघज्योतिरिरंमदः । इन्द्रायुधं शक्रधनुः तदेव ऋजु रोहितम् ॥ १० ॥ |
|
1.3.11 |
वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ । धारासम्पात आसार: शीकरोऽम्बुकणाः स्मृताः ॥ ११ ॥ |
|
1.3.12 |
वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम् । अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥ |
|
1.3.13 |
अपिधानतिरोधानपिधानाच्छादनानि च । हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥ |
|
1.3.14 |
विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः । अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ॥१४ ॥ |
|
1.3.15 |
द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः । कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु ॥ १५ ॥ |
|
1.3.16 |
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके । चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥ |
|
1.3.17 |
कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् । सुषमा परमा शोभा शोभा कान्तिद्युतिश्छवि: ॥ १७ ॥ |
|
1.3.18 |
अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं महिका चाथ हिमानी हिमसंहतिः ॥ १८ ॥ |
|
1.3.19 |
शीतं गुणे तद्वदर्था: सुषीम: शिशिरो जडः । तुषार: शीतलः शीतो हिम: सप्तान्यलिङ्गकाः ॥ १९ ॥ |
|
1.3.20 |
ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः । मैत्त्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥ |
|
1.3.21 |
नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् । दाक्षायण्योऽश्विनीत्यादितारा अश्वयुगश्विनी ॥ २१ ॥ |
|
1.3.22 |
राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया । समा धनिष्ठा स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ॥ २२ ॥ |
|
1.3.23 |
मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी । इन्वकास्तच्छिरोदेशे तारका निवसन्ति याः ॥ २३ ॥ |
|
1.3.24 |
बृहस्पतिः सुराचार्यो गीर्पतिर्धिषणो गुरुः । जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥ |
|
1.3.25 |
शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः । अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुत: ॥ २५ ॥ |
|
1.3.26 |
रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ । तमस्तु राहु: स्वर्भानुः सैंहिकेयो विधुंतुदः ॥ २६ ॥ |
|
1.3.27 |
सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः । राशीनामुदयो लग्नं ते तु मेषवृषादयः ॥ २७ ॥ |
|
1.3.28 |
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः । भास्कराहस्करब्रध्नप्रभाकरविभाकरा: ॥ २८ ॥ |
|
1.3.29 |
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः । विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ॥ |
|
1.3.30 |
द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः । विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३० ॥ |
|
1.3.31 |
भानुर्हंसः सहस्रांशुस्तपन: सविता रविः । माठर: पिङ्गलो दण्डश्चण्डांशो: पारिपार्श्वका: ॥ ३१ ॥ |
|
1.3.32 |
सूर्यसूतोऽरुणोनूरुः काश्यपिर्गरुडाग्रजः । परिवेषस्तु परिधिरुपसूर्यकमण्डले ॥ ३२ ॥ |
|
1.3.33 |
किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः । भानुः करो मरीचि: स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३ ॥ |
|
1.3.34 |
स्युः प्रभारुग्ग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः । रोचि: शोचिरुभे क्लीबे प्रकाशो द्योत आतपः ॥ ३४ ॥ |
|
1.3.35 |
कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति । तिग्मं तीक्ष्णं खरं तद्वत् मृगतृष्णा मरीचिका ॥ ३५ ॥ |
|
1.4.1 |
कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः । प्रतिपद् द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १ ॥ |
|
1.4.2 |
घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ । प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि ॥ २ ॥ |
|
1.4.3 |
प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः । प्राह्णापराह्णमध्याह्नास्त्रिसंध्यमथ शर्वरी ॥ ३ ॥ |
|
1.4.4 |
निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा । विभावरीतमस्विन्यौ रजनी यामिनी तमी ॥ ४ ॥ |
|
1.4.5 |
तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता । आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ॥ ५ ॥ |
|
1.4.6 |
गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम् । अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ ॥ ६ ॥ |
|
1.4.7 |
स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा ॥ ७ ॥ |
|
1.4.8 |
कलाहीने सानुमतिः पूर्णे राका निशाकरे । अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः ॥ ८ ॥ |
|
1.4.9 |
सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः । उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च ॥ ९ ॥ |
|
1.4.10 |
सोपप्लवोपरक्तौ द्वावग्न्युत्पात उपाहितः । एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ॥ १० ॥ |
|
1.4.11 |
अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला । तास्तु त्रिंशत्क्षण: ते तु मुहूर्तो द्वादशास्त्रियाम् ॥ ११ ॥ |
|
1.4.12 |
ते तु त्रिंशदहोरात्र: पक्षस्ते दश पञ्च च । पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ ॥ १२ ॥ |
|
1.4.13 |
द्वौ द्वौ मार्गादिमासौ स्यादृतुः तैरयनं त्रिभिः । अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ १३ ॥ |
|
1.4.14 |
समरात्रिन्दिवे काले विषुवद्विषुवं च तत् । मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः ॥ १४ ॥ |
|
1.4.15 |
पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने । स्यात्तपस्य: फाल्गुनिक: स्याच्चैत्रे चैत्रिको मधुः ॥ १५ ॥ |
|
1.4.16 |
वैशाखे माधवो राधो ज्यैष्ठे शुक्रः शुचिस्त्वयम् । आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः ॥ १६ ॥ |
|
1.4.17 |
स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः । स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके ॥ १७ ॥ |
|
1.4.18 |
बाहुलोर्जौ कार्तिकिक: हेमन्त: शिशिरोऽस्त्रियाम् । वसन्ते पुष्पसमय: सुरभि ग्रीष्म ऊष्मकः ॥ १८ ॥ |
|
1.4.19 |
निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः । स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् ॥ १९ ॥ |
|
1.4.20 |
षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् । संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः ॥ २० ॥ |
|
1.4.21 |
मासेन स्यादहोरात्र: पैत्रो वर्षेण दैवतः । दैवे युगसहस्रे द्वे ब्राह्मौ कल्पौ तु तौ नृणाम् ॥ २१ ॥ |
|
1.4.22 |
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः । संवर्त: प्रलय: कल्पः क्षय: कल्पान्त इत्यपि ॥ २२ ॥ |
|
1.4.23 |
अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् । कलुषं वृजिनैनोघमंहो दुरितदुष्कृतम् ॥ २३ ॥ |
|
1.4.24 |
स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृष: । मुत्प्रीतिः प्रमदो हर्षप्रमोदामोदसंमदाः ॥ २४ ॥ |
|
1.4.25 |
स्यादानन्दथुरानन्दः शर्मशातसुखानि च । श्व:श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥ |
|
1.4.26 |
भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥ |
|
1.4.27 |
मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्राशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ २७ ॥ |
|
1.4.28 |
दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः । हेतुर्ना कारणं बीजं निदानं त्वादिकारणम् ॥ २८ ॥ |
|
1.4.29 |
क्षेत्रज्ञ आत्मा पुरुष: प्रधानं प्रकृतिः स्त्रियाम् । विशेष: कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः ॥ २९ ॥ |
|
1.4.30 |
जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः । प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ ३० ॥ |
|
1.4.31 |
जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता । चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मन: ॥ ३१ ॥ |
|
1.5.1 |
बुद्धिर्मनीषा धिषणा धी: प्रज्ञा शेमुषी मतिः । प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः ॥ १ ॥ |
|
1.5.2 |
धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम् । चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा ॥ २ ॥ |
|
1.5.3 |
अध्याहारस्तर्क ऊह: विचिकित्सा तु संशयः । संदेहद्वापरौ चाथ समौ निर्णयनिश्चयौ ॥ ३ ॥ |
|
1.5.4 |
मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् । समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ४ ॥ |
|
1.5.5 |
संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः । अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ ५ ॥ |
|
1.5.6 |
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः । मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥ |
|
1.5.7 |
मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् । रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ ७ ॥ |
|
1.5.8 |
गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् । कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम् ॥ ८ ॥ |
|
1.5.9 |
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः । तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥ |
|
1.5.10 |
विमर्दोत्थे परिमलो गन्धे जनमनोहरे । आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात् ॥ १० ॥ |
|
1.5.11 |
समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पण: । इष्टगन्ध: सुगन्धिः स्यादामोदी मुखवासनः ॥ ११ ॥ |
|
1.5.12 |
पूतिर्गन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत् । शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः ॥ १२ ॥ |
|
1.5.13 |
अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः । हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥ १३ ॥ |
|
1.5.14 |
कृष्णे नीलासितश्यामकालश्यामलमेचकाः । पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ॥ १४ ॥ |
|
1.5.15 |
रोहितो लोहितो रक्त: शोण: कोकनदच्छवि: । अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥ १५ ॥ |
|
1.5.16 |
श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते । कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ॥ १६ ॥ |
|
1.5.17 |
चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे । गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १७ ॥ |
|
1.6.1 |
ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती । व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ १ ॥ |
|
1.6.2 |
अपभ्रंशोऽपशब्दः स्यात् शास्त्रे शब्दस्तु वाचकः । तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ॥ २ ॥ |
|
1.6.3 |
श्रुति: स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः । स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी ॥ ३ ॥ |
|
1.6.4 |
शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ । इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वरा: ॥ ४ ॥ |
|
1.6.5 |
आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः । आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् ॥ ५ ॥ |
|
1.6.6 |
प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका । स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ ६ ॥ |
|
1.6.7 |
समस्या तु समासार्था किंवदन्ती जनश्रुतिः । वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादथाह्वयः ॥ ७ ॥ |
|
1.6.8 |
आख्याह्वे अभिधानं च नामधेयं च नाम च । हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता ॥ ८ ॥ |
|
1.6.9 |
विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् । उपोद्धात उदाहारः शपनं शपथः पुमान् ॥ ९ ॥ |
|
1.6.10 |
प्रश्नोऽनुयोग: पृच्छा च प्रतिवाक्योत्तरे समे । मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् ॥ १० ॥ |
|
1.6.11 |
अभिशाप: प्रणादस्तु शब्दः स्यादनुरागजः । यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ११ ॥ |
|
1.6.12 |
आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा । काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः ॥ १२ ॥ |
|
1.6.13 |
अवर्णाक्षेपनिर्वादपरीवादापवादवत् । उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥ |
|
1.6.14 |
पारुष्यमतिवादः स्याद् भर्त्सनं त्वपकारगीः । यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥ १४ ॥ |
|
1.6.15 |
तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति । स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ॥ १५ ॥ |
|
1.6.16 |
अनुलापो मुहुर्भाषा विलापः परिदेवनम् । विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥ १६ ॥ |
|
1.6.17 |
सुप्रलापः सुवचनमपलापस्तु निह्नवः । संदेशवाग्वाचिकं स्याद् वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥ |
|
1.6.18 |
रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका । अत्यर्थमधुरं सान्त्वं सङ्गतं हृदयङ्गमम् ॥ १८ ॥ |
|
1.6.19 |
निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये । सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहते ॥ १९ ॥ |
|
1.6.20 |
लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् । अम्बूकृतं सनिष्ठेवमबद्धं स्यादनर्थकम् ॥ २० ॥ |
|
1.6.21 |
अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम् । सोल्लुण्ठनं तु सोत्प्रासं भणितं रतिकूजितम् ॥ अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः ॥ २१ ॥ |
|
1.6.22 |
सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति । शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥ |
|
1.6.23 |
स्वाननिर्घोषनिर्ह्लादनादनिस्वाननिस्वनाः । आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥ |
|
1.6.24 |
स्वनिते वस्त्रपर्णानां भूषणानां च शिञ्जितम् । निक्वाणो निक्वण: क्वाण: क्वणः क्वणनमित्यपि ॥ २४ ॥ |
|
1.6.25 |
वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः । कोलाहल: कलकल: तिरश्वां वाशितं रुतम् ॥ स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे ॥ २५ ॥ |
|
1.7.1 |
निषादर्षभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिता स्वराः ॥ १ ॥ |
|
1.7.2 |
काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैः त्रयस्त्रिषु ॥ २ ॥ |
|
1.7.3 |
समन्वितलयस्त्वेकताल: वीणा तु वल्लकी । विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥ ३ ॥ |
|
1.7.4 |
ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु शुषिरं कांस्यतालादिकं घनम् ॥ ४ ॥ |
|
1.7.5 |
चतुर्विधमिदं वाद्यवादित्रातोद्यनामकम् । मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः ॥ ५ ॥ |
|
1.7.6 |
स्याद्यशःपटहो ढक्का भेर्यामानकदुन्दुभी । आनक: पटहोऽस्त्री स्यात् कोणो वीणादिवादनम् ॥ ६ ॥ |
|
1.7.7 |
वीणादण्ड: प्रवाल: स्यात् ककुभस्तु प्रसेवकः । कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम् ॥ ७ ॥ |
|
1.7.8 |
वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः । मर्दलः पणवोऽन्ये च नर्तकीलासिके समे ॥ ८ ॥ |
|
1.7.9 |
विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् । ताल: कालक्रियामानं लय: साम्यमथास्त्रियाम् ॥ ९ ॥ |
|
1.7.10 |
ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने । तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ॥ १० ॥ |
|
1.7.11 |
भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः । स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका ॥ ११ ॥ |
|
1.7.12 |
भगिनीपतिरावुत्तो भावो विद्वानथावुक: । जनको युवराजस्तु कुमारो भर्तृदारकः ॥ १२ ॥ |
|
1.7.13 |
राजा भट्टारको देवः तत्सुता भर्तृदारिका । देवी कृताभिषेकायामितरासु तु भट्टिनी ॥ १३ ॥ |
|
1.7.14 |
अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः । अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु मारिषः ॥ १४ ॥ |
|
1.7.15 |
अत्तिका भगिनी ज्येष्ठा निष्ठा निर्वहणे समे । हण्डे हञ्जे हलाह्वानं नीचां चेटीं सखीं प्रति ॥ १५ ॥ |
|
1.7.16 |
अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ । निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे विष्वाङ्गिकसात्त्विके ॥ १६ ॥ |
|
1.7.17 |
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥ |
|
1.7.18 |
उत्साहवर्धनो वीर: कारुण्यं करुणा घृणा । कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः ॥ १८ ॥ |
|
1.7.19 |
हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् । विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् ॥ १९ ॥ |
|
1.7.20 |
दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् । भयंकरं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥ २० ॥ |
|
1.7.21 |
चतुर्दश दरस्त्रासौ भीतिर्भीः साध्वसं भयम् । विकारो मानसो भावोऽनुभावो भावबोधकः ॥ २१ ॥ |
|
1.7.22 |
गर्वोऽभिमानोऽहंकार: मानश्चित्तसमुन्नतिः । अनादर: परिभवः परीभावस्तिरस्क्रिया ॥ २२ ॥ |
|
1.7.23 |
रीढावमाननावज्ञावहेलनमसूर्क्षणम् । मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यत: ॥ २३ ॥ |
|
1.7.24 |
क्षान्तिस्तितिक्षाऽभिध्या तु परस्य विषये स्पृहा । अक्षान्तिरीर्ष्याऽसूया तु दोषारोपो गुणेष्वपि ॥ २४ ॥ |
|
1.7.25 |
वैरं विरोधो विद्वेष: मन्युशोकौ तु शुक् स्त्रियाम् । पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २५ ॥ |
|
1.7.26 |
कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ । शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः ॥ २६ ॥ |
|
1.7.27 |
प्रेमा ना प्रियता हार्दै प्रेम स्नेहोऽथ दोहदम् । इच्छा काङ्घा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः ॥ २७ ॥ |
|
1.7.28 |
कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः । उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा ॥ २८ ॥ |
|
1.7.29 |
स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे । उत्साहोऽध्यवसाय: स्यात् सवीर्यमतिशक्तिभाक् ॥ २९ ॥ |
|
1.7.30 |
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे । कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता ॥ ३० ॥ |
|
1.7.31 |
कौतूहलं कौतुकं च कुतुकं च कुतूहलम् । स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा ॥ ३१ ॥ |
|
1.7.32 |
हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः । द्रवकेलिपरीहासाः क्रीड़ा खेला च नर्म च ॥ ३२ ॥ |
|
1.7.33 |
व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् । घर्मो निदाघ: स्वेदः स्यात् प्रलयो नष्टचेष्टता ॥ ३३ ॥ |
|
1.7.34 |
अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ । स्यादाच्छुरितकं हास: सोत्प्रासः स मनाक् स्मितम् ॥ ३४ ॥ |
|
1.7.35 |
मध्यम: स्याद्विहसितं रोमाञ्चो रोमहर्षणम् । क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम् ॥ ३५ ॥ |
|
1.7.36 |
विप्रलम्भो विसंवादः रिङ्गणं स्खलनं समे । स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यापि ॥ ३६ ॥ |
|
1.7.37 |
तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटि: स्त्रियाम् । अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे ॥ ३७ ॥ |
|
1.7.38 |
स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः । कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥ |
|
1.8.1 |
अधोभुवनपातालबलिसद्मरसातलम् । नागलोकोऽथ कुहरं शुषिरं विवरं बिलम् ॥ १ ॥ |
|
1.8.2 |
छिद्रं निर्व्यथनं रोकं रन्धं श्वभ्रं वपा शुषिः । गर्तावटौ भुवि श्वभ्रे सरन्ध्रे शुषिरं त्रिषु ॥ २ ॥ |
|
1.8.3 |
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः । ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः ॥ ३ ॥ |
|
1.8.4 |
विष्वक् संतमसं नागाः काद्रवेयाः तदीश्वरः । शेषोऽनन्तः वासुकिस्तु सर्पराजोऽथ गोनसे ॥ ४ ॥ |
|
1.8.5 |
तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ । अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ ॥ ५ ॥ |
|
1.8.6 |
मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः । सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ६ ॥ |
|
1.8.7 |
आशीविषो विषधरश्चक्री व्यालः सरीसृपः । कुण्डली गूढपाच्चक्षुःश्रवाः काकोदर: फणी ॥ ७ ॥ |
|
1.8.8 |
दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः । उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥ |
|
1.8.9 |
त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः । समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम् ॥ ९ ॥ |
|
1.8.10 |
पुंसि क्लीबे च काकोलकालकूटहलाहलाः । सौराष्ट्रिक: शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥ |
|
1.8.11 |
दारदो वत्सनाभश्च विषभेदा अमी नव । विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः ॥ ११ ॥ |
|
1.9.1 |
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् । तद्भेदास्तपनावीचिमहारौरवरौरवाः ॥ १ ॥ |
|
1.9.2 |
संहार: कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः । प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः ॥ २ ॥ |
|
1.9.3 |
विष्टिराजूः कारणा तु यातना तीव्रवेदना । पीडाबाधाव्यथा दु:खमामनस्यं प्रसूतिजम् ॥ स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् ॥ ३ ॥ |
|
1.10.1 |
समुद्रोऽब्धिरकूपार: पारावारः सरित्पतिः । उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥ |
|
1.10.2 |
रत्नाकरो जलनिधिर्याद: पतिरपांपतिः । तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥ |
|
1.10.3 |
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् । पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥ |
|
1.10.4 |
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् । अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥ |
|
1.10.5 |
मेघपुष्पं घनरस: त्रिषु द्वे आप्यमम्मयम् । भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ ५ ॥ |
|
1.10.6 |
महत्सूल्लोलकल्लोलौ स्यादावर्तेऽम्भसां भ्रमः । पृषन्ति बिन्दुपृषताः पुमांसो विप्रुष: स्त्रियाम् ॥ ६ ॥ |
|
1.10.7 |
चक्राणि पुटभेदाः स्युः भ्रमाश्च जलनिर्गमाः । कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ ७ ॥ |
|
1.10.8 |
पारावारे परार्वाची तीरे पात्रं तदन्तरम् । द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ ८ ॥ |
|
1.10.9 |
तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् । निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ ९ ॥ |
|
1.10.10 |
जलोच्छ्वासा: परीवाहा: कूपकास्तु विदारकाः । नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥ |
|
1.10.11 |
उडुपं तु प्लव: कोल: स्रोतोऽम्बुसरणं स्वतः । आतरस्तरपण्यं स्याद् द्रोणी काष्ठाम्बुवाहिनी ॥ ११ ॥ |
|
1.10.12 |
सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः । नियामकाः पोतवाहा: कूपको गुणवृक्षकः ॥ १२ ॥ |
|
1.10.13 |
नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः । अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम् ॥ १३ ॥ |
|
1.10.14 |
क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु । त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः ॥ १४ ॥ |
|
1.10.15 |
निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये । अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ॥ १५ ॥ |
|
1.10.16 |
आनायः पुंसि जालं स्यात् शणसूत्रं पवित्रकम् । मत्स्याधानी कुवेणी स्याद्बलिशं मत्स्यवेधनम् ॥ १६ ॥ |
|
1.10.17 |
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः । विसारः शकुली चाथ गडकः शकुलार्भकः ॥ १७ ॥ |
|
1.10.18 |
सहस्रदंष्ट्रः पाठीन: उलूपी शिशुकः समौ । नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः ॥ १८ ॥ |
|
1.10.19 |
क्षुद्राण्डमत्स्यसंघात: पोताधानमथो झषाः । रोहितो मद्गुर: शालो राजीवः शकुलस्तिमिः ॥ १९ ॥ |
|
1.10.20 |
तिमिंगिलादयश्चाथ यादांसि जलजन्तवः । तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ २० ॥ |
|
1.10.21 |
स्यात्कुलीर: कर्कटकः कूर्मे कमठकच्छपौ । ग्राहोऽवहार नक्रस्तु कुम्भीरोऽथ महीलता ॥ २१ ॥ |
|
1.10.22 |
गण्डूपद: किंचुलुकः निहाका गोधिका समे । रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥ २२ ॥ |
|
1.10.23 |
मुक्तास्फोट: स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ । क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः ॥ २३ ॥ |
|
1.10.24 |
भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः । शिली गण्डूपदी भेकी वर्षाभ्वी कमठी दुलिः ॥ २४ ॥ |
|
1.10.25 |
मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका । जलाशया जलाधारस्तत्रागाधजलो ह्रदः ॥ २५ ॥ |
|
1.10.26 |
आहावस्तु निपानं स्यादुपकूपजलाशये । पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा ॥ २६ ॥ |
|
1.10.27 |
नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् । पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥ २७ ॥ |
|
1.10.28 |
पद्माकरस्तडागोऽस्त्री कासार: सरसी सरः । वेशन्त: पल्वलं चाल्पसरो वापी तु दीर्घिका ॥ २८ ॥ |
|
1.10.29 |
खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् । स्यादालवालमावालमावापोऽथ नदी सरित् ॥ २९ ॥ |
|
1.10.30 |
तरङ्गिणी शैवलिनी तटिनी हादिनी धुनी । स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा ॥ ३० ॥ |
|
1.10.31 |
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा । भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ ३१ ॥ |
|
1.10.32 |
कालिन्दी सूर्यतनया यमुना शमनस्वसा । रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ ३२ ॥ |
|
1.10.33 |
करतोया सदानीरा बाहुदा सैतवाहिनी । शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विषाट् स्त्रियाम् ॥ ३३ ॥ |
|
1.10.34 |
शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित् । शरावती वेत्रवती चान्द्रभागी सरस्वती ॥ ३४ ॥ |
|
1.10.35 |
कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः । द्वयोः प्रणाली पयस: पदव्यां त्रिषु तूत्तरौ ॥ ३५ ॥ |
|
1.10.36 |
देविकायां सरय्वां च भवे दाविकसारवौ । सौगन्धिकं तु कह्लारं हल्लकं रक्तसन्ध्यकम् ॥ ३६ ॥ |
|
1.10.37 |
स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च । इन्दीवरं च नीलेऽस्मिन् सिते कुमुदकैरवे ॥ ३७ ॥ |
|
1.10.38 |
शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका । जलनीली तु शेवालं शैवलोऽथ कुमुद्वती ॥ ३८ ॥ |
|
1.10.39 |
कुमुदिन्यां नलिन्यां तु बिसिनी पद्मिनीमुखाः । वा पुंसि पद्यं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥ |
|
1.10.40 |
सहस्रपत्त्रं कमलं शतपत्त्रं कुशेशयम् । पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥ |
|
1.10.41 |
बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च । पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ ४१ ॥ |
|
1.10.42 |
रक्तोत्पलं कोकनदं नालो नालमथास्त्रियाम् । मृणालं बिसमब्जदिकदम्बे षण्डमस्त्रियाम् ॥ ४२ ॥ |
|
1.10.43 |
करहाटः शिफाकन्दः किञ्जल्क: केसरोऽस्त्रियाम् । संवर्तिका नवदलं वीजकोषो वराटकः ॥ ४३ ॥ |
|
1.10.44 |
उक्तं स्वर्व्योमदिक्कालधीशब्दादिसनाट्यकम् । पातालभोगिनरकं वारि चैषां च सङ्गतम् ॥ १ ॥ |
|
1.10.45 |
इत्यमरसिंहकृतौ नामलिङ्गानुशासने । स्वरादिकाण्ड: प्रथमः साङ्ग एव समर्थितः ॥ २ ॥ |
|
2.1.1 |
वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः । नृब्रह्मक्षत्रविट्शूद्रैः साङ्गोपाङ्गरिहोदिताः ॥ १ ॥ |
|
2.1.2 |
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा । धरा धरित्री धरणी क्षोणि ज्या काश्यपी क्षितिः ॥ २ ॥ |
|
2.1.3 |
सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा । गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही ॥ ३ ॥ |
|
2.1.4 |
मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका । उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका ॥ ४ ॥ |
|
2.1.5 |
ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली । समानौ मरुधन्वानौ द्वे खिलाप्रहते समे ॥ ५ ॥ |
|
2.1.6 |
त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् । लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः ॥ ६ ॥ |
|
2.1.7 |
देश: प्राग्दक्षिणः प्राच्यः उदीच्यः पश्चिमोत्तरः । प्रत्यन्तो म्लेच्छदेश: स्यान्मध्यदेशस्तु मध्यमः ॥ ७ ॥ |
|
2.1.8 |
आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमागयोः । नीवृज्जनपदो देशविषयौ तूपवर्तनम् ॥ ८ ॥ |
|
2.1.9 |
त्रिष्वागोष्ठान्नडप्राये नड्वान्नड्वल इत्यपि । कुमुद्वान्कुमुदप्राये वेतस्वान्बहुवेतसे ॥ ९ ॥ |
|
2.1.10 |
शाद्वल: शादहरिते सजम्बाले तु पङ्किलः । जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः ॥ १० ॥ |
|
2.1.11 |
स्त्री शर्करा शर्करिल: शार्करः शार्करावति । देश एवादिमावेवमुन्नेयाः सिकतावति ॥ ११ ॥ |
|
2.1.12 |
देशो नद्यम्बुवृष्ट्यम्बुसम्पन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२ ॥ |
|
2.1.13 |
सुराज्ञि देशे राजन्वान् स्यात्ततोऽन्यत्र राजवान् । गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥ |
|
2.1.14 |
पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान् । वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम् ॥ १४ ॥ |
|
2.1.15 |
अयनं वर्म मार्गाध्वपन्थान: पदवी सृतिः । सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥ |
|
2.1.16 |
अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि । व्यध्वो दुरध्वो विपथ: कदध्वा कापथः समाः ॥ १६ ॥ |
|
2.1.17 |
अपन्थास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे । प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्म दुर्गमम् ॥ १७ ॥ |
|
2.1.18 |
गव्यूतिः स्त्रीक्रोशयुगं नल्वः किष्कुचतु:शतम् । घण्टापथः संसरणं तत्पुरस्योपनिष्करम् ॥ १८ ॥ |
|
2.2.1 |
पू: स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम् । स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ॥ १ ॥ |
|
2.2.2 |
तच्छाखानगरं वेशो वेश्याजनसमाश्रयः । आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥ २ ॥ |
|
2.2.3 |
रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्रियाम् । प्राकारो वरण: साल: प्राचीनं प्रान्ततो वृति: ॥ ३ ॥ |
|
2.2.4 |
भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम् । गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४ ॥ |
|
2.2.5 |
निशान्तपस्त्यसदनं भवनागारमन्दिरम् । गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥ |
|
2.2.6 |
वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम् । चतु:शालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥ ६ ॥ |
|
2.2.7 |
चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा । आवेशनं शिल्पिशाला प्रपा पानीयशालिका ॥ ७ ॥ |
|
2.2.8 |
मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम् । गर्भागारं वासगृहमरिष्टं सूतिकागृहम् ॥ ८ ॥ |
|
2.2.9 |
वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः । हर्यादि धनिनां वासः प्रासादो देवभूभुजाम् ॥ ९ ॥ |
|
2.2.10 |
सौधोऽस्त्री राजसदनमुपकार्योपकारिका । स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ १० ॥ |
|
2.2.11 |
विच्छन्दक: प्रभेदा हि भवन्तीश्वरसद्मनाम् । स्त्र्यगारं भूभुजामन्त:पुरं स्यादवरोधनम् ॥ ११ ॥ |
|
2.2.12 |
शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम् । प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके ॥ १२ ॥ |
|
2.2.13 |
गृहावग्रहणी देहल्यङ्गनं चत्वराजिरे । अधस्ताद्दारुणि शिला नासा दारूपरि स्थितम् ॥ १३ ॥ |
|
2.2.14 |
प्रच्छन्नमन्तद्वारं स्यात्पक्षद्वारं तु पक्षकः । वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः ॥ १४ ॥ |
|
2.2.15 |
गोपानसी तु वलभी छादने वक्रदारुणि । कपोतपालिकायां तु विटङ्कं पुंनपुंसकम् ॥ १५ ॥ |
|
2.2.16 |
स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेटिका । तोरणोऽस्त्री बहिर्द्वारं पुरद्वारं तु गोपुरम् ॥ १६ ॥ |
|
2.2.17 |
कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु । कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना ॥ १७ ॥ |
|
2.2.18 |
आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी । सम्मार्जनी शोधनी स्यात्सङ्करोऽवकरस्तया ॥ १८ ॥ |
|
2.2.19 |
क्षिप्ते मुखं नि:सरणं सन्निवेशो निकर्षणः । समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्रियाम् ॥ १९ ॥ |
|
2.2.20 |
ग्रामान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे । घोष आभीरपल्ली स्यात्पक्कणः शवरालयः ॥ २० ॥ |
|
2.3.1 |
महीधे शिखरिक्ष्माभृदहार्यधरपर्वताः । अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ १ ॥ |
|
2.3.2 |
लोकालोकश्चक्रवालस्तिकूटस्त्रिककुत्समौ! अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः ॥ २ ॥ |
|
2.3.3 |
हिमवान्निपधो विन्ध्यो माल्यवान्पारियात्रकः । गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३ ॥ |
|
2.3.4 |
पाषाणप्रस्तरग्रावोपलाश्मान: शिला दृषत् । कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भगः ॥ ४ ॥ |
|
2.3.5 |
कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थ: सानुरस्त्रियाम् । उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः ॥ ५ ॥ |
|
2.3.6 |
दरी तु कन्दरो वा स्त्री देवखातबिले गुहा । गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः ॥ ६ ॥ |
|
2.3.7 |
खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः । उपत्यकाद्रासन्ना भूमिर्ध्वमधित्यका ॥ ७ ॥ |
|
2.3.8 |
धातुर्मन:शिलाद्यद्रेः गैरिकं तु विशेषतः । निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे ॥ ८ ॥ |
|
2.4.1 |
अटव्यरण्यं विपिनं गहनं काननं वनम् । महारण्यमरण्यानी गृहारामास्तु निष्कुटा: ॥ १ ॥ |
|
2.4.2 |
आरामः स्यादुपवनं कृत्रिमं वनमेव यत् । अमात्यगणिकागेहोपवने वृक्षवाटिका ॥ २ ॥ |
|
2.4.3 |
पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् । स्यादेतदेव प्रमदवनमन्त:पुरोचितम् ॥ ३ ॥ |
|
2.4.4 |
वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः । वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि ॥ ४ ॥ |
|
2.4.5 |
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः । अनोकहः कुटः सालः पलाशी द्रुद्रुमागमा: ॥ ५ ॥ |
|
2.4.6 |
वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः । ओषधिः फलपाकान्ताः स्यादबन्ध्यः फलेग्रहिः ॥ ६ ॥ |
|
2.4.7 |
बन्ध्योऽफलोऽवकेशी च फलवान्फलिन: फली । प्रफुल्लोत्फुल्लसम्फुल्लव्याकोशविकचस्फुटा: ॥ ७ ॥ |
|
2.4.8 |
फुल्लश्चैते विकसिते स्युरबन्ध्यादयस्त्रिषु । स्थाणुर्वा ना ध्रुवः शङ्कुः ह्रस्वशाखाशिफ: क्षुपः ॥ ८ ॥ |
|
2.4.9 |
अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता । लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि ॥ ९ ॥ |
|
2.4.10 |
नगाद्यारोह उच्छ्राय उत्सेधश्वोच्छ्रयश्च सः । अस्त्री प्रकाण्ड: स्कन्ध: स्यान्मूलाच्छाखावधिस्तरोः ॥ १० ॥ |
|
2.4.11 |
समे शाखालते स्कन्धशाखाशाले शिफाजटे । शाखाशिफावरोह: स्यान्मूलाच्चाग्रं गता लता ॥ ११ ॥ |
|
2.4.12 |
शिरोऽग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः । सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् ॥ १२ ॥ |
|
2.4.13 |
काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम् । निष्कुह: कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ ॥ १३ ॥ |
|
2.4.14 |
पत्त्रं पलाशं छदनं दलं पर्णं छदः पुमान् । पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥ |
|
2.4.15 |
वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम् । आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु ॥ १५ ॥ |
|
2.4.16 |
क्षारको जालकं क्लीबे कलिका कोरकः पुमान् । स्याद्गुत्सकस्तु स्तबकः कुट्मलो मुकुलोऽस्त्रियाम् ॥ १६ ॥ |
|
2.4.17 |
स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् । मकरन्दः पुष्परसः पराग: सुमनोरजः ॥ १७ ॥ |
|
2.4.18 |
द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम् । आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फले ॥ १८ ॥ |
|
2.4.19 |
बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् । पुष्पे जातिप्रभृतयः स्वलिङ्गा व्रीहयः फले ॥ १९ ॥ |
|
2.4.20 |
विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला । बोधिद्रुमश्चलदलः पिप्पल: कुञ्जराशन: ॥ २० ॥ |
|
2.4.21 |
अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः । तस्मिन्दधिफल: पुष्पफलदन्तशठावपि ॥ २१ ॥ |
|
2.4.22 |
उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः । कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ २२ ॥ |
|
2.4.23 |
सप्तपर्णे विशालत्वक् शारदो विषमच्छदः । आरग्वधे राजवृक्षसंपाकचतुरङ्गुलाः ॥ २३ ॥ |
|
2.4.24 |
आरेवतव्याधिघातकृतमालसुवर्णकाः । स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ॥ २४ ॥ |
|
2.4.25 |
वरणे वरुण: सेतुस्तिक्तशाकः कुमारकः । पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः ॥ २५ ॥ |
|
2.4.26 |
पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः । तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः ॥ २६ ॥ |
|
2.4.27 |
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ । आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ॥ २७ ॥ |
|
2.4.28 |
वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः । पीलौ गुडफल: स्रंसी तस्मिंस्तु गिरिसम्भवे ॥ २८ ॥ |
|
2.4.29 |
अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः । पलाशे किंशुकः पर्णो वातपोथोऽथ वेतसे ॥ २९ ॥ |
|
2.4.30 |
रथाभ्रपुष्पविदुलशीतवानीरवञ्जुलाः । द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ॥ ३० ॥ |
|
2.4.31 |
शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः । रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिल: समौ ॥ ३१ ॥ |
|
2.4.32 |
बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि । प्लक्षो जटी पर्कटी स्यान्यग्रोधो बहुपाद्वटः ॥ ३२ ॥ |
|
2.4.33 |
गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ । आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः ॥ ३३ ॥ |
|
2.4.34 |
कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः । शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥ |
|
2.4.35 |
राजादनं पियाल: स्यात्सन्नकद्रुर्धनुष्पटः । गंभारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५ ॥ |
|
2.4.36 |
श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः । कर्कन्धर्बदरी कोली कोलं कुवलफेनिले ॥ ३६ ॥ |
|
2.4.37 |
सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादकण्टकः । विकङ्कत: स्रवावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ३७ ॥ |
|
2.4.38 |
ऐरावतो नागरङ्गः नादेयी भूमिजम्बुका । तिन्दुक: स्फूर्जक: कालस्कन्धश्च शितिसारके ॥ ३८ ॥ |
|
2.4.39 |
काकेन्दुः कुलकः काकपीलुकः काकतिन्दुके । गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ ॥ ३९ ॥ |
|
2.4.40 |
तिलकः क्षुरकः श्रीमान् समौ पिचुलझावुकौ । श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ । ४० ॥ |
|
2.4.41 |
क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः । नूदस्तु यूप: क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ४१ ॥ |
|
2.4.42 |
तूल च नीपप्रियककदम्बास्तु हलिप्रिये । वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ॥ ४२ ॥ |
|
2.4.43 |
गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः । प्लक्षश्च तिन्तिडी चिञ्चाम्ब्लिकाऽथो पीतसारके ॥ ४३ ॥ |
|
2.4.44 |
सर्जकासनबन्धूकपुष्पप्रियकजीवकाः । साले तु सर्जकार्ष्याश्वकर्णकाः सस्यसम्बर: ॥ ४४ ॥ |
|
2.4.45 |
नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः । राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥ ४५ ॥ |
|
2.4.46 |
इङ्गुदीतापसतरुः भूर्जे चर्मिमृदुत्वचौ । पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयो: ॥ ४६ ॥ |
|
2.4.47 |
पिच्छा तु शाल्मलीवेष्टे रोचन: कूटशाल्मलिः । चिरविल्वो नक्तमाल: करजश्च करञ्जके ॥ ४७ ॥ |
|
2.4.48 |
प्रकीर्यः पूतिकरजः पूतीकः कलिमारकः । करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी ॥ ४८ ॥ |
|
2.4.49 |
रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः । गायत्री बालतनयः खदिरो दन्तधावनः ॥ ४९ ॥ |
|
2.4.50 |
अरिमेदो विट्खदिरे कदरः खदिरे सिते । सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥ |
|
2.4.51 |
एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः । चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः ॥ ५१ ॥ |
|
2.4.52 |
अल्पा शमी शमीर: स्याच्छमी सक्तुफला शिवा । पिण्डीतको मरुवकः श्वसन: करहाटकः ॥ ५२ ॥ |
|
2.4.53 |
शल्यश्च मदने शक्रपादप: पारिभद्रकः । भद्रदारु द्रुकिलिमं पीतदारु च दारु च ॥ ५३ ॥ |
|
2.4.54 |
पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः । पाटलि: पाटला मोघा काचस्थाली फलेरुहा ॥ ५४ ॥ |
|
2.4.55 |
कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया । लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली ॥ ५५ ॥ |
|
2.4.56 |
विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा । मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ॥ ५६ ॥ |
|
2.4.57 |
स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः । शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु ॥ ५७ ॥ |
|
2.4.58 |
अमृता च वयस्था च त्रिलिङ्गस्तु विभीतकः । नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥ ५८ ॥ |
|
2.4.59 |
अभया त्वव्यथा पथ्या कायस्था पूतनाऽमृता । हरीतकी हैमवती चेतकी श्रेयसी शिवा ॥ ५९ ॥ |
|
2.4.60 |
पीतद्रु: सरल: पूतिकाष्ठं चाथ द्रुमोत्पलः । कर्णिकार: परिव्याधे लकुचो लिकुचो डहुः ॥ ६० ॥ |
|
2.4.61 |
पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः । काकोदुम्बरिका फल्गुर्मलपूर्जघनेफला ॥ ६१ ॥ |
|
2.4.62 |
अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः । पिचुमर्दश्च निम्बेऽथ पिच्छिलाऽगुरुशिंशपा ॥ ६२ ॥ |
|
2.4.63 |
कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः । भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपण ॥ ६३ ॥ |
|
2.4.64 |
एतस्य कलिका गन्धफली स्यादथ केसरे । वकुलो वञ्जुलोऽशोके समौ करकदाडिमौ ॥ ६४ ॥ |
|
2.4.65 |
चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः । जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥ |
|
2.4.66 |
श्रीपर्णमग्निमन्थ: स्यात्कणिका गणिकारिका । जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ॥ |
|
2.4.67 |
एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले । कृष्णपाकफलावग्निसुषेणाः करमर्दके ॥ ६७ ॥ |
|
2.4.68 |
कालस्कन्धस्तमाल: स्यात्तापिच्छोऽप्यथ सिन्दुकः । सिन्दुवारेन्द्रसुरसा निर्गुण्डीन्द्राणिकेत्यपि ॥ ६८ ॥ |
|
2.4.69 |
वेणी खरा गरी देवताडो जीमूत इत्यपि । श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका ॥ ६९ ॥ |
|
2.4.70 |
भूतदी शीतभीरुश्च सैवास्फोता वनोद्भवा । शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ॥ ७० ॥ |
|
2.4.71 |
सितासौ श्वेतसुरसा भूतवेश्यथ मागधी । गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ॥ ७१ ॥ |
|
2.4.72 |
अतिमुक्त: पुण्ड्रक: स्याद्वासन्ती माधवी लता । सुमना मालती जाति: सप्तला नवमालिका ॥ ७२ ॥ |
|
2.4.73 |
माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः । सहा कुमारी तरणिरम्लानस्तु महासहा ॥ ७३ ॥ |
|
2.4.74 |
तत्र शोणे कुरबकः तत्र पीते कुरण्टकः । नीला झिंटी द्वयोर्बाणा दासी चार्तगलश्च सा ॥ ७४ ॥ |
|
2.4.75 |
सैरेयकस्तु झिंटी स्यात्तस्मिन् कुरबकोऽरुणे । पीता कुरण्टको झिंटी तस्मिन् सहचरी द्वयोः ॥ ७५ ॥ |
|
2.4.76 |
ओड्रपुष्पं जवापुष्पं वज्रपुष्पं तिलस्य यत् । प्रतिहासशतप्रासचण्डातहयमारकाः ॥ ७६ ॥ |
|
2.4.77 |
करवीरे करीरे तु क्रकरग्रन्थिलावुभौ । उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ॥ ७७ ॥ |
|
2.4.78 |
मातुलो मदनश्चास्य फले मातुलपुत्रकः । फलपूरो बीजपुरो रुचको मातुलुङ्गके ॥ ७८ ॥ |
|
2.4.79 |
समीरणो मरुवकः प्रस्थपुष्पः फणिज्जकः । जम्बीरोऽप्यथ पर्णासे कठिञ्चरकुठेरकौ ॥ ७९ ॥ |
|
2.4.80 |
सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः । अर्काह्ववसुकास्फोतगणरूपविकीरणा: ॥ ८० ॥ |
|
2.4.81 |
मन्दारश्चार्कपर्णेऽत्र शुक्लेऽलर्कप्रतापसौ । शिवमल्ली पाशुपत एकाष्ठीलो वुको वसुः ॥ ८१ ॥ |
|
2.4.82 |
वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि । वत्सादनी छिन्नरुहा गुडूची तन्त्रिकाऽमृता ॥ ८२ ॥ |
|
2.4.83 |
जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि । मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा ॥ ८३ ॥ |
|
2.4.84 |
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि । पाठाऽम्बष्ठा विद्धकर्णी स्थापनी श्रेयसी रसा ॥ ८४ ॥ |
|
2.4.85 |
एकाष्ठीला पापचेली प्राचीना वनतिक्तिका । कटुः कटंवराऽशोकरोहिणी कटुरोहिणी ॥ ८५ ॥ |
|
2.4.86 |
मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी । आत्मगुप्ताजडाऽव्यण्डा कण्डूरा प्रावृषायणी ॥ ८६ ॥ |
|
2.4.87 |
ऋष्यप्रोक्ता शूकशिम्बि: कपिकच्छुश्च मर्कटी । चित्रोपचित्रा न्यग्रोधी द्रवन्ती शंवरी वृषा ॥ ८७ ॥ |
|
2.4.88 |
प्रत्यक्श्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि । अपामार्गः शैखरिको धामार्गवमयूरकौ ॥ ८८ ॥ |
|
2.4.89 |
प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी । हञ्जिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ ८९ ॥ |
|
2.4.90 |
अंङ्गारवल्ली बालेयशाकवर्वरवर्धकाः । मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ॥ ९० ॥ |
|
2.4.91 |
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि । यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ॥ ९१ ॥ |
|
2.4.92 |
रोदनी कच्छुराऽनन्ता समुद्रान्ता दुरालभा । पृश्निपर्णी पृथक्पर्णी चित्रपर्यङ्घ्रिपर्णिका ॥ ९२ ॥ |
|
2.4.93 |
क्रोष्टुविन्ना सिंहपुच्छी कलशिर्धावनिर्गुहा । निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ॥ ९३ ॥ |
|
2.4.94 |
प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि । नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥ ९४ ॥ |
|
2.4.95 |
रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी । अवल्गुज: सोमराजी सुवल्लिः सोमवल्लिका ॥ ९५ ॥ |
|
2.4.96 |
कालमेषी कृष्णफला वाकुची पूतिफल्यपि । कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥ ९६ ॥ |
|
2.4.97 |
ऊषणा पिप्पली शौण्डी कोलाऽथ करिपिप्पली । कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान् ॥ ९७ ॥ |
|
2.4.98 |
चव्यं तु चविकं काकचिञ्चागुञ्जे तु कृष्णला । पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः ॥ ९८ ॥ |
|
2.4.99 |
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि । विश्वा विषा प्रतिविषातिविषोपविषारुणा ॥ ९९ ॥ |
|
2.4.100 |
शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे । शतमूली बहुसुताभीरुरिन्दीवरी वरी ॥ १०० ॥ |
|
2.4.101 |
ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी । अहेरुरथ पीतद्रुकालेयकहरिद्रवः ॥ १०१ ॥ |
|
2.4.102 |
दार्वी पचम्पचा दारुहरिद्रा पर्जनीत्यपि । वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ॥ १०२ ॥ |
|
2.4.103 |
शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका । वृषोऽटरूष: सिंहास्यो वासको वाजिदन्तकः ॥ १०३ ॥ |
|
2.4.104 |
आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता । इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः ॥ १०४ ॥ |
|
2.4.105 |
शालेय: स्याच्छीतशिवछत्रा मधुरिका मिसिः । मिश्रेयोऽप्यथ सीहुण्डो वज्रद्रुः स्नुक्स्नुही गुडा ॥ १०५ ॥ |
|
2.4.106 |
समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला । तण्डुलश्च कृमिघ्नश्च विडङ्गं पुनपुंसकम् ॥ १०६ ॥ |
|
2.4.107 |
बला वाट्यालको घण्टारवा तु शणपुष्पिका । मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च ॥ १०७ ॥ |
|
2.4.108 |
सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् । त्रिभण्डी रोचनी श्यामापालिन्द्यौ तु सुषेणिका ॥ १०८ ॥ |
|
2.4.109 |
काला मसूरविदलार्धचन्द्रा कालमेषिका । मधुकं क्लीतकं यष्टीमधुकं मधुयष्टिका ॥ १०९ ॥ |
|
2.4.110 |
विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या सिता । अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका ॥ ११० ॥ |
|
2.4.111 |
लाङ्गली शारदी तोयपिप्पली शकुलादनी । खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥ १११ ॥ |
|
2.4.112 |
गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा । योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ॥ ११२ ॥ |
|
2.4.113 |
कदली वारणवुसा रम्भा मोचांशुमत्फला । काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि ॥ ११३ ॥ |
|
2.4.114 |
वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षणी । नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली ॥ ११४ ॥ |
|
2.4.115 |
नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा । विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा ॥ ११५ ॥ |
|
2.4.116 |
तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च । भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः ॥ ११६ ॥ |
|
2.4.117 |
गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका । धामार्गवो घोषक: स्यान्महाजाली स पीतकः ॥ ११७ ॥ |
|
2.4.118 |
ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका । स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका ॥ ११८ ॥ |
|
2.4.119 |
गोधापदी तु सुवहा मुसली तालमूलिका । अजशृङ्गी विषाणी स्यागोजिह्वादार्विके समे ॥ ११९ ॥ |
|
2.4.120 |
ताम्बूलवल्ली ताम्बूली नागवल्ल्यप्यथ द्विजा । हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ॥ |
|
2.4.121 |
एलावालुकमैलेयं सुगन्धि हरिबालुकम् । बालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू ॥ १२१ ॥ |
|
2.4.122 |
बालं ह्रीवेरबर्हिष्ठोदीच्यं केशाम्बुनाम च । कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ॥ १२२ ॥ |
|
2.4.123 |
शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा । गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ॥ |
|
2.4.124 |
महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च । अग्निज्वालासुभिक्षे तु धातकी धातृपुष्पिका ॥ १२४ ॥ |
|
2.4.125 |
पृथ्वीका चन्द्रबालैला निष्कुटिर्बहुलाऽथ सा । सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटि: ॥ १२५ ॥ |
|
2.4.126 |
व्याधिः कुष्ठं पारिभाव्यं व्याप्यं पाकलमुत्पलम् । शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः ॥ १२६ ॥ |
|
2.4.127 |
झटाऽमलाऽज्झटा ताली शिवा तामलकीति च । प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः ॥ १२७ ॥ |
|
2.4.128 |
कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी । चण्डा धनहरी क्षेमदुष्पत्रगणहासका: ॥ १२८ ॥ |
|
2.4.129 |
व्याडायुधं व्याघ्रनखं करजं चक्रकारकम् । शुषिरा विद्रुमलता कपोताघ्रिर्नटी नली ॥ १२९ ॥ |
|
2.4.130 |
धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी । शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी ॥ १३० ॥ |
|
2.4.131 |
काक्षी मृत्स्ना तुवरिका मृतालकसुराष्ट्रजे । कुटन्नटं दाशपुरं वानेयं परिपेलवम् ॥ १३१ ॥ |
|
2.4.132 |
प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च । ग्रन्थिपर्णं शुकं बर्हिपुष्पं स्थौणेयकुक्कुरे ॥ १३२ ॥ |
|
2.4.133 |
मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः । समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १३३ ॥ |
|
2.4.134 |
तपस्विनी जटामांसी जटिला लोमशा मिसी । त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् ॥ १३४ ॥ |
|
2.4.135 |
कर्चूरको द्राविडकः काल्पको वेधमुख्यकः । ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५ ॥ |
|
2.4.136 |
शाकाख्यं पत्रपुष्पादि तण्डुलीयोल्पमारिषः । विशल्याऽग्निशिखाऽनन्ता फलिनी शक्रपुष्प्यपि ॥ १३६ ॥ |
|
2.4.137 |
स्यादृक्षगन्धा छगलात्र्यावेगी वृद्धदारकः । जुङ्गो ब्राह्मी तु मत्स्याक्षी वयस्था सोमवल्लरी ॥ १३७ ॥ |
|
2.4.138 |
पटूपर्णी हैमवती स्वर्णक्षीरी हिमावती । हयपुच्छी तु काम्बोजी माषपर्णी महासहा ॥ १३८ ॥ |
|
2.4.139 |
तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि । वर्वरा कवरी तुङ्गी खरपुष्पाजगन्धिका ॥ १३९ ॥ |
|
2.4.140 |
एलापर्णी तु सुवहा रास्ना युक्तरसा च सा । चाङ्गेरी चुक्रिका दन्तशठाऽम्बष्ठाऽम्ललोणिका ॥ १४० ॥ |
|
2.4.141 |
सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि । नमस्कारी गण्डकाली समङ्गा खदिरेत्यपि ॥ १४१ ॥ |
|
2.4.142 |
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा । कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवका: ॥ १४२ ॥ |
|
2.4.143 |
किराततिक्तो भूनिम्बोऽनार्यतिक्तोऽथ सप्तला । विमला सातला भूरिफेना चर्मकषेत्यपि ॥ १४३ ॥ |
|
2.4.144 |
वायसोली स्वादुरसा वयस्थाथ मकूलकः । निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि ॥ १४४ ॥ |
|
2.4.145 |
अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका । मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १४५ ॥ |
|
2.4.146 |
अव्यथाऽतिचरा पद्मा चारटी पद्मचारिणी । काम्पिल्य: कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि ॥ १४६ ॥ |
|
2.4.147 |
प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः । पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः ॥ १४७ ॥ |
|
2.4.148 |
लतार्कद्रुद्रुमौ तत्र हरितेऽथ महौषधम् । लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः ॥ १४८ ॥ |
|
2.4.149 |
पुनर्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम् । स्याद्वातक: शीतलोऽपराजिता शणपर्ण्यपि ॥ १४९ ॥ |
|
2.4.150 |
पारावताघ्रि: कटभी पण्या ज्योतिष्मती लता । वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका ॥ १५० ॥ |
|
2.4.151 |
विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेति च । मार्कवो भृङ्गराज: स्यात्काकमाची तु वायसी ॥ १५१ ॥ |
|
2.4.152 |
शतपुष्पा सितच्छत्राऽतिच्छत्त्रा मधुरा मिसिः । अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी ॥ १५२ ॥ |
|
2.4.153 |
तस्यां कटंभरा राजबला भद्रबलेति च । जनी जतूका रजनी जतुकृञ्चक्रवर्तिनी ॥ १५३ ॥ |
|
2.4.154 |
संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि । कर्चूरोऽपि पलाशोऽथ कारवेल्ल: कठिल्लकः ॥ १५४ ॥ |
|
2.4.155 |
सुषवी चाथ कुलकं पटोलतिस्तक्तकः पटुः । कूष्माण्डकस्तु कर्कारुरीर्वारु: कर्कटी स्त्रियौ ॥ १५५ ॥ |
|
2.4.156 |
इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे । चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी ॥ १५६ ॥ |
|
2.4.157 |
अर्शोघ्नः शूरण: कन्दः गण्डीरस्तु समष्ठिला । कलम्ब्युपोदकास्त्री तु मूलकं हिलमोचिका ॥ १५७ ॥ |
|
2.4.158 |
वास्तुकं शाकभेदाः स्युः दूर्वा तू शतपर्विका । सहस्रवीर्याभार्गव्यौ रुहानन्ताऽथ सा सिता ॥ १५८ ॥ |
|
2.4.159 |
गोलोमी शतवीर्या च गण्डाली शकुलाक्षका । कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ॥ |
|
2.4.160 |
स्याद्भद्रमुस्तको गुंद्रा चूडाला चक्रलोच्चटा । वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः ॥ १६० ॥ |
|
2.4.161 |
शतपर्वा यवफलो वेणुमस्करतेजनाः । वेणव: कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ॥ १६१ ॥ |
|
2.4.162 |
ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः । नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम् ॥ १६२ ॥ |
|
2.4.163 |
इक्षुगन्धा पोटगलः पुंसि भूम्नि तु वल्वजाः । रसाल इक्षुः तद्भेदाः पुण्ड्रकान्तारकादय: ॥ १६३ ॥ |
|
2.4.164 |
स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥ |
|
2.4.165 |
लामज्जकं लघुलयमवदाहेष्टकापथे । नलादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि ॥ १६५ ॥ |
|
2.4.166 |
अस्त्री कुशं कुथो दर्भः पवित्रमथ कतृणम् । पौरसौगन्धिकध्यामदेवजग्धकरौहिषम् ॥ १६६ ॥ |
|
2.4.167 |
छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणो । शष्पं बालतृणं घासो यवसं तृणमर्जुनम् ॥ १६७ ॥ |
|
2.4.168 |
तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः । तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली ॥ १६८ ॥ |
|
2.4.169 |
घोण्टा तु पूग: क्रमुको गुवाकः खपुरोऽस्य तु । फलमुद्वेगमेते च हिंतालसहितास्त्रयः ॥ खर्जूरः केतकी ताली खजूरी च तृणद्रुमाः ॥ १६९ ॥ |
|
2.5.1 |
सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः । शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः ॥ १ ॥ |
|
2.5.2 |
वराहः सूकरो घृष्टि: कोल: पोत्री किरः किटि: । दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥ |
|
2.5.3 |
कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः । मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ३ ॥ |
|
2.5.4 |
ऋक्षाच्छभल्लभालूका: गण्डके खड्गखड्गिनौ । लुलापो महिषो वाहद्विषत्कासरसैरिभाः ॥ ४ ॥ |
|
2.5.5 |
स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः । सृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुका: ॥ ५ ॥ |
|
2.5.6 |
ओतुर्विडालो मार्जारो वृषदंशक आखुभुक् । त्रयो गौधारगौधेरगौधेया गोधिकात्मजे ॥ ६ ॥ |
|
2.5.7 |
श्ववित्तु शल्यस्तल्लोम्नि शलली शललं शलम् । वातप्रमीर्वातमृग: कोक ईहामृगो वृकः ॥ ७ ॥ |
|
2.5.8 |
मृगे कुरङ्गवातायुहरिणाजिनयोनयः । ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ॥ ८ ॥ |
|
2.5.9 |
कदली कन्दली चीनश्चमूरुप्रियकावपि । समूरुश्चेति हरिणा अमी अजिनयोनय: ॥ ९ ॥ |
|
2.5.10 |
कृष्णसाररुरुन्यङ्कुरङ्कुशंवररौहिषाः । गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥ |
|
2.5.11 |
गन्धर्वः शरभो रामः सृमरो गवयः शशः । इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥ |
|
2.5.12 |
उन्दुरुर्मूषकोऽप्याखुः गिरिका बालमूषिका । सरटः कृकलास: स्यान्मुसली गृहगोधिका ॥ १२ ॥ |
|
2.5.13 |
लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः । नीलङ्गुस्तु क्रिमिः कर्णजलौका शतपद्युभे ॥ १३ ॥ |
|
2.5.14 |
वृश्चिक: शूककीटः स्यादलिद्रुणौ तु वृश्चिके । पारावत: कलरवः कपोतोऽथ शशादनः ॥ १४ ॥ |
|
2.5.15 |
पत्त्री श्येन उलूके तु वायसारातिपेचकौ । व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः ॥ १५ ॥ |
|
2.5.16 |
लोहपृष्ठस्तु कङ्कः स्यादथ चाष: किकीदिविः । कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः ॥ १६ ॥ |
|
2.5.17 |
दार्वाघाटोऽथ शारङ्गस्तोककश्चातकः समाः । कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥ |
|
2.5.18 |
चटक: कलविङ्कः स्यात्तस्य स्त्री चटका तयोः । पुमपत्ये चाटकैरस्त्र्यपत्ये चटकैव हि ॥ १८ ॥ |
|
2.5.19 |
कर्करेटुः करेटुः स्यात् कृकणक्रकरौ समौ । वनप्रियः परभृतः कोकिल: पिक इत्यपि ॥ १९ ॥ |
|
2.5.20 |
काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः । ध्वाङ्क्षात्मघोषपरभृद्वलिभुग्वायसा अपि ॥ २० ॥ |
|
2.5.21 |
द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः । आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ ॥ २१ ॥ |
|
2.5.22 |
कुङ्क्रौञ्चोऽथ बकः कह्व पुष्कराह्वस्तु सारसः । कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः ॥ २२ ॥ |
|
2.5.23 |
कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ । हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः ॥ २३ ॥ |
|
2.5.24 |
राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः । मलिनैर्मल्लिकाख्यास्ते धार्तराष्ट्राः सितेतरैः ॥ २४ ॥ |
|
2.5.25 |
शरारिराटिराडिश्च बलाका विसकण्ठिका । हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा ॥ २५ ॥ |
|
2.5.26 |
जतुकाऽजिनपत्रा स्यात्परोष्णी तैलपायिका । वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ २६ ॥ |
|
2.5.27 |
पतङ्गिका पुत्तिका स्याद् दंशस्तू वनमक्षिका । दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः ॥ २७ ॥ |
|
2.5.28 |
भृङ्गारी चीरुका चीरी झिल्लिका च समा इमा: । समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः ॥ २८ ॥ |
|
2.5.29 |
मधुव्रतो मधुकरो मधुलिण्मधुपालिन: । द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः ॥ २९ ॥ |
|
2.5.30 |
मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक् । शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥ |
|
2.5.31 |
केका वाणी मयूरस्य समौ चन्द्रकमेचकौ । शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके ॥ ३१ ॥ |
|
2.5.32 |
खगे विहंगविहगविहंगमविहायसः । शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥ |
|
2.5.33 |
पतत्रिपत्त्रिपतगपतत्पत्त्ररथाण्डजाः । नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥ |
|
2.5.34 |
नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसङ्गमाः । तेषां विशेषा हारीतो मद्गुः कारण्डव: प्लवः ॥ ३४ ॥ |
|
2.5.35 |
तित्तिरि: कुक्कुभो लावो जीवंजीवश्चकोरकः । कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥ |
|
2.5.36 |
गरुत्पक्षच्छदाः पत्त्रं पतत्त्रं च तनूरुहम् । स्त्री पक्षतिः पक्षमूलं चञ्स्त्रोटिरुभे स्त्रियौ ॥ ३६ ॥ |
|
2.5.37 |
प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रिया: । पेशी कोषो द्विहीनेऽण्डं कुलायो नीडमस्रियाम् ॥ ३७ ॥ |
|
2.5.38 |
पोत: पाकोऽर्भको डिम्भ: पृथुक: शावक: शिशुः । स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगलं युगम् ॥ ३८ ॥ |
|
2.5.39 |
समूहनिवहव्यूहसन्दोहविसरव्रजाः । स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥ |
|
2.5.40 |
समुदायः समुदयः समवायश्चयो गणः । स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥ |
|
2.5.41 |
वृन्दभेदाः समैर्वर्गः संघसार्थौ तु जन्तुभिः । सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम् ॥ ४१ ॥ |
|
2.5.42 |
पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् । स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥ |
|
2.5.43 |
कापोतशौकमायूरतैत्तिरादीनि तद्गणे । गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ४३ ॥ |
|
2.6.4 |
सुन्दरी रमणी रामा कोपना सैव भामिनी । वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी ॥ ४ ॥ |
|
2.6.5 |
कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः । पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥ ५ ॥ |
|
2.6.6 |
भार्या जायाथ पुंभूम्नि दारा: स्यात्तु कुटुम्बिनी । पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥ |
|
2.6.7 |
कृतसापत्निकाध्यूढाधिविन्नाथ स्वयंवरा । पतिंवरा च वर्या च कुलस्त्री कुलपालिका ॥ ७ ॥ |
|
2.6.8 |
कन्या कुमारी गौरी तु नग्निकानागतार्तवा । स्यान्मध्यमा दृष्टरजाः तरुणी युवतिः समे ॥ ८ ॥ |
|
2.6.9 |
समा: स्नुषाजनीवध्व: चिरण्टी तु सुवासिनी । इच्छावती कामुका स्याद् वृषस्यन्ती तु कामुकी ॥ ९ ॥ |
|
2.6.10 |
कान्तार्थिनी तुया याति सङ्केतं साभिसारिका । पुंश्चली चर्षिणी बन्धक्यसती कुलटेत्वरी ॥ १० ॥ |
|
2.6.11 |
स्वैरिणी पांशुला च स्यादशिश्वी शिशुना विना । अवीरा निष्पतिसुता विश्वस्ताविधवे समे ॥ ११ ॥ |
|
2.6.12 |
आलि: सखी वयस्याच पतिवत्नी सभर्तृका । वृद्धा पलिक्नी प्रज्ञा तु प्राज्ञी प्राज्ञा तु धीमती ॥ १२ ॥ |
|
2.6.13 |
शूद्री शूद्रस्य भार्या स्यात् शूद्रा तज्जातिरेव च । आभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥ १३ ॥ |
|
2.6.14 |
अर्याणी स्वयमर्या स्यात् क्षत्रिया क्षत्रियाण्यपि । उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥ १४ ॥ |
|
2.6.15 |
आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा । उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा ॥ १५ ॥ |
|
2.6.16 |
वीरपत्नी वीरभार्या वीरमाता तु वीरसूः । जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ १६ ॥ |
|
2.6.17 |
स्त्री नग्निका कोटवी स्याद् दूतीसञ्चारिके समे । कात्यायन्यर्धवृद्धा या कषायवसनाधवा ॥ १७ ॥ |
|
2.6.18 |
सैरंध्री परवेश्मस्था स्ववशा शिल्पकारिका । असिक्नी स्यादवृद्धा या प्रेष्यान्त:पुरचारिणी ॥ १८ ॥ |
|
2.6.19 |
वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः । सत्कृता वारमुख्या स्यात् कुट्टनी शम्भली समे ॥ १९ ॥ |
|
2.6.20 |
विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला । स्त्रीधर्मिण्यवरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥ |
|
2.6.21 |
ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् । श्रद्धालुर्दोहदवती निष्कला विगतार्तवा ॥ २१ ॥ |
|
2.6.22 |
आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी । गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ॥ २२ ॥ |
|
2.6.23 |
पुनर्भूदिधिषूरूढा द्विः तस्या दिधिषूः पतिः । स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी ॥ २३ ॥ |
|
2.6.24 |
कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः । सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रिया: ॥ २४ ॥ |
|
2.6.25 |
पैतृष्वसेय: स्यात् पैतृष्वस्त्रीयश्च पितृष्वसुः । सुतः मातृष्वसुश्चैवं वैमात्रेयो विमातृजः ॥ २५ ॥ |
|
2.6.26 |
अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः । कौलटेय: कौलटेरः भिक्षुकी तु सती यदि ॥ २६ ॥ |
|
2.6.27 |
तदा कोलटिनेयोऽस्या: कौलटेयोऽपि चात्मजः । आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥ |
|
2.6.28 |
आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे । स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता ॥ २८ ॥ |
|
2.6.29 |
जनयित्री प्रसूर्माता जननी भगिनी स्वसा । ननन्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा ॥ २९ ॥ |
|
2.6.30 |
भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ३० ॥ |
|
2.6.31 |
पतिपत्न्यो: प्रसू: श्वश्रू: श्वशुरस्तु पिता तयोः । पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुल: ॥ ३१ ॥ |
|
2.6.32 |
श्यालाः स्युर्भ्रातर: पत्न्या: स्वामिनो देवृदेवरौ । स्वस्त्रियो भागिनेय: स्याज्जामाता दुहितुः पतिः ॥ ३२ ॥ |
|
2.6.33 |
पितामहः पितृपिता तत्पिता प्रपितामहः । मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः ॥ ३३ ॥ |
|
2.6.34 |
समानोदर्यसोदर्यसगर्भ्यसहजाः समाः । सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥ ३४ ॥ |
|
2.6.35 |
ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयो: । धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ ॥ ३५ ॥ |
|
2.6.36 |
अमृते जारजः कुण्ड: मृते भर्तरि गोलकः । भ्रात्रीयो भ्रातृजः भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६ ॥ |
|
2.6.37 |
मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ । श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ॥ ३७ ॥ |
|
2.6.38 |
दम्पती जम्पती जायापती भार्यापती च तौ । गर्भाशयो जरायुः स्यादुल्वं च कललोऽस्त्रियाम् ॥ ३८ ॥ |
|
2.6.39 |
सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ । तृतीया प्रकृतिः शण्ढ: क्लीब: पण्डो नपुंसकम् ॥ ३९ ॥ |
|
2.6.40 |
शिशत्वं शैशवं बाल्यं तारुण्यं यौवनं समे । स्यात्स्थाविरं तु वृद्धत्वं वृद्धसङ्घेऽपि वार्धकम् ॥ ४० ॥ |
|
2.6.41 |
पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा । स्यादुत्तानशया डिम्भा स्तनपा च स्तनंधयी ॥ ४१ ॥ |
|
2.6.42 |
बालस्तु स्यान्माणवक: वयस्थस्तरुणो युवा । प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥ |
|
2.6.43 |
वर्षीयान्दशमी ज्यायान् पूर्वजस्त्वग्रियोऽग्रजः । जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः ॥ ४३ ॥ |
|
2.6.44 |
अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः । तुन्दिलस्तुन्दिकस्तुन्दी बृहत्कुक्षि: पिचिण्डिलः ॥ ४४ ॥ |
|
2.6.45 |
अवटीटोऽवनाटश्चावभ्रटो नतनासिके । केशवः केशिक: केशी बलिनो बलिभः समौ ॥ ४५ ॥ |
|
2.6.46 |
विकलाङ्गस्तु पोगण्ड: खर्वो ह्रस्वश्च वामनः । खरणा: स्यात्खरणसो विग्रस्तु गतनासिके ॥ ४६ ॥ |
|
2.6.47 |
खुरणा: स्यात्खुरणस: प्रज्ञुः प्रगतजानुकः । ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात् संज्ञुः संहतजानुकः ॥ ४७ ॥ |
|
2.6.48 |
स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः । पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते ॥ ४८ ॥ |
|
2.6.49 |
वलिर: केकरे खोडे खञ्जः त्रिषु जरावराः । जडुलः कालकः पिप्लुः तिलकस्तिलकालकः ॥ ४९ ॥ |
|
2.6.50 |
अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया । भेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥ |
|
2.6.51 |
स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः । क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ॥ ५१ ॥ |
|
2.6.52 |
स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् । शोफस्तु श्वयथुः शोथ: पादस्फोटो विपादिका ॥ ५२ ॥ |
|
2.6.53 |
किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका । कण्डू: खर्जूश्च कण्डूया विस्फोट: पिटकस्त्रिषु ॥ ५३ ॥ |
|
2.6.54 |
व्रणोऽस्त्रियामीर्ममरु: क्लीबे नाडीव्रणः पुमान् । कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी ॥ ५४ ॥ |
|
2.6.55 |
आनाहस्तु विबन्ध: स्याद् ग्रहणी रुक् प्रवाहिका । प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥ ५५ ॥ |
|
2.6.56 |
व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः । अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु ॥ ५६ ॥ |
|
2.6.57 |
रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके । वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ॥ ५७ ॥ |
|
2.6.58 |
ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः । आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ ॥ ५८ ॥ |
|
2.6.59 |
दर्द्रुणो दर्द्रुरोगी स्यादर्शोरोगयुतोऽर्शसः । वातकी वातरोगी स्यात्सातिसारोऽतिसारकी ॥ ५९ ॥ |
|
2.6.60 |
स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी । उन्मत्त उन्मादवति श्लेष्मल: श्लेष्मण: कफी ॥ ६० ॥ |
|
2.6.61 |
न्युब्जो भुग्ने रुजा वृद्धनाभौ तुण्दिभतुण्डिलौ । किलासी सिध्मलोऽन्धोऽदृक् मूर्छाले मूर्तमूर्छितौ ॥ ६१ ॥ |
|
2.6.62 |
शुक्रं तेजो रेतसी च बीजवीर्येन्द्रियाणि च । मायुः पित्तं कफ: श्लेष्मा स्त्रियां तु त्वगसृग्धरा ॥ ६२ ॥ |
|
2.6.63 |
पिशितं तरसं मांसं पललं क्रव्यमामिषम् । उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् ॥ ६३ ॥ |
|
2.6.64 |
रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् । वुक्काऽग्रमांसं हृदयं हन्मेदस्तु वपा वसा ॥ ६४ ॥ |
|
2.6.65 |
पश्चाद्ग्रीवासिरा मन्या नाडी तु धमनि: सिरा । तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम् ॥ ६५ ॥ |
|
2.6.66 |
अन्त्रं पुरीतद् गुल्मस्तु प्लीहा पुंस्यथ वस्नसा । स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे ॥ ६६ ॥ |
|
2.6.67 |
सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम् । मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥ |
|
2.6.68 |
गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ । स्यात्कर्पर: कपालोऽस्त्री कीकसं कुल्यमस्थि च ॥ ६८ ॥ |
|
2.6.69 |
स्याच्छरीरास्थ्नि कङ्काल: पृष्ठास्थ्नि तु कशेरुका । शिरोस्थनि करोटि: स्त्री पार्श्वास्थनि तु पर्शुका ॥ ६९ ॥ |
|
2.6.70 |
अङ्ग प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् । गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥ |
|
2.6.71 |
कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः । पादाग्रं प्रपदं पादः पदंघ्रिश्चरणोऽस्त्रियाम् ॥ ७१ ॥ |
|
2.6.72 |
तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरध: । जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् ॥ ७२ ॥ |
|
2.6.73 |
सक्थि क्लीबे पुमानूरु: तत्संधिः पुंसि वङ्क्षण: । गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः ॥ ७३ ॥ |
|
2.6.74 |
कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती । पश्चान्नितम्बः स्त्रीकट्या: क्लीबे तु जघनं पुरः ॥ ७४ ॥ |
|
2.6.75 |
कूपकौ तु नितम्बस्थौ द्वयहीने कुकुन्दरे । स्त्रियां स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः ॥ ७५ ॥ |
|
2.6.76 |
भगं योनिर्द्वयोः शिश्नो मेढ्रं मेहनशेफसी । मुष्कोऽण्डकोशो वृषण: पृष्ठवंशाधरे त्रिकम् ॥ ७६ ॥ |
|
2.6.77 |
पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ । चुचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ॥ ७७ ॥ |
|
2.6.78 |
उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनो: । स्कन्धो भुजशिरोऽसोऽस्त्री सन्धी तस्यैव जत्रुणी ॥ ७८ ॥ |
|
2.6.79 |
बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरध: । मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः ॥ ७९ ॥ |
|
2.6.80 |
भुजबाहू प्रवेष्टो दो: स्यात्कफोणिस्तु कूर्परः । अस्योपरि प्रगण्ड: स्यात्प्रकोष्ठस्तस्य चास्यधः ॥ ८० ॥ |
|
2.6.81 |
मणिबन्धादाकनिष्ठं करस्य करभो बहि: । पञ्चशाख: शयः पाणि: तर्जनी स्यात्प्रदेशनी ॥ ८१ ॥ |
|
2.6.82 |
अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठ: प्रदेशिनी । मध्यमाऽनामिका चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ ॥ |
|
2.6.83 |
पुनर्भव: कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् । प्रादेशतालगोकर्णास्तर्जन्यादियुते तते ॥ ८३ ॥ |
|
2.6.84 |
अङ्गष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुल: । पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गलौ ॥ ८४ ॥ |
|
2.6.85 |
द्वौ संहतौ संहतलप्रतलौ वामदक्षिणौ । पाणिर्निकुब्जः प्रसृतिः तौ युतावञ्जलिः पुमान् ॥ ८५ ॥ |
|
2.6.86 |
प्रकोष्ठे विस्तृतकरे हस्त: मुष्ट्या तु बद्धया । स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ॥ ८६ ॥ |
|
2.6.87 |
व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् । ऊर्ध्वविस्तृतदो: पाणिनृमाने पौरुषं त्रिषु ॥ ८७ ॥ |
|
2.6.88 |
कण्ठो गलोऽथ ग्रीवायां शिरोधि: कंधरेत्यपि । कम्बुग्रीवा त्रिरेखा साऽवटुर्घाटा कृकाटिका ॥ ८८ ॥ |
|
2.6.89 |
वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् । क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका ॥ ८९ ॥ |
|
2.6.90 |
ओष्ठाधरौ तु रदनच्छदौ दशनवाससी । अधस्ताच्चिवुकं गण्डौ कपोलौ तत्परो हनुः ॥ ९० ॥ |
|
2.6.91 |
रदना दशना दन्ता रदास्तालु तु काकुदम् । रसज्ञा रसना जिह्वा प्रान्तावोठस्य सृक्किणी ॥ ९१ ॥ |
|
2.6.92 |
ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भुवौ स्त्रियौ । कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥ ९२ ॥ |
|
2.6.93 |
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी । दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥ |
|
2.6.94 |
अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने । कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४ ॥ |
|
2.6.95 |
उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् । चिकुर: कुन्तलो बाल: कच: केश: शिरोरुहः ॥ ९५ ॥ |
|
2.6.96 |
तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तला: । ते ललाटे भ्रमरका: काकपक्षः शिखण्डकः ॥ ९६ ॥ |
|
2.6.97 |
कबरी केशवेशोऽथ धम्मिल्ल: संयता: कचा: । शिखा चूडा केशपाशी व्रतिनस्तु जटा सटा ॥ ९७ ॥ |
|
2.6.98 |
वेणिप्रवेणीशीर्षण्यशिरस्यौ विशदे कचे । पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥ ९८ ॥ |
|
2.6.99 |
तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुंमुखे । आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९ ॥ |
|
2.6.100 |
दशैते त्रिष्वलङ्ककर्तालङ्करिष्णुश्च मण्डितः । प्रसाधितोऽलङ्कृतश्च भूषितश्च परिष्कृतः ॥ १०० ॥ |
|
2.6.101 |
विभ्राड् भ्राजिष्णुरोचिष्णू भूषा तु स्यादलंक्रिया । अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१ ॥ |
|
2.6.102 |
मण्डनं चाथ मुकुटं किरीटं पुंनपुंसकम् । चूडामणिः शिरोरत्नं तरलो हारमध्यग:॥ १०२ ॥ |
|
2.6.103 |
बालपाश्या पारितथ्या पत्त्रपाश्या ललाटिका । कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् ॥ १०३ ॥ |
|
2.6.104 |
प्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका । स्वर्णैः प्रालम्बिकाऽथोर:सूत्रिका मौक्तिकैः कृता ॥ १०४ ॥ |
|
2.6.105 |
हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिकः । हारभेदा यष्टिभेदाद्गुत्सगुत्सार्धगोस्तनाः ॥ १०५ ॥ |
|
2.6.106 |
अर्धहारो माणवक एकावल्येकयष्टिका । सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ १०६ ॥ |
|
2.6.107 |
आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् । केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका ॥ १०७ ॥ |
|
2.6.108 |
साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम् । स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा ॥ १०८ ॥ |
|
2.6.109 |
क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु । पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् ॥ १०९ ॥ |
|
2.6.110 |
हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका । त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु ॥ ११० ॥ |
|
2.6.111 |
वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् । कौशेयं कमिकोशोत्थं राङ्कवं मृगरोमजम् ॥ १११ ॥ |
|
2.6.112 |
अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरमे । तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ॥ ११२ ॥ |
|
2.6.113 |
पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम् । क्षौमं दुकूलं स्याद् द्वे तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥ |
|
2.6.114 |
स्त्रियां बहुत्वे वस्त्रस्य दशा: स्युर्वस्तयोर्द्वयोः । दैर्घ्यमायाम आनाहः परिणाहो विशालता ॥ ११४ ॥ |
|
2.6.115 |
पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ । वस्त्रमाच्छादनं वासश्चेलं वसनमंशुकम् ॥ ११५ ॥ |
|
2.6.116 |
सुचेलकः पटोऽस्त्री ना वराशि: स्थूलशाटकः । निचोलः प्रच्छदपटः समौ रल्लककम्बलौ ॥ ११६ ॥ |
|
2.6.117 |
अन्तरीयोपसंव्यानपरिधानान्यधोंशके । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ ११७ ॥ |
|
2.6.118 |
संव्यानमुत्तरीयं च चोल कूर्पासकौ स्त्रियाः । नीशार: स्यात्प्रावरणे हिमानिलनिवारणे ॥ ११८ ॥ |
|
2.6.119 |
अर्धोरुकं वरस्त्रीणां स्याच्चण्डातकमंशुकम् । स्यात्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ॥ ११९ ॥ |
|
2.6.120 |
अस्त्री वितानमुल्लोच: दूष्याचं वस्त्रवेश्मनि । प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा ॥ १२० ॥ |
|
2.6.121 |
परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा । उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लव: ॥ १२१ ॥ |
|
2.6.122 |
स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम् । अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे ॥ १२२ ॥ |
|
2.6.123 |
तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कमम् ॥ १२३ ॥ |
|
2.6.124 |
काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतनम् । रक्तसंकोचपिशुनं धीरलोहितचन्दनम् ॥ १२४ ॥ |
|
2.6.125 |
राक्षा लाक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः । लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम् ॥ १२५ ॥ |
|
2.6.126 |
कालीयकं च कालानुसार्यं चाथ समार्थकम् । वंशकागुरुराजार्हलोहं कृमिजजोङ्गकम् ॥ १२६ ॥ |
|
2.6.127 |
कालागुर्वगुरुः स्यात्तन्मङ्गल्या मल्लिगन्धि यत् । यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७ ॥ |
|
2.6.128 |
बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ । तुरुष्कः पिण्डकः सिल्हो यावनोऽप्यथ पायसः ॥ १२८ ॥ |
|
2.6.129 |
श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ । मृगनाभिर्मुगमदः कस्तूरी चाथ कोलकम् ॥ १२९ ॥ |
|
2.6.130 |
कक्कोलकं कोशफलमथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका ॥ १३० ॥ |
|
2.6.131 |
गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् । तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥ १३१ ॥ |
|
2.6.132 |
तिलपर्णी तु पत्त्राङ्गं रञ्जनं रक्तचन्दनम् । कुचन्दनं चाथ जातीकोषजातीफले समे ॥ १३२ ॥ |
|
2.6.133 |
कर्पूरागरुकस्तूरीकक्कोलैर्यक्षकर्दमः । गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् ॥ १३३ ॥ |
|
2.6.134 |
चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु । संस्कारो गन्धमाल्याद्यैर्य: स्यात्तदधिवासनम् ॥ १३४ ॥ |
|
2.6.135 |
माल्यं मालास्रजो मूर्ध्नि केशमध्ये तु गर्भकः । प्रभ्रष्टकं शिखालम्बि पुरो न्यस्तं ललामकम् ॥ १३५ ॥ |
|
2.6.136 |
प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षकं तु तत् । यत्तिर्यक् क्षिप्तमुरसि शिखास्वापीडशेखरौ ॥ १३६ ॥ |
|
2.6.137 |
रचना स्यात्परिस्पन्दः आभोगः परिपूर्णता । उपधानं तूपबर्हः शय्यायां शयनीयवत् ॥ १३७ ॥ |
|
2.6.138 |
शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः । गेन्दुकः कन्दुकः दीपः प्रदीपः पीठमासनम् ॥ १३८ ॥ |
|
2.6.139 |
समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः । प्रसाधनी कङ्कतिका पिष्टातः पटवासकः । दर्पणे मकुरादर्शौ व्यजनं तालवृन्तकम् ॥ १३९ ॥ |
|
2.7.1 |
सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववायः सन्तानः वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥ |
|
2.7.2 |
विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् । राजवीजी राजवंश्य: बीज्यस्तु कुलसम्भवः ॥ २ ॥ |
|
2.7.3 |
महाकुलकुलीनार्यसभ्यसज्जनसाधवः । ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ३ ॥ |
|
2.7.4 |
आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः । विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्युतः ॥ ४ ॥ |
|
2.7.5 |
विद्वान्विपश्चिद्दोषज्ञ: सन्सुधी: कोविदो बुधः । धीरो मनीषी ज्ञः प्रज्ञः संख्यावान्पण्डितः कविः ॥ ५ ॥ |
|
2.7.6 |
धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः । दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ ॥ ६ ॥ |
|
2.7.7 |
उपाध्यायोऽध्यापकोऽथ स निषेकादिकद्गुरुः । मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ॥ ७ ॥ |
|
2.7.8 |
यष्टा च यजमानश्च स सोमवति दीक्षितः । इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् ॥ ८ ॥ |
|
2.7.9 |
स गीर्पतीष्ट्या स्थपतिः सोमपीती तु सोमपः । सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः ॥ ९ ॥ |
|
2.7.10 |
अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः । लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते ॥ १० ॥ |
|
2.7.11 |
छात्त्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः । एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ११ ॥ |
|
2.7.12 |
सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित् । पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥ |
|
2.7.13 |
उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः । यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ १३ ॥ |
|
2.7.14 |
पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः । एते पञ्च महायज्ञा ब्रह्मयज्ञादिनामका: ॥ १४ ॥ |
|
2.7.15 |
समज्या परिषद्गोष्ठी सभासमितिसंसदः । आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥ |
|
2.7.16 |
प्राग्वंशः प्राग्हविर्गेहात्सदस्या विधिदर्शिनः । सभासदः सभास्तारा: सभ्या: सामाजिकाश्च ते ॥ १६ ॥ |
|
2.7.17 |
अध्वर्यूद्गातृहोतारो यजु:सामर्ग्विदः क्रमात् । आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते ॥ १७ ॥ |
|
2.7.18 |
वेदिः परिष्कृता भूमिः समे स्थण्डिलचत्वरे । चषालो यूपकटकः कुम्बा सुगहना वृति: ॥ १८ ॥ |
|
2.7.19 |
यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः । दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः ॥ १९ ॥ |
|
2.7.20 |
अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः । समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः ॥ २० ॥ |
|
2.7.21 |
यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते । तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुग्प्रिया ॥ २१ ॥ |
|
2.7.22 |
ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने । गायत्रीप्रमुखं छन्दः हव्यपाके चरुः पुमान् ॥ २२ ॥ |
|
2.7.23 |
आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः । धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा ॥ २३ ॥ |
|
2.7.24 |
पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम् । हव्यकव्ये दैवपैत्रे अन्ने पात्रं स्रुवादिकम् ॥ २४ ॥ |
|
2.7.25 |
ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदा: स्रुचः स्त्रियः । उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः ॥ २५ ॥ |
|
2.7.26 |
परम्पराकं शमनं प्रोक्षणं च वधार्थकम् । वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते ॥ २६ ॥ |
|
2.7.27 |
सांनाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम् । दीक्षान्तोऽवभृथो यज्ञे तत्कर्मार्हं तु यज्ञियम् ॥ २७ ॥ |
|
2.7.28 |
त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादिकर्मणि । अमृतं विघसो यज्ञशेषभोजनशेषयो: ॥ २८ ॥ |
|
2.7.29 |
त्यागो विहायितं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥ |
|
2.7.30 |
प्रादेशनं निर्वपणमपवर्जनमंहतिः । मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदैहिकम् ॥ ३० ॥ |
|
2.7.31 |
पितृदानं निवाप: स्यात् श्राद्धं तत्कर्म शास्त्रतः । अन्वाहार्थं मासिकोंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् ॥ ३१ ॥ |
|
2.7.32 |
पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा । सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना ॥ ३२ ॥ |
|
2.7.33 |
षट् तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि । क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥ ३३ ॥ |
|
2.7.34 |
स्युरावेशिक आगन्तुरतिथिर्ना गृहागते । पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः ॥ ३४ ॥ |
|
2.7.35 |
वरिवस्या तु शुश्रूषा परिचर्याप्युपासना । व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथस्थितिः ॥ ३५ ॥ |
|
2.7.36 |
उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् । आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः ॥ ३६ ॥ |
|
2.7.37 |
पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः । नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥ ३७ ॥ |
|
2.7.38 |
औपवस्तं तूपवासो विवेकः पृथगात्मता । स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः ॥ ३८ ॥ |
|
2.7.39 |
पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः । ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ ॥ ३९ ॥ |
|
2.7.40 |
मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः । संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ॥ ४० ॥ |
|
2.7.41 |
समे तु पादग्रहणमभिवादनमित्युभे । भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी ॥ ४१ ॥ |
|
2.7.42 |
तपस्वी तापस: पारिकाङ्क्षी वाचंयमो मुनिः । तप:क्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः ॥ ४२ ॥ |
|
2.7.43 |
ऋषयः सत्यवचसः स्नातकस्त्वाप्लवव्रती । ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥ ४३ ॥ |
|
2.7.44 |
य: स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ । स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः ॥ ४४ ॥ |
|
2.7.45 |
पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः । पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणव: ॥ ४५ ॥ |
|
2.7.46 |
अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी । अजिनं चर्म कृत्ति: स्त्री भैक्षं भिक्षाकदम्बकम् ॥ ४६ ॥ |
|
2.7.47 |
स्वाध्यायः स्याज्जप: सुत्याभिषवः सवनं च सा । सर्वेनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ ४७ ॥ |
|
2.7.48 |
दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् । शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ ४८ ॥ |
|
2.7.49 |
नियमस्तु स यत्कर्मानित्यमागन्तुसाधनम् । उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे ॥ ४९ ॥ |
|
2.7.50 |
प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् । अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् ॥ ५० ॥ |
|
2.7.51 |
मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले ह्यङ्गुष्ठस्य ब्राह्मम् । स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ ५१ ॥ |
|
2.7.52 |
देवभूयादिकं तद्वत्कृच्छ्रं सांतपनादिकम् । संन्यासवत्यनशने पुमान् प्रायोऽथ वीरहा ॥ ५२ ॥ |
|
2.7.53 |
नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना । व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः ॥ ५३ ॥ |
|
2.7.54 |
धर्मध्वजी लिङ्गवृत्तिरवकीर्णा क्षतव्रत: । सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥ ५४ ॥ |
|
2.7.55 |
अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् । परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ ५५ ॥ |
|
2.7.56 |
परिवित्तिस्तु तज्ज्यायान् विवाहोपयमौ समौ । तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ॥ ५६ ॥ |
|
2.7.57 |
व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् । त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः ॥ सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये ॥ ५७ ॥ |
|
2.8.1 |
मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् । राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ॥ १ ॥ |
|
2.8.2 |
राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः । चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥ |
|
2.8.3 |
येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥ ३ ॥ |
|
2.8.4 |
राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् । मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः ॥ ४ ॥ |
|
2.8.5 |
महामात्रा: प्रधानानि पुरोधास्तु पुरोहितः । द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ ॥ ५ ॥ |
|
2.8.6 |
प्रतीहारो द्वारपालद्वा:स्थद्वा:स्थितदर्शकाः । रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ ॥ ६ ॥ |
|
2.8.7 |
स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु । भौरिकः कनकाध्यक्ष: रूप्याध्यक्षस्तु नैष्किकः ॥ ७ ॥ |
|
2.8.8 |
अन्त:पुरे त्वधिकृतः स्यादन्तर्वंशिको जनः । सौविदल्ला: कञ्चुकिन: स्थापत्याः सौविदाश्च ते ॥ ८ ॥ |
|
2.8.9 |
शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः । विषयानन्तरो राजा शत्रुर्मित्रमतः परम् ॥ ९ ॥ |
|
2.8.10 |
उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः । रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः ॥ १० ॥ |
|
2.8.11 |
द्विट्विपक्षाहितामित्रदस्युशात्रवशत्रवः ॥ अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥ |
|
2.8.12 |
वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहत । सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् ॥ १२ ॥ |
|
2.8.13 |
यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः । चारश्च गूढपुरुषश्च आप्तः प्रत्ययितस्त्रिषु ॥ १३ ॥ |
|
2.8.14 |
सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि । स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि ॥ १४ ॥ |
|
2.8.15 |
तान्त्रिको ज्ञातसिद्धान्तः सत्त्री गृहपतिः समौ । लिपिंकरोऽक्षरचणोऽक्षरचञ्चुश्च लेखके ॥ १५ ॥ |
|
2.8.16 |
लिखिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ । स्यात्संदेशहरो दूतो दूत्यं तद्भावकर्मणि ॥ १६ ॥ |
|
2.8.17 |
अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि । स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च ॥ १७ ॥ |
|
2.8.18 |
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च । संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥ १८ ॥ |
|
2.8.19 |
षड् गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः । क्षय: स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ १९ ॥ |
|
2.8.20 |
स प्रतापः प्रभावश्च यत्तेजः कोषदण्डजम् । भेदो दण्डः सामदानमित्युपायचतुष्टयम् ॥ २० ॥ |
|
2.8.21 |
साहसं तु दमो दण्डः साम सान्त्वमथो समौ । भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम् ॥ २१ ॥ |
|
2.8.22 |
पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः । विविक्तविजनच्छन्ननि:शलाकास्तथा रहः ॥ २२ ॥ |
|
2.8.23 |
रहश्वोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु । समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात् ॥ २३ ॥ |
|
2.8.24 |
अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् । युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥ |
|
2.8.25 |
न्याय्यं च त्रिषु षट् सम्प्रधारणा तु समर्थनम् । अववादस्तु निर्देशो निदेश: शासनं च सः ॥ २५ ॥ |
|
2.8.26 |
शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः । आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने ॥ २६ ॥ |
|
2.8.27 |
द्विपाद्यो द्विगुणो दण्ड भागधेयः करो बलिः । घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् ॥ २७ ॥ |
|
2.8.28 |
उपायनमुपग्राह्यमुपहारस्तथोपदा । यौतकादि तु यद्देयं सुदायो हरणं च तत् ॥ २८ ॥ |
|
2.8.29 |
तत्कालस्तु तदात्वं स्यादुत्तर: काल आयतिः । सांदृष्टिकं फलं सद्यः उदर्कः फलमुत्तरम् ॥ २९ ॥ |
|
2.8.30 |
अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् । महीभुजामहिभयं स्वपक्षप्रभवं भयम् ॥ ३० ॥ |
|
2.8.31 |
प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम् । नृपासनं तु यद्भद्रासनं सिंहासनं तु तत् ॥ ३१ ॥ |
|
2.8.32 |
हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत् । भद्रकुम्भः पूर्णकुम्भः भृङ्गारः कनकालुका ॥ ३२ ॥ |
|
2.8.33 |
निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम् । हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३३ ॥ |
|
2.8.34 |
दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः । मतङ्गजो गजो नागः कुञ्जरो वारण: करी ॥ ३४ ॥ |
|
2.8.35 |
इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः । मदोत्कटो मदकलः कलभः करिशावकः ॥ ३५ ॥ |
|
2.8.36 |
प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ । हास्तिकं गजता वृन्दे करिणी धेनुका वशा ॥ ३६ ॥ |
|
2.8.37 |
गण्ड: कट: मदो दानं वमथुः करशीकरः । कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पमान् ॥ ३७ ॥ |
|
2.8.38 |
अवग्रहो ललाटं स्यादिषीका त्वक्षिकूटकम् । अपाङ्गदेशो निर्याणं कर्णमूलं त चूलिका ॥ ३८ ॥ |
|
2.8.39 |
अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत् । आसनं स्कन्धदेश: स्यात्पद्मकं विन्दुजालकम् ॥ ३९ ॥ |
|
2.8.40 |
पक्षभागः पार्श्वभागो दन्तभागस्तु योऽग्रतः । द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात् ॥ ४० ॥ |
|
2.8.41 |
तोत्रं वैणुकमालानं बन्धस्तम्भेऽथ शृङ्खला । अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ॥ |
|
2.8.42 |
दूष्या कक्ष्या वरत्रा च कल्पना सज्जना समे । प्रवेण्यास्तरणं वर्ण: परिस्तोमः कुथो द्वयोः ॥ ४२ ॥ |
|
2.8.43 |
वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी । घोटके पीतितुरगतुरङ्गाश्वतुरङ्गमाः ॥ ४३ ॥ |
|
2.8.44 |
वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः । आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः ॥ ४४ ॥ |
|
2.8.45 |
वनायुजाः पारसीका: काम्बोजा बाल्हिका हयाः । ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिक: ॥ ४५ ॥ |
|
2.8.46 |
पृष्ठ्य: स्थौरी सित: कर्क: रथ्यो वोढा रथस्य यः । बाल: किशोरो वाम्यश्वा वडवा वाडवं गणे ॥ ४६ ॥ |
|
2.8.47 |
त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते । कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः ॥ ४७ ॥ |
|
2.8.48 |
निगालस्तु गलोद्देशे वृन्दे त्वाश्वीयमाश्ववत् । आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥ ४८ ॥ |
|
2.8.49 |
गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम् । कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान् ॥ ४९ ॥ |
|
2.8.50 |
पुच्छोऽस्त्री लूमलाङ्गूले बालहस्तश्च बालधिः । त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥ ५० ॥ |
|
2.8.51 |
याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः । असौ पुष्यरथश्चक्रयानं न समराय यत् ॥ ५१ ॥ |
|
2.8.52 |
कर्णीरथ: प्रवहणं डयनं च समं त्रयम् । क्लीबेऽना शकटोऽस्त्री स्याद् गन्त्री कम्बलिवाह्यकम् ॥ ५२ ॥ |
|
2.8.53 |
शिबिका याप्ययानं स्याद् दोला प्रेङ्खादिकाः स्त्रियाम् । उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे ॥ ५३ ॥ |
|
2.8.54 |
पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली । रथे काम्बलवस्त्राद्याः कम्बलादिभिरावृते ॥ ५४ ॥ |
|
2.8.55 |
त्रिषु द्वैपादयो रथ्या रथकट्या रथव्रजे । धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः ॥ ५५ ॥ |
|
2.8.56 |
चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् । पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः ॥ ५६ ॥ |
|
2.8.57 |
रथगुप्तिर्वरूथो ना कूबरस्तु युगन्धरः । अनुकर्षो दार्वध:स्थं प्रासङ्गो ना युगान्तरम् ॥ ५७ ॥ |
|
2.8.58 |
सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् । परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ ५८ ॥ |
|
2.8.59 |
आधोरणा हस्तिपका हस्त्यारोहा निषादिनः । नियन्ता प्राजिता यन्ता सूत: क्षत्ता च सारथिः ॥ ५९ ॥ |
|
2.8.60 |
सव्येष्ट्रदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः । रथिनः स्यन्दनारोहाः अश्वारोहास्तु सादिनः ॥ ६० ॥ |
|
2.8.61 |
भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः । सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ॥ ६१ ॥ |
|
2.8.62 |
वलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः । परिधिस्थः परिचर: सेनानीर्वाहिनीपतिः ॥ ६२ ॥ |
|
2.8.63 |
कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः । बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् ॥ ६३ ॥ |
|
2.8.64 |
शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् । उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम् ॥ ६४ ॥ |
|
2.8.65 |
आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् । सन्नद्धो वर्मितः सज्जो दंशितो व्यूढकङ्कटः ॥ ६५ ॥ |
|
2.8.66 |
त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे । पदातिपत्तिपदगपादातिकपदाजयः ॥ ६६ ॥ |
|
2.8.67 |
पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः । शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ॥ ६७ ॥ |
|
2.8.68 |
कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत् । अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायक: ॥ ६८ ॥ |
|
2.8.69 |
धन्वी धनुष्मान् धानुष्को निषङ्ग्यस्त्री धनुर्धरः । स्यात्काण्डवांस्तु काण्डीर: शाक्तीकः शक्तिहेतिक: ॥ ६९ ॥ |
|
2.8.70 |
याष्टीकपारश्वधिकौ यष्टिपर्श्वधहेतिकौ । नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ ॥ ७० ॥ |
|
2.8.71 |
चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः । अनुप्लव: सहायश्चानुचरोऽभिसरः समाः ॥ ७१ ॥ |
|
2.8.72 |
पुरोगाग्रेसरप्रष्ठाग्रत:सरपुर:सराः । पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ ॥ |
|
2.8.73 |
जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ । तरस्वी त्वरितो वेगी प्रजवी जवनो जव: ॥ ७३ ॥ |
|
2.8.74 |
जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके । जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति ॥ ७४ ॥ |
|
2.8.75 |
सोऽभ्यमित्र्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि । ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः ॥ ७५ ॥ |
|
2.8.76 |
स्यादुरस्वानुरसिलो रथिनो रथिको रथी । कामंगाम्यनुकामीन: ह्यत्यन्तीनस्तथा भृशम् ॥ ७६ ॥ |
|
2.8.77 |
शूरो वीरश्च विक्रान्त: जेता जिष्णुश्च जित्वरः । सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥ ७७ ॥ |
|
2.8.78 |
ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः । वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ॥ |
|
2.8.79 |
व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि । प्रत्यासारो व्यूहपार्ष्णि: सैन्यपृष्ठे प्रतिग्रहः ॥ ७९ ॥ |
|
2.8.80 |
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका । पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥ |
|
2.8.81 |
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः । अनीकिनी दशानीकिन्योऽक्षौहिण्यथ सम्पदि ॥ ८१ ॥ |
|
2.8.82 |
सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्तौ विपदापदौ । आयुधं तु प्रहरणं शत्रमस्त्रमथास्त्रियौ ॥ ८२ ॥ |
|
2.8.83 |
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् । इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥ |
|
2.8.84 |
कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ । कोटिरस्याटनी गोधेतले ज्याघातवारणे ॥ ८४ ॥ |
|
2.8.85 |
लस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः । स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥ |
|
2.8.86 |
लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् । पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥ |
|
2.8.87 |
कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः । प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे ॥ ८७ ॥ |
|
2.8.88 |
निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ । तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ॥ ८८ ॥ |
|
2.8.89 |
तूष्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलाग्र: करवाल: कृपाणवत् ॥ ८९ ॥ |
|
2.8.90 |
त्सरु: खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् । फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः ॥ ९० ॥ |
|
2.8.91 |
द्रुघणो मुद्गरघनौ स्यादीली करवालिका । भिन्दिपाल: सृगस्तुल्यौ परिघः परिघातनः ॥ ९१ ॥ |
|
2.8.92 |
द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः । स्याच्छस्त्री चासिपुत्री च छुरिका चासिधेनुका ॥ ९२ ॥ |
|
2.8.93 |
वा पुंसि शल्यं शङ्कुर्ना शर्वला तोमरोऽस्त्रियाम् । प्रासस्तु कुन्तः कोणस्तु स्त्रिय: पाल्यश्रिकोटयः ॥ ९३ ॥ |
|
2.8.94 |
सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः । लोहाभिहारोऽस्त्रभृतां राज्ञां नीराजनाविधिः ॥ ९४ ॥ |
|
2.8.95 |
यत्सेनयाभिगमनमरौ तदभिषेणनम् । यात्रा व्रज्याभिनिर्याणं प्रस्थानं गमनं गम: ॥ ९५ ॥ |
|
2.8.96 |
स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् । अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः ॥ ९६ ॥ |
|
2.8.97 |
वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः । स्युर्मागधास्तु मगधा: वन्दिनः स्तुतिपाठकाः ॥ ९७ ॥ |
|
2.8.98 |
संशप्तकास्तु समयात्संग्रामादनिवर्तिनः । रेणुर्द्वयोः स्त्रियां धूलि: पांशुर्न द्वयो रजः ॥ ९८ ॥ |
|
2.8.99 |
चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले । पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ॥ ९९ ॥ |
|
2.8.100 |
सा वीराशंसनं युद्धभूमिर्यातिभयप्रदा । अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् ॥ १०० ॥ |
|
2.8.101 |
आहोपुरुषिका दर्पाद्या स्यात्सम्भावनात्मनि । अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः ॥ १०१ ॥ |
|
2.8.102 |
द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च । शक्ति: पराक्रम: प्राणौ विक्रमस्त्वतिशक्तिता ॥ १०२ ॥ |
|
2.8.103 |
वीरपाणं तु तत्पानं वृत्ते भाविनि वा रणे । युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥ |
|
2.8.104 |
मृधमास्कन्दनं संख्यं समीकं सम्परायकम् । अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥ |
|
2.8.105 |
सम्प्रहाराभिसंपातकलिसंस्फोटसंयुगाः । अभ्यामर्दसमाघातसंग्रामाभ्यागमाहवाः ॥ १०५ ॥ |
|
2.8.106 |
समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः । नियुद्धं बाहुयुद्धे स्यात् तुमुलं रणसङ्कुले ॥ १०६ ॥ |
|
2.8.107 |
क्ष्वेडा तु सिंहनादः स्यात् करिणां घटना घटा । क्रन्दनं योधसंरावो बृंहितं करिगर्जितम् ॥ १०७ ॥ |
|
2.8.108 |
विस्फारो धनुष: स्वान: पटहाडम्बरौ समौ । प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम् ॥ १०८ ॥ |
|
2.8.109 |
अजन्यं क्लीब उत्पात उपसर्ग: समं त्रयम् । मूर्च्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम् ॥ १०९ ॥ |
|
2.8.110 |
अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः । वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११० ॥ |
|
2.8.111 |
प्रद्रावोद्रावसंद्रावसंदावा विद्रवो द्रवः । अपक्रमोऽपयानं च रणे भङ्गः पराजयः ॥ १११ ॥ |
|
2.8.112 |
पराजितपराभूतौ त्रिषु नष्टतिरोहितौ । प्रमापणं निवर्हणं निकारणं विशारणम् ॥ ११२ ॥ |
|
2.8.113 |
प्रवासनं परासनं निषूदनं निहिंसनम् । । निर्वासनं संज्ञपनं निग्रन्थनमपासनम् ॥ ११३ ॥ |
|
2.8.114 |
निस्तर्हणं निहननं क्षणनं परिवर्जनम् । निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥ |
|
2.8.115 |
उद्वासनप्रमथनक्रथनोज्जासनानि च । आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥ |
|
2.8.116 |
स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । अन्ती नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥ |
|
2.8.117 |
परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः । मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम् ॥ ११७ ॥ |
|
2.8.118 |
कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् । श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम् ॥ ११८ ॥ |
|
2.8.119 |
प्रग्रहोपग्रहौ वन्द्यां कारा स्याद्वन्धनालये । पुंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम् ॥ आयुर्जीवितकालो ना जीवातुर्जीवनौषधम् ॥ ११९ ॥ |
|
2.9.1 |
ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः । आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ ॥ |
|
2.9.2 |
स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः । सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम् ॥ २ ॥ |
|
2.9.3 |
द्वे याचितायाचितयोर्यथासंख्यं मृतामृते । सत्यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम् ॥ ३ ॥ |
|
2.9.4 |
उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका । याच्ञयाप्तं याचितकं निमयादापमित्यकम् ॥ ४ ॥ |
|
2.9.5 |
उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् । कुसीदिको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः ॥ ५ ॥ |
|
2.9.6 |
क्षेत्राजीवः कर्षकश्च कृषकश्च कृषीवलः । क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम् ॥ ६ ॥ |
|
2.9.7 |
यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि तत् । तिल्यतैलीनवन्माषोमाणुभङ्गाद्द्विरूपता ॥ ७ ॥ |
|
2.9.8 |
मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम् । बीजाकृतं तूप्तकृष्टं सीत्यं कृष्टं च हल्यवत् ॥ ८ ॥ |
|
2.9.9 |
त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् । द्विगुणाकृते तु सर्वं पूर्वं शम्बाकृतमपीह ॥ ९ ॥ |
|
2.9.10 |
द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः । खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ १० ॥ |
|
2.9.11 |
पुंनपुंसकयोर्वप्रः कैदारः क्षेत्रमस्य तु । कैदारकं स्यात्कैदार्यं क्षैत्रं केदारिकं गणे ॥ ११ ॥ |
|
2.9.12 |
लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः । प्राजनं तोदनं तोत्रं खनित्रमवदारणं ॥ १२ ॥ |
|
2.9.13 |
दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम् । निरीशं कुटकं फाल: कृषिको लाङ्गलं हलम् ॥ १३ ॥ |
|
2.9.14 |
गोदारणं च सीरोऽथ शम्या स्त्री युगकीलक: । ईषा लाङ्गलदण्ड: स्यात्सीता लाङ्गलपद्धतिः ॥ १४ ॥ |
|
2.9.15 |
पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने । आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ ॥ १५ ॥ |
|
2.9.16 |
तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः । हरेणुखण्डिकौ चास्मिन् कोरदूषस्तु कोद्रवः ॥ १६ ॥ |
|
2.9.17 |
मङ्गल्यको मसूरोऽथ मकुष्ठकमयुष्टकौ । वनमुद्रे सर्षपे तु द्वौ तन्तुभकदम्बकौ ॥ १७ ॥ |
|
2.9.18 |
सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ । स्याद्यावकस्तु कुल्मासश्चणको हरिमन्थकः ॥ १८ ॥ |
|
2.9.19 |
द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले । क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी ॥ १९ ॥ |
|
2.9.20 |
स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा । मातुलानी तु भङ्गायां व्रीहिभेदस्त्वणुः पुमान् ॥ २० ॥ |
|
2.9.21 |
किंशारुः शस्यशूकं स्यात्कणिशं शस्यमञ्जरी । धान्यं व्रीहिः स्तम्बकरि: स्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥ |
|
2.9.22 |
नाडी नालं च काण्डोऽस्य पलालोऽस्त्री सनिष्फलः । कडङ्गरो वुसं क्लीबे धान्यत्वचि पुमांस्तुषः ॥ २२ ॥ |
|
2.9.23 |
शुकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे । ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् ॥ २३ ॥ |
|
2.9.24 |
माषादयः शमीधान्ये शूकधान्ये यवादयः । शालय: कलमाद्याश्च षष्टिकाद्याश्व पुंस्यमी ॥ २४ ॥ |
|
2.9.25 |
तृणधान्यानि नीवारा: स्त्री गवेधुर्गवेधुका । अयोग्रो मुसलोऽस्त्री स्यादुदूखलमुलूखलम् ॥ २५ ॥ |
|
2.9.26 |
प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान् । स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ ॥ २६ ॥ |
|
2.9.27 |
समानौ रसवत्यां तु पाकस्थानमहानसे । पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः ॥ २७ ॥ |
|
2.9.28 |
आरालिका अन्धसिकाः सूदा औदनिका गुणा: । आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु ॥ २८ ॥ |
|
2.9.29 |
अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका । अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि ॥ २९ ॥ |
|
2.9.30 |
हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् । क्लिबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम् ॥ ३० ॥ |
|
2.9.31 |
अलिञ्जर: स्यान्मणिक: कर्कर्यालुर्गलन्तिका । पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः ॥ ३१ ॥ |
|
2.9.32 |
घटः कुटनिपावस्त्री शरावो वर्धमानक: । ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम् ॥ ३२ ॥ |
|
2.9.33 |
कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् । सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ ३३ ॥ |
|
2.9.34 |
दर्वि: कम्बि: खजाका च स्यात्तर्दूर्दारुहस्तक: । अस्त्री शाकं हरितकं शिग्रु अस्य तु नालिका ॥ ३४ ॥ |
|
2.9.35 |
कडम्बश्च कलम्बश्च वेसवार उपस्कर । तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम् ॥ ३५ ॥ |
|
2.9.36 |
मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम् । जीरको जरणोऽजाजी कणा कृष्णे तु जीरके ॥ ३६ ॥ |
|
2.9.37 |
सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिका । आर्द्रकं शृङ्गवेरं स्यादथ छत्रा वितुन्नकम् ॥ ३७ ॥ |
|
2.9.38 |
कुस्तुम्बरु च धान्याकमथ शुण्ठी महौषधम् । स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥ |
|
2.9.39 |
आरनालकसौवीरकुल्माषाभिषुतानि च । अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ॥ ३९ ॥ |
|
2.9.40 |
सहस्रवेधि जतुकं वाल्हीकं हिङ्गु रामठम् । तत्पत्त्री कारवी पृथ्वी बाष्पिका कबरी पृथुः ॥ ४० ॥ |
|
2.9.41 |
निशाह्वा काञ्चनी पीता हरिद्रा वरवर्णिनी । सामुद्रं यत्तु लवणमक्षीवं वसिरं च तत् ॥ ४१ ॥ |
|
2.9.42 |
सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे । रौमकं वसुकं पाक्यं विडं च कृतके द्वयम् ॥ ४२ ॥ |
|
2.9.43 |
सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके । मत्स्यण्डी फाणितं खण्डविकारे शर्करा सिता ॥ ४३ ॥ |
|
2.9.44 |
कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता । स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः ॥ ४४ ॥ |
|
2.9.45 |
शूलाकृतं भटित्रं च शूल्यमुख्यं तु पैठरम् । प्रणीतमुपसम्पन्नं प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५ ॥ |
|
2.9.46 |
स्यात्पिच्छिलं तु विजिलं सम्मृष्टं शोधितं समे । चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते ॥ ४६ ॥ |
|
2.9.47 |
आपक्वं पौलिरभ्यूषो लाजाः पुम्भूम्नि चाक्षताः । पृथुक: स्याच्चिपिटकः धाना भृष्टयवे स्त्रियः ॥ ४७ ॥ |
|
2.9.48 |
पूपोऽपूपः पिष्टक: स्यात् करम्भो दधिसक्तवः । भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः ॥ ४८ ॥ |
|
2.9.49 |
भिस्सटा दग्धिका सर्वरसाग्रे मण्डमस्रियाम् । मासराचामनिस्रावा मण्डे भक्तसमुद्भवे ॥ ४९ ॥ |
|
2.9.50 |
यवागूरुष्णिका श्राणा विलेपी तरला च सा । गव्यं त्रिषु गवां सर्वं गोविट् गोमयस्त्रियाम् ॥ ५० ॥ |
|
2.9.51 |
तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयः समम् । पयस्यमाज्यदध्यादि द्रप्सं दधि घनेतरत् ॥ ५१ ॥ |
|
2.9.52 |
घृतमाज्यं हवि: सर्पिः नवनीतं नवोद्धृतम् । तत्तु हैयङ्गवीनं यद् ह्योगोदोहोद्भवं घृतम् ॥ ५२ ॥ |
|
2.9.53 |
दण्डाहतं कालशेयमरिष्टमपि गोरसः । तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ॥ ५३ ॥ |
|
2.9.54 |
मण्डं दधिभवं मस्तु पीयूषोऽभिनवं पयः । अशनाया बुभुक्षा क्षुद् ग्रासस्तु कवलः पुमान् ॥ ५४ ॥ |
|
2.9.55 |
सपीति: स्त्री तुल्यपानं सग्धि: स्त्री सहभोजनम् । उदन्या तु पिपासा तृट् तर्ष: जग्धिस्तु भोजनम् ॥ ५५ ॥ |
|
2.9.56 |
जेमनं लेह आहारो निघसो न्याद इत्यपि । सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम् ॥ ५६ ॥ |
|
2.9.57 |
कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् । गोपे गोपालगोसंख्यगोधुगाभीरबल्लवा: ॥ ५७ ॥ |
|
2.9.58 |
गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे । गोमान् गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे ॥ ५८ ॥ |
|
2.9.59 |
त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा । उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृष: ॥ ५९ ॥ |
|
2.9.60 |
अनड्वान् सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् । गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके ॥ ६० ॥ |
|
2.9.61 |
उक्षा महान्महोक्षः स्याद् वृद्धोक्षस्तु जरद्गवः । उत्पन्न उक्षा जातोक्षः सद्योजातस्तु तर्णकः ॥ ६१ ॥ |
|
2.9.62 |
शकृत्करिस्तु वत्सः स्याद् दम्यवत्सतरौ समौ । आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः ॥ ६२ ॥ |
|
2.9.63 |
स्कन्धप्रदेशस्तु वहः सास्ना तु गलकम्बलः । स्यान्नस्तितस्तु नस्योत: प्रष्ठवाड् युगपार्श्वगः ॥ ६३ ॥ |
|
2.9.64 |
युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः । खनति तेन तद्वोढास्येदं हालिकसैरिकौ ॥ ६४ ॥ |
|
2.9.65 |
धूर्वहे धुर्यधौरेयधुरीणाः सधुरन्धराः । उभावेकधुरीणैकधुरावेकधुरावहे ॥ ६५ ॥ |
|
2.9.66 |
स तु सर्वधुरीणो यो भवेत्सर्वधुरावहः । माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी ॥ ६६ ॥ |
|
2.9.67 |
अर्जुन्याघ्न्या रोहिणी स्यादुत्तमा गोषु नैचिकी । वर्णादिभेदात्संज्ञाः स्युः शवलीधवलादयः ॥ ६७ ॥ |
|
2.9.68 |
द्विहायनी द्विवर्षा गौरेकाब्दा त्वेकहायनी । चतुरब्दा चतुर्हायण्येवं त्र्यब्दा त्रिहायणी ॥ ६८ ॥ |
|
2.9.69 |
वशा वन्ध्याऽवतोका तु स्रवद्गर्भाऽथ सन्धिनी । आक्रान्ता वृषभेणाथ वेहद्गर्भोपघातिनी ॥ ६९ ॥ |
|
2.9.70 |
काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी । स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका ॥ ७० ॥ |
|
2.9.71 |
चिरसूता वष्कयिणी धेनुः स्यान्नवसूतिका । सुव्रता सुखसंदोह्या पीनोध्नी पीवरस्तनी ॥ ७१ ॥ |
|
2.9.72 |
द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता । समांसमीना सा यैव प्रतिवर्षं प्रसूयते ॥ ७२ ॥ |
|
2.9.73 |
ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ । न पुंसि दाम संदानं पशुरज्जुस्तु दामनी ॥ ७३ ॥ |
|
2.9.74 |
वैशाखमन्थमन्थानमन्थानो मन्थदण्डके । कुठरो दण्डविष्कम्भे मन्थनी गर्गरी समे ॥ ७४ ॥ |
|
2.9.75 |
उष्टे क्रमेलकमयमहाङ्गाः करभः शिशुः । करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥ |
|
2.9.76 |
अजा छागी स्तभच्छागवस्तच्छगलका अजे । मेढ्रौरभ्रोरणोर्णायुर्मेषवृष्णय एडके ॥ ७६ ॥ |
|
2.9.77 |
उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् । चक्रीवन्तस्तु वालेया रासभा गर्दभाः खरा: ॥ ७७ ॥ |
|
2.9.78 |
वैदेहक: सार्थवाही नैगमो वाणिजो वणिक् । पण्याजीवो ह्यापणिक: क्रयविक्रयिकश्च सः ॥ ७८ ॥ |
|
2.9.79 |
विक्रेता स्याद्विक्रयिक: क्रायकक्रयिकौ समौ । वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः ॥ ७९ ॥ |
|
2.9.80 |
नीवी परिपणो मूलधने लाभोऽधिकं फलम् । परिदानं परीवर्तो नैमेयनिमयावपि ॥ ८० ॥ |
|
2.9.81 |
पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम् । क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके ॥ ८१ ॥ |
|
2.9.82 |
विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु । क्लीबे सत्यापनं सत्यंकार: सत्याकृति: स्त्रियाम् ॥ ८२ ॥ |
|
2.9.83 |
विपणो विक्रय: संख्याः संख्येये ह्यादश त्रिषु । विंशत्याद्याः सदैकत्वे सर्वा: संख्येयसंख्ययोः ॥ ८३ ॥ |
|
2.9.84 |
संख्यार्थे द्विबहुत्वे स्त: तासु चानवतेः स्त्रियः । पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम् ॥ ८४ ॥ |
|
2.9.85 |
यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् । मानं तुलाङ्गुलिप्रस्थैः गुञ्जाः पञ्चाद्यमाषक: ॥ ८५ ॥ |
|
2.9.86 |
ते षोडशाक्ष: कर्षोऽस्त्री पलं कर्षचतुष्टयम् । सुवर्णविस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८६ ॥ |
|
2.9.87 |
तुला स्त्रियां पलशतं भार: स्याद्विंशतिस्तुलाः । आचितो दश भारा: स्युः शाकटो भार आचितः ॥ ८७ ॥ |
|
2.9.88 |
कार्षापण: कार्षिक: स्यात् कार्षिके ताम्रिके पणः । अस्त्रि यामाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ ८८ ॥ |
|
2.9.89 |
कुडव: प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् । पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके ॥ ८९ ॥ |
|
2.9.90 |
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु । हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥ ९० ॥ |
|
2.9.91 |
स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते । ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद् द्वयमाहतम् ॥ ९१ ॥ |
|
2.9.92 |
गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः । शोणरत्नं लोहितक: पद्मरागोऽथ मौक्तिकम् ॥ ९२ ॥ |
|
2.9.93 |
मुक्ताऽथ विद्रुमः पुंसि प्रवालं पुंनपुंसकम् । रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ॥ ९३ ॥ |
|
2.9.94 |
स्वर्ण सुवर्णं कनकं हिरण्यं हेम हाटकम् । तपनीयं शातकुम्भं गाङ्गेयं भर्म कुर्वरम् ॥ ९४ ॥ |
|
2.9.95 |
चामीकरं जातरूपं महारजतकाञ्चने । रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ ९५ ॥ |
|
2.9.96 |
अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः । दुर्वर्ण रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥ |
|
2.9.97 |
रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् । शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्ठोदुम्बराणि च ॥ ९७ ॥ |
|
2.9.98 |
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । अश्मसारोऽथ मण्डूरं शिङ्घाणमपि तन्मले ॥ ९८ ॥ |
|
2.9.99 |
सर्वं स्यात्तैजसं लोहं विकारस्त्वयसः कुशी । क्षार: काचोऽथ चपलो रसः सूतश्च पारदे ॥ ९९ ॥ |
|
2.9.100 |
गवलं माहिषं शृङ्गमभ्रकं गिरिजामले । स्रोतोऽञ्जनं तु सौवीरं कापोताञ्जनयामुने ॥ १०० ॥ |
|
2.9.101 |
तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके । कर्परी दार्विकाक्वाथोद्भवं तुत्थं रसाञ्जनम् ॥ १०१ ॥ |
|
2.9.102 |
रसगर्भ तार्क्ष्यशैलं गन्धाश्मनि तु गन्धकः । सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका ॥ १०२ ॥ |
|
2.9.103 |
रीतिपुष्पं पुष्पकेतु पौष्पकं कुसुमाञ्जनम् । पिञ्जरं पीतनं तालमालं च हरितालके ॥ १०३ ॥ |
|
2.9.104 |
गैरेयमर्थ्य गिरिजमश्मजं च शिलाजतु । बोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ १०४ ॥ |
|
2.9.105 |
हिण्डीरोऽब्धिकफ: फेनः सिन्दूरं नागसम्भवम् । नागसीसकयोगेष्टवप्राणि त्रपु पिच्चटम् ॥ १०५ ॥ |
|
2.9.106 |
रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम् । स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६ ॥ |
|
2.9.107 |
मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि । मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् ॥ १०७ ॥ |
|
2.9.108 |
मन:शिला मनोगुप्ता मनोह्वा नागजिह्निका । नैपाली कुनटी गोला यवक्षारो यवाग्रजः ॥ १०८ ॥ |
|
2.9.109 |
पाक्योऽथ स्वर्जिकाक्षार: कापोत: सुखवर्चकः । सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना ॥ १०९ ॥ |
|
2.9.110 |
शिग्रुजं श्वेतमरिचं मोरटं मूलमैक्षवम् । ग्रन्थिकं पिप्पलीमूलं चटकाशिर इत्यपि ॥ ११० ॥ |
|
2.9.111 |
गोलोमी भूतकेशो ना पत्त्राङ्गं रक्तचन्दनम् । त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम् ॥ १११ ॥ |
|
2.10.1 |
शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः । आचाण्डालात्तु संकीर्णा अम्बष्ठकरणादयः ॥ १ ॥ |
|
2.10.2 |
शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः । शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशो: ॥ २ ॥ |
|
2.10.3 |
माहिष्योऽर्याक्षत्रिययोः क्षत्तार्याशूद्रयोः सुतः । ब्राह्मण्यां क्षत्रियात्सूत: तस्यां वैदेहको विशः ॥ ३ ॥ |
|
2.10.4 |
रथकारस्तु माहिष्यात्करण्यां यस्य सम्भवः । स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ ४ ॥ |
|
2.10.5 |
कारु: शिल्पी संहतैस्तैर्द्वयोः श्रेणि: सजातिभिः । कुलक: स्यात्कुलश्रेष्ठी मालाकारस्तु मालिक: ॥ ५ ॥ |
|
2.10.6 |
कुम्भकार: कुलाल: स्यात्पलगण्डस्तु लेपकः । तन्तुवाय: कुविन्द: स्यात्तुन्नवायस्तु सौचिकः ॥ ६ ॥ |
|
2.10.7 |
रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसिधावकः । पादूकृच्चर्मकारः स्याद् व्योकारो लोहकारकः ॥ ७ ॥ |
|
2.10.8 |
नाडिंधम: स्वर्णकार: कलादो रुक्मकारके । स्याच्छाङ्खिकः काम्बविकः शौल्विकस्ताम्रकुट्टकः ॥ ८ ॥ |
|
2.10.9 |
तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् । ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः ॥ ९ ॥ |
|
2.10.10 |
क्षुरिमुण्डिदिवाकीर्तिनापितान्तावसायिनः । निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः ॥ १० ॥ |
|
2.10.11 |
जावालः स्यादजाजीव: देवाजीवस्तु देवलः । स्यान्माया शाम्बरी मायाकारस्तु प्रातिहारिकः ॥ ११ ॥ |
|
2.10.12 |
शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः । भरता इत्यपि नटाश्चारणास्तु कुशीलवाः ॥ १२ ॥ |
|
2.10.13 |
मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः । वेणुध्माः स्युर्वैणविका: वीणावादास्तु वैणिकाः ॥ १३ ॥ |
|
2.10.14 |
जीवान्तकः शाकुनिकः द्वौ वागुरिकजालिकौ । वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् ॥ १४ ॥ |
|
2.10.15 |
भृतको भृतिभुक्कर्मकरो वैतनिकोऽपि सः । वार्तावहो वैवधिकः भारवाहस्तु भारिकः ॥ १५ ॥ |
|
2.10.16 |
विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः । निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥ |
|
2.10.17 |
भृत्ये दासेयदासेरदासगोप्यकचेटका: । नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः ॥ १७ ॥ |
|
2.10.18 |
पराचितपरिस्कन्दपरजातपरैधिताः । मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ॥ १८ ॥ |
|
2.10.19 |
दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च । चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमा: ॥ १९ ॥ |
|
2.10.20 |
निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः । भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ॥ २० ॥ |
|
2.10.21 |
व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः । कौलेयकः सारमेयः कुक्कुरो मृगदंशक: ॥ २१ ॥ |
|
2.10.22 |
शुनको भषक: श्वा स्यादलर्कस्तु स योगितः । श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी ॥ २२ ॥ |
|
2.10.23 |
विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः । आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् ॥ २३ ॥ |
|
2.10.24 |
दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः । चौरैकागारिकस्तेनदस्युतस्करमोषकाः ॥ २४ ॥ |
|
2.10.25 |
प्रातिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः । चौरिका स्तैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धनं ॥ २५ ॥ |
|
2.10.26 |
वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् । उन्माथः कूटयन्त्रं स्याद्वागुरा मृगबन्धनी ॥ २६ ॥ |
|
2.10.27 |
शुल्चं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः । उद्धाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥ २७ ॥ |
|
2.10.28 |
पुंसि वेमा वापदण्डः सूत्राणि नरि तन्तवः । वाणिर्व्यूति स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि ॥ २८ ॥ |
|
2.10.29 |
पञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता । पिटकः पेटकः पेटा मञ्जूषाऽथ विहङ्गिका ॥ २९ ॥ |
|
2.10.30 |
भारयष्टिः तदालम्बि शिक्यं काचोऽथ पादुका । पादूरुपानत्स्त्री सैवानुपदीना पदायता ॥ ३० ॥ |
|
2.10.31 |
नध्री वर्ध्री वरत्रा स्यादश्वादेस्ताडनी कशा । चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥ ३१ ॥ |
|
2.10.32 |
नाराची स्यादेषणिका शाणस्तु निकष: कषः । वृश्चनः पत्रपरशुरेषिका तूलिका समे ॥ ३२ ॥ |
|
2.10.33 |
तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका । आस्फोटनी वेधनिका कृपाणी कर्तरी समे ॥ ३३ ॥ |
|
2.10.34 |
वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः । क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका ॥ ३४ ॥ |
|
2.10.35 |
सूर्मी स्थूणाय:प्रतिमा शिल्पं कर्म कलादिकम् । प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया ॥ ३५ ॥ |
|
2.10.36 |
प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् । वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥ ३६ ॥ |
|
2.10.37 |
साधारणः समानश्च स्युरुत्तरपदे त्वमी । निभसङ्काशनीकाशप्रतीकाशोपमादयः ॥ ३७ ॥ |
|
2.10.38 |
कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् । भरण्यं भरणं मूल्यं निर्वेश: पण इत्यपि ॥ ३८ ॥ |
|
2.10.39 |
सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा । गन्धोत्तमा प्रसन्नेराकादम्बर्यः परिस्रुता ॥ ३९ ॥ |
|
2.10.40 |
मदिरा कश्यमद्ये अप्यवदंशस्तु भक्षणम् । शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः ॥ ४० ॥ |
|
2.10.41 |
मध्वासको माधवको मधु मार्द्वीकमद्वयोः । मैरेयमासवः शीधुः मेदको जगल: समौ ॥ ४१ ॥ |
|
2.10.42 |
संधानं स्यादभिषवः किण्वं पुंसि तु नग्नहू: । कारोत्तरः सुरामण्डः आपानं पानगोष्ठिका ॥ ४२ ॥ |
|
2.10.43 |
चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम् । धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः ॥ ४३ ॥ |
|
2.10.44 |
स्युर्लग्नकाः प्रतिभुव: सभिका द्यूतकारकाः । द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥ ४४ ॥ |
|
2.10.45 |
पणोऽक्षेषु ग्लहोऽक्षास्तु दैवनाः पाशकाश्च ते । परिणायस्तु शारीणां समन्तान्नयनेऽस्त्रियाम् ॥ ४५ ॥ |
|
2.10.46 |
अष्टापदं शारिफलं प्राणिद्यूतं समाह्वयः । उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः ॥ ताद्धर्म्यादन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते ॥ ४६ ॥ |
|
3.1.1 |
विशेष्यनिघ्नैः सङ्कीर्णैर्नानार्थैरव्ययैरपि । लिङ्गादिसंग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः ॥ १ ॥ |
|
3.1.2 |
स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ २ ॥ |
|
3.1.3 |
सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः । हृदयालुः सुहृदयः महोत्साहो महोद्यमः ॥ ३ ॥ |
|
3.1.4 |
प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः । वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥ |
|
3.1.5 |
पूज्य: प्रतीक्ष्य: सांशयिक: संशयापन्नमानसः । दक्षिणेयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥ ५ ॥ |
|
3.1.6 |
स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे । जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ ६ ॥ |
|
3.1.7 |
परीक्षक: कारणिको वरदस्तु समर्धकः । हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ ७ ॥ |
|
3.1.8 |
दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः । दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ॥ ८ ॥ |
|
3.1.9 |
तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः । प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥ |
|
3.1.10 |
गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ । इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता ॥ १० ॥ |
|
3.1.11 |
अधिभूर्नायको नेता प्रभुः परिवृढोऽऽधिपः । अधिकद्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः ॥ ११ ॥ |
|
3.1.12 |
स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् । वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ १२ ॥ |
|
3.1.13 |
निर्वार्यः कार्यकर्ता यः सम्पन्नः सत्त्वसम्पदा । अवाचि मूकोऽथ मनोजव सपितृसन्निभ: ॥ १३ ॥ |
|
3.1.14 |
सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः । लक्ष्मीवांल्लक्ष्मण: श्रील: श्रीमान् स्निग्धस्तु वत्सलः ॥ १४ ॥ |
|
3.1.15 |
स्याद्दयालुः कारुणिक: कृपालुः सूरतः समाः । स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ १५ ॥ |
|
3.1.16 |
परतन्त्रः पराधीन: परवान्नाथवानपि । अधीना निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ॥ १६ ॥ |
|
3.1.17 |
खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः । जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः ॥ १७ ॥ |
|
3.1.18 |
कर्मक्षमोऽलङ्कर्मीणः क्रियावान् कर्मसूद्यतः । स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १८ ॥ |
|
3.1.19 |
भरण्यभुक्कर्मकरः कर्मकारस्तु तत् क्रियः । अपस्नातो मृतस्नात आमिषाशी तु शौष्कुल: ॥ १९ ॥ |
|
3.1.20 |
बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः । परान्नः परपिण्डादः भक्षको घस्मरोऽद्मरः ॥ २० ॥ |
|
3.1.21 |
आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते । उभौ त्वात्मम्भरिः कुक्षिंभरिः स्वोदरपूरके ॥ २१ ॥ |
|
3.1.22 |
सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक् समौ लोलुपलोलुभौ ॥ २२ ॥ |
|
3.1.23 |
उन्मादस्तून्मदिष्णुः स्यादविनीत: समुद्धतः । मत्ते शौण्डोत्कटक्षीबा: कामुके कमितानुकः ॥ २३ ॥ |
|
3.1.24 |
कम्रः कामयिताभीकः कमनः कामनोऽभिकः । विधेयो विनयग्राही वचनेस्थित आश्रवः ॥ २४ ॥ |
|
3.1.25 |
वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः । धृष्टे धृष्णग्वियातश्च प्रगल्भ: प्रतिभान्विते ॥ २५ ॥ |
|
3.1.26 |
स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते । अधीरे कातरः त्रस्ते भीरुभीरुकभीलुकाः ॥ २६ ॥ |
|
3.1.27 |
आशंसुराशंसितरि गृहयालुर्ग्रहीतरि । श्रद्धालुः श्रद्धया युक्ते पतयालुश्च पातुके ॥ २७ ॥ |
|
3.1.28 |
लज्जाशीलोऽपत्रपिष्णुः वन्दारुरभिवादके । शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुश्च वर्धन: ॥ २८ ॥ |
|
3.1.29 |
उत्पतिष्णुस्तूत्पतिताऽलङ्करिष्णुस्तु मण्डनः । भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ॥ २९ ॥ |
|
3.1.30 |
निराकरिष्णुः क्षिप्नुः स्यात् सान्द्रस्निग्धस्तु मेदुरः । ज्ञाता तु विदुरो विन्दुः विकासी तु विकस्वरः ॥ ३० ॥ |
|
3.1.31 |
विसृत्वरो विसृमर: प्रसारी च विसारिणि । सहिष्णुः सहन: क्षन्ता तितिक्षुः क्षमिता क्षमी ॥ ३१ ॥ |
|
3.1.32 |
क्रोधनोऽमर्षण: कोपी चण्डस्त्वत्यन्तकोपनः । जागरूको जागरिता घूर्णितः प्रचलायित: ॥ ३२ ॥ |
|
3.1.33 |
स्वप्नक् शयालुर्निद्रालुः निद्राणशयितौ समौ । पराङ्मुखः पराचीन: स्यादवाङप्यधोमुखः ॥ ३३ ॥ |
|
3.1.34 |
देवानञ्चति देवद्र्यङ् विष्वद्र्यङ् विष्वगञ्चति । य: सहाञ्चति सध्र्यङ् सः स तिर्यङ् यस्तिरोऽञ्चति ॥ ३४ ॥ |
|
3.1.35 |
वदो वदावदो वक्ता वागीशो वाक्पतिः समौ । वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ॥ ३५ ॥ |
|
3.1.36 |
स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् । दुर्मुखे मुखराबद्धमुखौ शक्ल: प्रियंवदे ॥ ३६ ॥ |
|
3.1.37 |
लोहलः स्यादस्फुटवाग् गर्ह्यवादी तु कद्वदः । समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः ॥ ३७ ॥ |
|
3.1.38 |
रवण: शब्दनो नान्दीवादी नान्दीकरः समौ । जडोऽज्ञे एडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥ |
|
3.1.39 |
तूष्णींशीलस्तु तूष्णीक: नग्नोऽवासा दिगम्बरः । निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः ॥ ३९ ॥ |
|
3.1.40 |
आत्तगर्वोऽभिभूतः स्याद् दापितः साधित: समौ । प्रत्यादिष्टो निरस्त: स्यात्प्रत्याख्यातो निराकृतः ॥ ४० ॥ |
|
3.1.41 |
निकृत: स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः । मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ४१ ॥ |
|
3.1.42 |
अधिक्षिप्त: प्रतिक्षिप्तो बद्धे कीलितसंयतौ । आपन्न आपत्प्राप्तः स्यात् कांदिशीको भयद्रुतः ॥ ४२ ॥ |
|
3.1.43 |
आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे । व्यसनापरक्तौ द्वौ विहस्तव्याकुलौ समौ ॥ ४३ ॥ |
|
3.1.44 |
विक्लवो विह्वल: स्यात्तु विवशोऽरिष्टदुष्टधीः । कश्यः कशार्हे संनद्धे त्वाततायी वधोद्यते ॥ ४४ ॥ |
|
3.1.45 |
द्वेष्ये त्वक्षिगतो वध्य: शीर्षच्छेद्य इमौ समौ । विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः ॥ ४५ ॥ |
|
3.1.46 |
शिश्विदानोऽकृष्णकर्मा चपलश्चिकुर: समौ । दोषैकदृक् पुरोभागी निकृतस्त्वनृजुः शठः ॥ ४६ ॥ |
|
3.1.47 |
कर्णेजपः सूचक: स्यात् पिशुनो दुर्जनः खलः । नृशंसो घातुकः क्रूर: पापः धूर्तस्तु वञ्चकः ॥ ४७ ॥ |
|
3.1.48 |
अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः । कदर्ये कृपणक्षुद्रकिंपचानमितंपचा: ॥ ४८ ॥ |
|
3.1.49 |
नि:स्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः । वनीयको याचनको मार्गणो याचकार्थिनौ ॥ ४९ ॥ |
|
3.1.50 |
अहंकारवानहंयुः शुभंयुस्तु शुभान्वितः । दिव्योपपादुका देवा नृगवाद्या जरायुजाः ॥ ५० ॥ |
|
3.1.51 |
स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः । उद्भिदस्तरुगुल्माद्या: उद्भिदुद्भिज्जमुद्भिदम् ॥ ५ ॥ |
|
3.1.52 |
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् । कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ५२ ॥ |
|
3.1.53 |
तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् । अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥ |
|
3.1.54 |
निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः । कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः ॥ ५४ ॥ |
|
3.1.55 |
मलीमसं तु मलिनं कच्चरं मलदूषितम् । पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् ॥ ५५ ॥ |
|
3.1.56 |
निर्णिक्तं शोधितं मृष्टं नि:शोध्यमनवस्करम् । असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके ॥ ५६ ॥ |
|
3.1.57 |
क्लीबे प्रधानं प्रमुखं प्रवेकानुत्तमोत्तमाः । मुख्यवर्यवरेण्याश्च प्रवर्हानवरार्ध्यवत् ॥ ५७ ॥ |
|
3.1.58 |
परार्ध्याग्रप्राग्रहरप्राग्र्यग्रीयमग्रियम् । श्रेयाञ्श्रेष्ठः पुष्कल: स्यात्सत्तमश्चातिशोभने ॥ ५८ ॥ |
|
3.1.59 |
स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ५९ ॥ |
|
3.1.60 |
अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने । विशङ्कटं पृथु बृहद्विशालं पृथुलं महत् ॥ ६० ॥ |
|
3.1.61 |
वड्रोरुविपुलं पीनपीव्नी न स्थूलपीवरे । स्तोकाल्पक्षुल्लकाः श्लक्ष्णं सूक्ष्मं दभ्रं कृशं तनु ॥ ६१ ॥ |
|
3.1.62 |
स्त्रियां मात्रा त्रुटी पुंसि लवलेशकणाणवः । अत्यल्पेऽल्पिष्ठमल्पीय: कनीयोऽणीय इत्यपि ॥ ६२ ॥ |
|
3.1.63 |
प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु । पुरुहं पुरु भूयिष्ठं स्फिरं भूयश्च भूरि च ॥ ६३ ॥ |
|
3.1.64 |
परश्शताद्यास्ते येषां परा संख्या शतादिकात् । गणनीये तु गाणेयं संख्यातं गणितमथ समं सर्वम् ॥ ६४ ॥ |
|
3.1.65 |
विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि नि:शेषम् । समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥ ६५ ॥ |
|
3.1.66 |
घनं निरन्तरं सान्द्रं पेलवं विरलं तनु । समीपे निकटासन्नसन्निकृष्टसनीडवत् ॥ ६६ ॥ |
|
3.1.67 |
सदेशाभ्याशसविधसमर्यादसवेशवत् । उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितो व्ययम् ॥ ६७ ॥ |
|
3.1.68 |
संसक्ते त्वव्यवहितमपटान्तरमित्यपि । नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम् ॥ ६८ ॥ |
|
3.1.69 |
दवीयश्च दविष्ठं च सुदूरे दीर्घमायतम् । वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम् ॥ ६९ ॥ |
|
3.1.70 |
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने । न्यग्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते ॥ ७० ॥ |
|
3.1.71 |
अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् । आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ७१ ॥ |
|
3.1.72 |
ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ । शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ॥ ७२ ॥ |
|
3.1.73 |
स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः । कालव्यापी स कूटस्थ: स्थावरो जङ्गमेतरः ॥ ७३ ॥ |
|
3.1.74 |
चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् । चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ॥ ७४ ॥ |
|
3.1.75 |
चञ्चलं तरलं चैव पारिप्लवपरिप्लवे । अतिरिक्तः समधिको दृढसंधिस्तु संहत: ॥ ७५ ॥ |
|
3.1.76 |
कक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् । जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥ |
|
3.1.77 |
पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः । प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ७७ ॥ |
|
3.1.78 |
नूत्नश्च सुकुमारं तु कोमलं मृदुलं मृदु । अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ॥ ७८ ॥ |
|
3.1.79 |
प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् । एकतानोऽनन्यवृत्तिरेकाग्रेकायनावपि ॥ ७९ ॥ |
|
3.1.80 |
अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि च । पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्याः अथास्त्रियाम् ॥ ८० ॥ |
|
3.1.81 |
अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमम् । मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१ ॥ |
|
3.1.82 |
साधारणं तु सामान्यमेकाकी त्वेक एककः । भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि ॥ ८२ ॥ |
|
3.1.83 |
उच्चावचं नैकभेदमुच्चण्डमविलम्बितम् । अरुंतुदंतु मर्मस्पृगबाधं तु निरर्गलम् ॥ ८३ ॥ |
|
3.1.84 |
प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च । वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणे ॥ ८४ ॥ |
|
3.1.85 |
संकटं ना तु संबाधः कलिलं गहनं समे । संकीर्णं सङ्कुलाकीर्णे मुण्डितं परिवापितम् ॥ ८५ ॥ |
|
3.1.86 |
ग्रन्थिते संदितं दृब्धं विसृतं विस्तृतं ततम् । अन्तर्गतं विस्मृतं स्यात् प्राप्तप्रणिहिते समे ॥ ८६ ॥ |
|
3.1.87 |
वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते । नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः ॥ ८७ ॥ |
|
3.1.88 |
परिक्षिप्तं तु निवृतं मूषितं मुषितार्थकम् । प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते ॥ ८८ ॥ |
|
3.1.89 |
निदिग्धोपचिते गूढगुप्ते गुण्डितरूषिते । द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते ॥ ८९ ॥ |
|
3.1.90 |
घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे । वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् ॥ ९० ॥ |
|
3.1.91 |
रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते । स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते ॥ ९१ ॥ |
|
3.1.92 |
वृत्ते तु वृत्तवावृत्तौ संयोजित उपाहितः । प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुते ॥ ९२ ॥ |
|
3.1.93 |
संगूढः स्यात्सङ्कलितोऽवगीत: ख्यातगर्हणः । विविधः स्वाद्वहुविधो नानारूप: पृथग्विध: ॥ ९३ ॥ |
|
3.1.94 |
अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः । अनायासकृतं फाण्टं स्वनितं ध्वनितं समे ॥ ९४ ॥ |
|
3.1.95 |
बद्धे संदानितं मूतमुद्दितं संदितं सितम् । निष्पक्वं क्वथितं पाके क्षीराज्यपयसां शृतम् ॥ ९५ ॥ |
|
3.1.96 |
निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गताऽनिले । पक्वं परिणते गूनं हन्ने मीढं तु मूत्रिते ॥ ९६ ॥ |
|
3.1.97 |
पुष्टे तु पुषितं सोढो क्षान्तमुद्वान्तमुद्गते । दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः ॥ ९७ ॥ |
|
3.1.98 |
ज्ञप्तस्तु ज्ञपिते छन्नश्छादिते पूजितेऽञ्चितः । पूर्णस्तु पूरिते क्लिष्ट: क्लिशितेऽवसिते सितः ॥ ९८ ॥ |
|
3.1.99 |
पृष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते । वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते ॥ ९९ ॥ |
|
3.1.100 |
निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ । सिद्धे निवृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥ १०० ॥ |
|
3.1.101 |
ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते । स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम् ॥ १०१ ॥ |
|
3.1.102 |
वरिवसिते वरिवस्यितमुपासितं चोपचरितं च । संतापितसंतप्तौ धूपितधूपायितौ च दूनश्च ॥ १०२ ॥ |
|
3.1.103 |
हृष्टे मत्तस्तृप्तः प्रह्लन्न: प्रमुदितः प्रीतः । छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् ॥ १०३ ॥ |
|
3.1.104 |
स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् । लब्धं प्राप्तं विन्नं भावितमासादितञ्च भूतञ्च ॥ १०४ ॥ |
|
3.1.105 |
अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् । आर्द्रं सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमु ॥ १०५ ॥ |
|
3.1.106 |
त्राणं त्रातं रक्षितमवितं गोपायितं च गुप्तं च । अवगणितमवमतावज्ञातेऽवमानितञ्च परिभूते ॥ १०६ ॥ |
|
3.1.107 |
त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे । उक्तं भाषितमुदितञ्जल्पितमाख्यातमभिहितं लपितम् ॥ १०७ ॥ |
|
3.1.108 |
बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते । ऊरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ॥ १०८ ॥ |
|
3.1.109 |
संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् । ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि ॥ १०९ ॥ |
|
3.1.110 |
अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि । भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम् ॥ ११० ॥ |
|
3.1.111 |
अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते । क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥ |
|
3.1.112 |
क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुप्रकर्षार्थाः । साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः ॥ बाढव्यायतबहुगुरुवामनवृन्दारकातिशये ॥ ११२ ॥ |
|
3.2.1 |
प्रकृतिप्रत्ययाद्यर्थाद्यैः सङ्कीर्णे लिङ्गमुन्नयेत् । कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥ |
|
3.2.2 |
साकल्यासङ्गवचने पारायणतुरायणे । यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम् ॥ २ ॥ |
|
3.2.3 |
शमथस्तु शमः शान्तिः दान्तिस्तु दमथो दमः । अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् ॥ ३ ॥ |
|
3.2.4 |
वशक्रिया संवननं मूलकर्म तु कार्मणम् । विधूननं विधुवनम् तर्पणं प्रीणनावनम् ॥ ४ ॥ |
|
3.2.5 |
पर्याप्तिः स्यात्परित्राणं हस्तवारणमित्यपि । सेवनं सीवनं स्यूतिः विदरः स्फुटनं भिदा ॥ ५ ॥ |
|
3.2.6 |
आक्रोशनमभीषङ्गः संवेदो वेदना न ना । सम्मूर्छनमभिव्याप्तिः याञ्चा भिक्षार्थनार्दना ॥ ६ ॥ |
|
3.2.7 |
वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने । आप्रच्छन्नमथाम्नायः सम्प्रदाय: क्षये क्षिया ॥ ७ ॥ |
|
3.2.8 |
ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रण: क्वणे । व्यधो वेधे पचा पाके हवो हूतौ वरो वृतौ ॥ ८ ॥ |
|
3.2.9 |
ओष: प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ । स्फातिर्वृद्धौ प्रथा ख्यातौ स्पृष्टि: पृक्तौ स्नव: स्रवे ॥ ९ ॥ |
|
3.2.10 |
विधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा । प्रसूति: प्रसवे श्च्योते प्राघार: क्लमथ: क्लमे ॥ १० ॥ |
|
3.2.11 |
उत्कर्षोऽतिशये संधिः श्लेषे विषय आशये । क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे ॥ ११ ॥ |
|
3.2.12 |
उन्नाय उन्नये श्रायः श्रयणे जयने जयः । निगादो निगदे मादो मदे उद्वेग उद्भ्रमे ॥ १२ ॥ |
|
3.2.13 |
विमर्दनं परिमलेऽभ्युपपत्तिरनुग्रहः । निग्रहस्तु निरोधः स्यादभियोगस्त्वभिग्रहः ॥ १३ ॥ |
|
3.2.14 |
मुष्टिबन्धस्तु संग्राहः डिम्बे डमरविप्लवौ । बन्धनं प्रसितिश्चार: स्पर्शः स्प्रष्टोपतप्तरि ॥ १४ ॥ |
|
3.2.15 |
निकारो विप्रकार: स्यादाकारस्त्विङ्ग इङ्गितम् । परिणामो विकारो द्वे समे विकृतिविक्रिये ॥ १५ ॥ |
|
3.2.16 |
अपहारस्त्वपचयः समाहारः समुच्चयः । प्रत्याहार उपादानं विहारस्तु परिक्रमः ॥ १६ ॥ |
|
3.2.17 |
अभिहारोऽभिग्रहणं निर्हारोऽभ्यवकर्षणम् । अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः ॥ १७ ॥ |
|
3.2.18 |
प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः । वियामो वियमो यामो यमः संयामसंयमौ ॥ १८ ॥ |
|
3.2.19 |
हिंसाकर्माभिचार: स्याज्जागर्या जागरा द्वयोः । विघ्नोऽन्तराय: प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये ॥ १९ ॥ |
|
3.2.20 |
निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया । विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ॥ २० ॥ |
|
3.2.21 |
संक्षेपणं समसनं पर्यवस्था विरोधनम् । परिसर्या परीसारः स्यादास्या त्वासना स्थितिः ॥ २१ ॥ |
|
3.2.22 |
विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः । स्यान्मर्दनं संवहनं विनाशः स्याददर्शनम् ॥ २२ ॥ |
|
3.2.23 |
संस्तव: स्यात्परिचय: प्रसरस्तु विसर्पणम् । नीवाकस्तु प्रयाम: स्यात्सन्निधिः सन्निकर्षणम् ॥ २३ ॥ |
|
3.2.24 |
लवोऽभिलावो लवने निष्पावः पवने पवः । प्रस्तावः स्यादवसरः त्रसरः सूत्रवेष्टनम् ॥ २४ ॥ |
|
3.2.25 |
प्रजनः स्यादुपसर: प्रश्रयप्रणयौ समौ । धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसंचरः ॥ २५ ॥ |
|
3.2.26 |
प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रम: । स्यादभ्यादानमुद्धात आरम्भः संभ्रमस्त्वरा ॥ २६ ॥ |
|
3.2.27 |
प्रतिबन्धः प्रतिष्टम्भोऽवनायस्तु निपातनम् । उपलम्भस्त्वनुभवः समालम्भो विलेपनम् ॥ २७ ॥ |
|
3.2.28 |
विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् । विश्रावस्तु प्रविख्यातिरवेक्षा प्रतिजागरः ॥ २८ ॥ |
|
3.2.29 |
निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने । आदीनवास्रवौ क्लेशे मेलके सङ्गसङ्गमौ ॥ २९ ॥ |
|
3.2.30 |
संवीक्षणं विचयनं मार्गणं मृगणा मृगः । परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ३० ॥ |
|
3.2.31 |
निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् । प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥ |
|
3.2.32 |
उपशायो विशायश्च पर्यायशयनार्थकौ । अर्तनं च ऋतीया च हृणीया च घृणार्थके ॥ ३२ ॥ |
|
3.2.33 |
स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये । पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्यय: ॥ ३३ ॥ |
|
3.2.34 |
प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् । स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् ॥ ३४ ॥ |
|
3.2.35 |
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः । स्तम्बघ्नस्तु स्तम्बघन: स्तम्बो येन निहन्यते ॥ ३५ ॥ |
|
3.2.36 |
आविधो विध्यते येन तत्र विष्वक्समे निघः । उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥ ३६ ॥ |
|
3.2.37 |
निगारोद्गारविक्षावोद्ग्राहानिगरणादिषु । आरत्यवरतिविरतय उपरामेऽथास्त्रियां तु निष्ठेवः ॥ ३७ ॥ |
|
3.2.38 |
निष्ठ्यूतिर्निष्ठेवनं निष्ठीवनमित्यभिन्नानि । जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः ॥ ३८ ॥ |
|
3.2.39 |
उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे । गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् ॥ ३९ ॥ |
|
3.2.40 |
आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् । माणवानां तु माणव्यं सहायानां सहायता ॥ ४० ॥ |
|
3.2.41 |
हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् । द्वे पशुकानां पृष्ठानां पार्श्व पृष्ठ्यमिति क्रमात् ॥ ४१ ॥ |
|
3.2.42 |
खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम् । ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् ॥ अपि साहस्रकारीषचार्मणाथर्वणादिकम् ॥ ४२ ॥ |
|
3.3.1 |
नानार्थाः केऽपि कान्तादिवर्गेष्वेवात्र कीर्तिताः । भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥ १ ॥ |
|
3.3.2 |
आकाशे त्रिदिवे नाको लोकस्तु भुवने जने । पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ २ ॥ |
|
3.3.3 |
जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ । आलोकौ दर्शनोद्योतौ भेरीपटहमानकौ ॥ ३ ॥ |
|
3.3.4 |
उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः । तक्षको नागवर्धक्योरर्कः स्फटिकसूर्ययो: ॥ ४ ॥ |
|
3.3.5 |
मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोऽम्बुनोः । स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ ५ ॥ |
|
3.3.6 |
उलूके करिणः पुच्छमूलोपान्ते च पेचकः । कमण्डलौ च करकः सुगते च विनायकः ॥ ६ ॥ |
|
3.3.7 |
किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः । प्रतिकूले प्रतीकस्रिष्वेकदेशे तु पुंस्ययम् ॥ ७ ॥ |
|
3.3.8 |
स्याद्भूतिकं तु भूनिम्बे कट्फले भूस्तृणेऽपि च । ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले ॥ ८ ॥ |
|
3.3.9 |
सिते च खदिरे सोमवल्कः स्यादथ सिह्लके । तिलकल्के च पिण्याको वाह्लीकं रामठेऽपि च ॥ ९ ॥ |
|
3.3.10 |
महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः । रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु ॥ १० ॥ |
|
3.3.11 |
जैवातृक: शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः । व्याघेऽपि पुण्डरीको ना यवान्यामपि दीपकः ॥ ११ ॥ |
|
3.3.12 |
शालावृका: कपिक्रोष्टुश्वान: स्वर्णेऽपि गैरिकम् । पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते ॥ १२ । |
|
3.3.13 |
शीलान्वयावनूके द्वे शल्के शकलवल्कले । साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥ १३ ॥ |
|
3.3.14 |
दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री समलैनसोः । दम्येऽप्यथ पिनाकोऽस्त्री शूलशंकरधन्वनो: ॥ १४ ॥ |
|
3.3.15 |
धेनुका तु करेण्वां च मेघजाले च कालिका । कारिका यातनाकृत्योः कर्णिका कर्णभूषणे ॥ १५ ॥ |
|
3.3.16 |
करिहस्ताङ्गलौ पद्मबीजकोश्यां त्रिषूत्तरे । वृन्दारको रूपिमुख्यावेके मुख्यान्यकेवला: ॥ १६ ॥ |
|
3.3.17 |
स्याद्दाम्भिक: कौक्कुटिको यश्चादूरेरितेक्षणः । लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः ॥ १७ ॥ |
|
3.3.18 |
मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ । शङ्खो निधौ ललाटास्थ्नि कम्बौ न स्त्रीन्द्रियेऽपि खम् ॥ १८ ॥ |
|
3.3.19 |
घृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ । आशुगौ वायुविशिखौ शरार्कविहगाः खगाः ॥ १९ ॥ |
|
3.3.20 |
पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः । पशवोऽपि मृगाः वेग: प्रवाहजवयोरपि ॥ २० ॥ |
|
3.3.21 |
पराग: कौसुमे रेणौ स्नानीयादौ रजस्यपि । गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च ॥ २१ ॥ |
|
3.3.22 |
सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु । योगः सन्नहनोपायध्यानसंगतियुक्तिषु ॥ २२ ॥ |
|
3.3.23 |
भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः । चातके हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ २३ ॥ |
|
3.3.24 |
कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे । यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ २४ ॥ |
|
3.3.25 |
स्वर्गेषुपशुवाग्वज्रदिनेत्रघृणिभूजले । लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः लिङ्गं चिह्नशेफसोः ॥ २५ ॥ |
|
3.3.26 |
शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः । भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥ |
|
3.3.27 |
परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसांरये । मूल्ये पूजाविधावर्घ अंहोदुःखव्यसनेष्वघम् ॥ २७ ॥ |
|
3.3.28 |
त्रिष्विष्टेऽल्पे लघुः काचा: शिक्यमृद्भेददृग्रुजः । विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः ॥ २८ ॥ |
|
3.3.29 |
मास्यमात्ये चात्युपधे पुंसि मेध्ये सिते त्रिषु । अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचि: स्त्रियाम् ॥ २९ ॥ |
|
3.3.30 |
केकितार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः । अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजा: ॥ ३० ॥ |
|
3.3.31 |
धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् । बलजे क्षेत्रपूर्द्वारे बलजा वल्गुदर्शना ॥ ३१ ॥ |
|
3.3.32 |
समक्ष्मांशे रणेऽप्याजि: प्रजा स्यात्संततौ जने । अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु ॥ ३२ ॥ |
|
3.3.33 |
पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः । संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना ॥ ३३ ॥ |
|
3.3.34 |
काकेभगण्डौ करटौ गजगण्डकटी कटौ । शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ ३४ ॥ |
|
3.3.35 |
देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः । रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥ ३५ ॥ |
|
3.3.36 |
रिष्टं क्षेमाशुभाभावेष्वरिष्टं तु शुभाशुभे । मायानिश्चलयन्त्रेषु कैतवानृतराशिषु ॥ ३६ ॥ |
|
3.3.37 |
अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् । सूक्ष्मैलायां त्रुटि: स्त्री स्यात्कालेल्पे संशयेपि सा ॥ ३७ ॥ |
|
3.3.38 |
आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा । व्युष्टि: फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ॥ ३८ ॥ |
|
3.3.39 |
इष्टिर्यागेच्छयो: सृष्टिर्निश्चिते बहुनि त्रिषु । कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु ॥ ३९ ॥ |
|
3.3.40 |
पटुः द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च । पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥ ४० ॥ |
|
3.3.41 |
निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि । त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः ॥ ४१ ॥ |
|
3.3.42 |
दण्डोऽस्त्री लगुडेऽपि स्याद् गुडो गोलेक्षुपाकयोः । सर्पमांसात्पशू व्याडौ गोभूवाचस्त्विडा इला ॥ ४२ ॥ |
|
3.3.43 |
क्ष्वेडा वंशशलाकापि नाडी नालेऽपि षट्क्षणे । काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु ॥ ४३ ॥ |
|
3.3.44 |
स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने । भृशप्रतिज्ञयोर्वाढं प्रगाढं भृशकृच्छ्रयो: ॥ ४४ ॥ |
|
3.3.45 |
शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ । भ्रूणोऽर्भके स्त्रैणगर्भे वाणो वलिसुते शरे ॥ ४५ ॥ |
|
3.3.46 |
कणोऽतिसूक्ष्मे धान्यांशे संघाते प्रमथे गणः । पणो द्यूतादिषुत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ ४६ ॥ |
|
3.3.47 |
मौर्व्यां द्रव्याश्रिते सत्त्वशुक्लसंध्यादिके गुणः । निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षण: ॥ ४७ ॥ |
|
3.3.48 |
वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु चाक्षरे । अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु ॥ ४८ ॥ |
|
3.3.49 |
स्थाणुः शर्वोऽप्यथ द्रोण: काकेऽप्याजे रवे रणः । ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥ ४९ ॥ |
|
3.3.50 |
ऊर्णामेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवौ । हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या ॥ ५० ॥ |
|
3.3.51 |
त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः । तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे ॥ ५१ ॥ |
|
3.3.52 |
वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी । करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् ॥ ५२ ॥ |
|
3.3.53 |
शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च । विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु ॥ ५३ ॥ |
|
3.3.54 |
प्रमाणं हेतुमर्यादाशात्रेयत्ताप्रमातृषु । करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि ॥ ५४ ॥ |
|
3.3.55 |
प्राण्युत्पादे संसरणमसंबाधचमूगतौ । घण्टापथेऽथ वान्तान्ने समुद्धरणमुन्नये ॥ ५५ ॥ |
|
3.3.56 |
अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः । प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे ॥ ५६ ॥ |
|
3.3.57 |
सङ्कीर्णो निचिताशुद्धाविरिणं शून्यमूषरम् । देवसूर्यो विवस्वन्तौ सरस्वन्तौ नदार्णवौ ॥ ५७ ॥ |
|
3.3.58 |
पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ । अग्न्यूत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ॥ ५८ ॥ |
|
3.3.59 |
हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ । यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि ॥ ५९ ॥ |
|
3.3.60 |
यानपात्रे शिशौ पोत: प्रेत: प्राण्यन्तरे मृते । ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ॥ ६० ॥ |
|
3.3.61 |
स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे । मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्रीकुसुमेऽपि च ॥ ६१ ॥ |
|
3.3.62 |
विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ । व्यक्त: प्राज्ञेऽपि दृष्टान्तावुभे शास्त्रनिदर्शने॥ ६२ ॥ |
|
3.3.63 |
क्षत्ता स्यात्सारथौ द्वा:स्थे क्षत्रियायां च शूद्रजे । वृत्तान्त: स्यात्प्रकरणे प्रकार कार्त्स्न्यवार्तयोः ॥ ६३ ॥ |
|
3.3.64 |
आनर्तः समरे नृत्यस्थाननीवृद्विशेषयो: । कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ ६४ ॥ |
|
3.3.65 |
श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणा: । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥ ६५ ॥ |
|
3.3.66 |
कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे । कासूसामर्थ्ययोः शक्तिः मूर्ति: काठिन्यकाययोः ॥ ६६ ॥ |
|
3.3.67 |
विस्तारवल्ल्योर्व्रततिः वसती रात्रिवेश्मनोः । क्षयार्चयोरपचितिः सातिर्दानावमानयोः ॥ ६७ ॥ |
|
3.3.68 |
अर्ति: पीडाधनुष्कोट्योः जाति: सामान्यजन्मनो: । प्रचारस्यन्दयो रीतिः ईतिर्डिम्बप्रवासयोः ॥ ६८ ॥ |
|
3.3.69 |
उदयेऽधिगमे प्राप्तिः त्रेता त्वग्नित्रये युगे । वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि ॥ ६९ ॥ |
|
3.3.70 |
नदीनगर्योर्नागानां भोगवत्यथ सङ्गरे । सङ्गे सभायां समितिः क्षयवासावपि क्षितिः ॥ ७० ॥ |
|
3.3.71 |
रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः । जगती जगतिच्छन्दोविशेषेऽपि क्षितावपि ॥ ७१ ॥ |
|
3.3.72 |
पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायति: । पत्तिर्गतौ च मूले तु पक्षति: पक्षभेदयोः ॥ ७२ ॥ |
|
3.3.73 |
प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः । सिकता: स्युर्वालुकापि वेदे श्रवसि च श्रुतिः ॥ ७३ ॥ |
|
3.3.74 |
वनिता जनितात्यर्थानुरागायां च योषिति । गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः ॥ ७४ ॥ |
|
3.3.75 |
वृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि । वासिता स्त्रीकरिण्योश्च वार्ता वृत्तौ जनश्रुतौ ॥ ७५ ॥ |
|
3.3.76 |
वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते । कलधौतं रूप्यहेम्नोः निमित्तं हेतुलक्ष्मणोः ॥ ७६ ॥ |
|
3.3.77 |
श्रुतं शास्त्रावधृतयोः युगपर्याप्तयोः कृतम् । अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ॥ ७७ ॥ |
|
3.3.78 |
युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु । वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले ॥ ७८ ॥ |
|
3.3.79 |
महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु । श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु ॥ ७९ ॥ |
|
3.3.80 |
त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च । अवदात: सिते पीते शुद्धे बद्धार्जुनौ सितौ ॥ ८० ॥ |
|
3.3.81 |
युक्तेऽतिसंस्कृते मर्षिण्यभिनीतोऽथ संस्कृतम् । कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि ॥ ८१ ॥ |
|
3.3.82 |
ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे । विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ ॥ ८२ ॥ |
|
3.3.83 |
द्वौ चाम्लपुरुषौ शुक्तौ शिती धवलमेचकौ । सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ॥ ८३ ॥ |
|
3.3.84 |
पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते । निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ॥ ८४ ॥ |
|
3.3.85 |
जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता: उत्थितास्त्वमी । वद्धिमत्त्रोद्यतोत्पन्नाः आदृतौ सादरार्चितौ ॥ ८५ ॥ |
|
3.3.86 |
अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु । निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ ॥ ८६ ॥ |
|
3.3.87 |
समर्थसिषु शक्तिस्थे संबद्धार्थे हितेऽपि च । दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि ॥ ८७ ॥ |
|
3.3.88 |
आस्थानीयत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः । अभिप्रायवश छन्दावब्दौ जीमूतवत्सरौ ॥ ८८ ॥ |
|
3.3.89 |
अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ । पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः ॥ ८९ ॥ |
|
3.3.90 |
निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः । आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ॥ ९० ॥ |
|
3.3.91 |
स्यात्प्रसादोऽनुरोधेऽपि सूदः स्याद्वयञ्जने त्रिषु । गोष्ठाध्यक्षेऽपि गोविन्दः हर्षेऽप्यामोदयन्मदः ॥ ९१ ॥ |
|
3.3.92 |
प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् । स्त्री संविज्ञानसंभाषाक्रियाकाराजिनामसु ॥ ९२ ॥ |
|
3.3.93 |
धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् । पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ॥ ९३ ॥ |
|
3.3.94 |
गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् । त्रिष्वष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ॥ ९४ ॥ |
|
3.3.95 |
मूढाल्पापटुनिर्भाग्या मन्दाः स्युः द्वौ तु शारदौ । प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ ॥ ९५ ॥ |
|
3.3.96 |
व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः । पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥ ९६ ॥ |
|
3.3.97 |
परिधिर्यज्ञियतरोः शाखायामुपसूर्यके । बन्धकं व्यसनं चेत:पीडाधिष्ठानमाधयः ॥ ९७ ॥ |
|
3.3.98 |
स्युः समर्थननीवाकनियमाश्च समाधयः । दोषोत्पादेऽनुबन्ध: स्यात्प्रकृत्यादिविनश्वरे ॥ ९८ ॥ |
|
3.3.99 |
मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने । विधुर्विष्णौ चन्द्रमसि परिच्छेदे विलेऽवधि: ॥ ९९ ॥ |
|
3.3.100 |
विधिर्विधाने दैवेऽपि प्रणिधि: प्रार्थने चरे । बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च ॥ १०० ॥ |
|
3.3.101 |
देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् । विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु ॥ १०१ ॥ |
|
3.3.102 |
वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही । संधा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्यय: स्पृहा ॥ १०२ ॥ |
|
3.3.103 |
मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि । अतस्त्रिषु समुन्नद्धौ पण्डितंमन्यगर्वितौ ॥ १०३ ॥ |
|
3.3.104 |
ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बित: । अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ ॥ १०४ ॥ |
|
3.3.105 |
सूर्यवह्री चित्रभानू भानू रश्मिदिवाकरौ । भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ ॥ १०५ ॥ |
|
3.3.106 |
ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ । तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ ॥ १०६ ॥ |
|
3.3.107 |
प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ । द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः ॥ १०७ ॥ |
|
3.3.108 |
कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः । वर्षार्चिव्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः ॥ १०८ ॥ |
|
3.3.109 |
क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः । आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्मवर्ष्म च ॥ १०९ ॥ |
|
3.3.110 |
शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः । अभिमानोऽर्थादिदपेऽज्ञाने प्रणयहिंसयोः ॥ ११० ॥ |
|
3.3.111 |
घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे । इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे ॥ १११ ॥ |
|
3.3.112 |
वाणिन्यौ नर्तकीदूत्यौ स्रवन्त्यामपि वाहिनी । ह्रादिन्यौ वज्रतडितौ वन्दायामपि कामिनी ॥ ११२ ॥ |
|
3.3.113 |
त्वग्देहयोरपि तनुः सूनाधोजिह्विकापि च । क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ११३ ॥ |
|
3.3.114 |
मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे । वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ॥ ११४ ॥ |
|
3.3.115 |
उत्साहने च हिंसायां सूचने चापि गन्धनम् । आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् ॥ ११५ ॥ |
|
3.3.116 |
व्यञ्जनं लाञ्छनं श्मश्रुनिष्ठानावयवेष्वपि । स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ ११६ ॥ |
|
3.3.117 |
स्यादुद्यानं नि:सरणे वनभेदे प्रयोजने । अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् ॥ ११७ ॥ |
|
3.3.118 |
उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च । व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च ॥ ११८ ॥ |
|
3.3.119 |
मारणे मृतसंस्कारे गतौ द्रव्योऽपपादने । निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ ११९ ॥ |
|
3.3.120 |
निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च । व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ १२० ॥ |
|
3.3.121 |
पक्ष्माक्षिलोम्नि किंजल्के तन्त्वाद्यंशेऽप्यणीयसि । तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि ॥ १२१ ॥ |
|
3.3.122 |
अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते । प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः ॥ १२२ ॥ |
|
3.3.123 |
प्रसूनं पुष्पफलयोः निधनं कुलनाशयोः । क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ॥ १२३ ॥ |
|
3.3.124 |
गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे । संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः ॥ १२४ ॥ |
|
3.3.125 |
आच्छादनं संपिधानमपवारणमित्युभे । आराधनं साधने स्यादवाप्तौ तोषणेऽपि च ॥ १२५ ॥ |
|
3.3.126 |
अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि । रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने ॥ १२६ ॥ |
|
3.3.127 |
तलिनं विरले स्तोके वाच्यलिङ्गास्तथोत्तरे । समाना: सत्समैके स्युः पिशुनौ खलसूचकौ ॥ १२७ ॥ |
|
3.3.128 |
हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ । अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि ॥ १२८ ॥ |
|
3.3.129 |
कलापो भूषणे बर्हे तूणीरे संहतेऽपि च । परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ १२९ ॥ |
|
3.3.130 |
गोधुग् गोष्ठपतिर्गोपौ हरो विष्णुर्वृषाकपिः । बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम् ॥ १३० ॥ |
|
3.3.131 |
तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम् । प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयो: ॥ १३१ ॥ |
|
3.3.132 |
भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी । रवर्णे पुंसि रेफ: स्यात्कुत्सिते वाच्यलिङ्गकः ॥ १३२ ॥ |
|
3.3.133 |
अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने । कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ ॥ १३३ ॥ |
|
3.3.134 |
पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुत्वेऽपि पूर्वजान् । कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ ॥ १३४ ॥ |
|
3.3.135 |
स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ । कुक्षिभूणार्भका गर्भा विस्रम्भ: प्रणयेऽपि च ॥ १३५ ॥ |
|
3.3.136 |
स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् । स्यान्महारजने क्लीबं कुसुम्भं करके पुमान् ॥ १३६ ॥ |
|
3.3.137 |
क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् । सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः ॥ १३७ ॥ |
|
3.3.138 |
किरणप्रग्रहौ रश्मी कपिभेकौ प्लवंगमौ । इच्छामनोभवौ कामौ शौर्योद्योगौ पराक्रमौ ॥ १३८ ॥ |
|
3.3.139 |
धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः । उपायपूर्व आरम्भ उपधा चाप्युपक्रमः ॥ १३९ ॥ |
|
3.3.140 |
वणिक्पथः पुरं वेदो निगमो नागरो वणिक् । नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ॥ १४० ॥ |
|
3.3.141 |
शब्दादिपूर्वी वृन्देऽपि ग्रामः कान्तौ च विक्रमः । स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुटिलेऽलसे ॥ १४१ ॥ |
|
3.3.142 |
गुल्मा रुक्स्तम्बसेनाश्च जामि: स्वसृकुलस्त्रियोः । क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ॥ १४२ ॥ |
|
3.3.143 |
त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा । ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥ १४३ ॥ |
|
3.3.144 |
सूक्ष्ममध्यात्ममप्यादौ प्रधाने प्रथमः त्रिषु । वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ ॥ १४४ ॥ |
|
3.3.145 |
जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् । तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ ॥ १४५ ॥ |
|
3.3.146 |
श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ । पर्जन्यौ रसदब्देन्द्रौ स्यादर्य: स्वामिवैश्ययोः ॥ १४६ ॥ |
|
3.3.147 |
तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे । प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ॥ १४७ ॥ |
|
3.3.148 |
रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः । स्थूलोच्चयस्त्वसाकल्ये गजानां मध्यमे गते ॥ १४८ ॥ |
|
3.3.149 |
समयाः शपथाचारकालसिद्धान्तसंविदः । व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ॥ १४९ ॥ |
|
3.3.150 |
अत्ययोऽतिक्रमे कृच्छे दोषे दण्डेऽप्यथापदि । युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च ॥ १५० ॥ |
|
3.3.151 |
पश्चादवस्थायिबलं समवायश्च संनयौ । संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी ॥ १५१ ॥ |
|
3.3.152 |
विस्रम्भयाच्ञाप्रेमाणो विरोधेऽपि समुच्छ्रयः । विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ १५२ ॥ |
|
3.3.153 |
निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः । प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ क्रुधि ॥ १५३ ॥ |
|
3.3.154 |
रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः । वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये ॥ १५४ ॥ |
|
3.3.155 |
धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाशुभम् । कशेरुहेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च ॥ १५५ ॥ |
|
3.3.156 |
वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः । आरम्भो निष्कृति: शिक्षा पूजनं संप्रधारणम् ॥ १५६ ॥ |
|
3.3.157 |
उपाय: कर्म चेष्टा च चिकित्सा च नव क्रियाः । छायाः सूर्यप्रिया कान्ति: प्रतिबिम्बमनातपः ॥ १५७ ॥ |
|
3.3.158 |
कक्ष्या प्रकोष्ठे हर्यादेः काञ्च्यां मध्येभबन्धने । कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः ॥ १५८ ॥ |
|
3.3.159 |
जन्यं स्याज्जनवादेऽपि जघन्योऽन्तेऽधमेऽपि च । गह्यधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ ॥ १५९ ॥ |
|
3.3.160 |
आत्मवाननपेतोऽर्थादर्थ्यो पुण्यं तु चार्वपि । रूप्यं प्रशस्ते रूपेऽपि वदान्यो वल्गुवागपि ॥ १६० ॥ |
|
3.3.161 |
न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते । निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ ॥ १६१ ॥ |
|
3.3.162 |
गुरू गीर्पतिपित्राद्यौ द्वापरौ युगसंक्षयौ । प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती ॥ १६२ ॥ |
|
3.3.163 |
किंशारु: धान्यशूकेषु मरू धन्वधराधरौ । अद्रयो द्रुमशैलार्का: स्त्रीस्तनाब्दौ पयोधरौ ॥ १६३ ॥ |
|
3.3.164 |
ध्वान्तारिदानवा वृत्राः बलिहस्तांशवः कराः । प्रदरा भङ्गनारीरुग्वाणाः अस्रा: कचा अपि ॥ १६४ ॥ |
|
3.3.165 |
अजातशृङ्गो गौ: कालेऽप्यश्मश्रुर्ना च तूबरौ । स्वर्णेऽपि रा: परिकरः पर्यङ्कपरिवारयोः ॥ १६५ ॥ |
|
3.3.166 |
मुक्ता शुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु । कर्वुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः ॥ १६६ ॥ |
|
3.3.167 |
वेदभेदे गुह्यवादे मन्त्रः मित्रो रवावपि । मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः ॥ १६७ ॥ |
|
3.3.168 |
आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते । अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च ॥ १६८ ॥ |
|
3.3.169 |
स्याज्जंगमे परीवारः खड्गकोशे परिच्छदे । विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् ॥ १६९ ॥ |
|
3.3.170 |
द्वारि द्वा:स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे । विपुले नकुले विष्णौ बभ्रुस्सात् पिङ्गले त्रिषु ॥ १७० ॥ |
|
3.3.171 |
सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु । दुरोदरो द्यूतकारे पणे छूते दुरोदरम् ॥ १७१ ॥ |
|
3.3.172 |
महारण्ये दुर्गपथे कान्तारः पुंनपुंसकम् । मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ १७२ ॥ |
|
3.3.173 |
देवाद्धृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये । वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना ॥ १७३ ॥ |
|
3.3.174 |
ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् । यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ॥ १७४ ॥ |
|
3.3.175 |
शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु । शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ ॥ १७५ ॥ |
|
3.3.176 |
इरा भूवाक्सुराप्सु स्यात्तन्द्री निद्राप्रमीलयोः । धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि ॥ १७६ ॥ |
|
3.3.177 |
क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका । त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रः मात्रा परिच्छदे ॥ १७७ ॥ |
|
3.3.178 |
अल्पे च परिमाणे स्यान्मात्रं कार्त्स्न्येऽवधारणे । आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः ॥ १७८ ॥ |
|
3.3.179 |
योग्यभाजनयोः पात्रं पत्त्रं वाहनपक्षयोः । निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः ॥ १७९ ॥ |
|
3.3.180 |
स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः । मुखाग्रे क्रोडहलयो: पोत्रं गोत्रं तु नाम्नि च ॥ १८० ॥ |
|
3.3.181 |
सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च । अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि ॥ १८१ ॥ |
|
3.3.182 |
चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च । स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रे तु गोपुरम् ॥ १८२ ॥ |
|
3.3.183 |
गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे । पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् ॥ १८३ ॥ |
|
3.3.184 |
मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे । दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ ॥ १८४ ॥ |
|
3.3.185 |
तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे । औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने ॥ १८५ ॥ |
|
3.3.186 |
पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले । व्योम्नि खड्गफले पद्म तीर्थौषधिविशेषयोः ॥ १८६ ॥ |
|
3.3.187 |
अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥ १८७ ॥ |
|
3.3.188 |
मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम् । शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् ॥ १८८ ॥ |
|
3.3.189 |
गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः । जठरः कठिनेऽपि स्यादधस्तादपि चाधरः ॥ १८९ ॥ |
|
3.3.190 |
अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले । उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः ॥ १९० ॥ |
|
3.3.191 |
एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः । स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ ॥ १९१ ॥ |
|
3.3.192 |
उदारो दातृमहतोरितरस्त्वन्यनीचयोः । मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः ॥ १९२ ॥ |
|
3.3.193 |
चूडा किरीटं केशाश्च संयता मौलयस्त्रयः । द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ॥ १९३ ॥ |
|
3.3.194 |
कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः । स्यात्कुरङ्गेऽपि कमल: प्रावारेऽपि च कम्बलः ॥ १९४ ॥ |
|
3.3.195 |
करोपहारयोः पुंसि वलिः प्राण्यङ्गजे स्त्रियाम् । स्थौल्यसामर्थ्यसैन्येषु बलं न काकसीरिणो: ॥ १९५ ॥ |
|
3.3.196 |
वातूलः पुंसि वात्यायामपि वातासहे त्रिषु । भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः ॥ १९६ ॥ |
|
3.3.197 |
मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् । शङ्कावपि द्वयोः कील: पालिः स्त्र्यस्त्र्यङ्कपङ्क्तिषु ॥ १९७ ॥ |
|
3.3.198 |
कला शिल्पे कालभेदेऽप्याली सख्यावली अपि । अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ॥ १९८ ॥ |
|
3.3.199 |
बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु । लीला विलासक्रिययोरुपला शर्करापि च ॥ १९९ ॥ |
|
3.3.200 |
शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः । जालं समूह आनायो गवाक्षक्षारकावपि ॥ २०० ॥ |
|
3.3.201 |
शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् । छदिर्नेत्ररुजो: क्लीबं समूहे पटलं न ना ॥ २०१ ॥ |
|
3.3.202 |
अध:स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् । और्वानलेऽपि पातालं चैलं वस्त्रेऽधमे त्रिषु ॥ २०२ ॥ |
|
3.3.203 |
कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले । निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः ॥ २०३ ॥ |
|
3.3.204 |
पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु । प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च १९७ ॥ २०४ ॥ |
|
3.3.205 |
करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशल: । मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः ॥ २०५ ॥ |
|
3.3.206 |
दवदावौ वनारण्यवह्नी जन्महरौ भवौ । मन्त्री सहायसचिवौ पतिशाखिनरा धवाः ॥ २०६ ॥ |
|
3.3.207 |
अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः । भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥ २०७ ॥ |
|
3.3.208 |
स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने । अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः ॥ २०८ ॥ |
|
3.3.209 |
उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः । अनुभावः प्रभावे च सतां च मतिनिश्चये ॥ २०९ ॥ |
|
3.3.210 |
स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये । शूद्रायां विप्रतनये शस्त्रे पारशवो मतः ॥ २१० ॥ |
|
3.3.211 |
ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु । स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोस्त्रियां धने ॥ २११ ॥ |
|
3.3.212 |
स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च । शिवा गौरीफेरवयोः द्वन्द्वं कलहयुग्मयो: ॥ २१२ ॥ |
|
3.3.213 |
द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु । क्लीबं नपुंसके षण्ढे वाच्यलिङ्गमविक्रमे ॥ २१३ ॥ |
|
3.3.214 |
द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ । द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ ॥ २१४ ॥ |
|
3.3.215 |
रह:प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः । कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ॥ २१५ ॥ |
|
3.3.216 |
पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च । दशावस्थानेकविधाप्याशा तृष्णापि चायता ॥ २१६ ॥ |
|
3.3.217 |
वशा स्त्री करिणी च स्याद् दृग् ज्ञाने ज्ञातरि त्रिषु । स्यात्कर्कशः साहसिक: कठोरामसृणावपि ॥ २१७ ॥ |
|
3.3.218 |
प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः । सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ ॥ २१८ ॥ |
|
3.3.219 |
काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ तु तृणवीरुधौ । अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने ॥ २१९ ॥ |
|
3.3.220 |
पक्षः सहायेऽप्युष्णीषं शिरोवेष्टकिरीटयोः । शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ॥ २२० ॥ |
|
3.3.221 |
कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः । द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ॥ २२१ ॥ |
|
3.3.222 |
ना द्यूताङ्गे कर्षे चक्रे व्यवहारे कलिद्रुमे । कर्षूर्वार्ता करीषाग्नि: कर्षू: कुल्याभिधायिनि ॥ २२२ ॥ |
|
3.3.223 |
पुंभावे तत्क्रियायां च पौरुषं विषमप्सु च । उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् ॥ २२३ ॥ |
|
3.3.224 |
स्यादृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् । प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः ॥ २२४ ॥ |
|
3.3.225 |
त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः । प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे ॥ २२५ ॥ |
|
3.3.226 |
रविश्वेच्छदौ हंसौ सूर्यवह्नी विभावसू । वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः ॥ २२६ ॥ |
|
3.3.227 |
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः । पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे ॥ २२७ ॥ |
|
3.3.228 |
देवभेदेऽनले रश्मौ वसू रत्ने धने वसु । विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाह्रिदंष्ट्रयोः ॥ २२८ ॥ |
|
3.3.229 |
लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च । प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥ २२९ ॥ |
|
3.3.230 |
ज्वालाभासोर्न पुंस्यर्चि: ज्योतिर्भद्योतदृष्टिषु । पापापराधयोराग: खगबाल्यादिनोर्वयः ॥ २३० ॥ |
|
3.3.231 |
तेज:पुरीषयोर्वर्चः महस्तूत्सवतेजसोः । रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः ॥ २३१ ॥ |
|
3.3.232 |
छन्दः पद्येऽभिलाषे च तपः कृच्छादिकर्म च । सहो बलं सहा मार्गः नभ: खं श्रावणो नभाः ॥ २३२ ॥ |
|
3.3.233 |
ओक: सद्माश्रयश्चौकाः पयः क्षीरं पयोऽम्बु च । ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये ॥ २३३ ॥ |
|
3.3.234 |
तेज: प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु । विद्वान् विदंश्च बीभत्सो हिंस्रोऽप्यतिशये त्वमी ॥ २३४ ॥ |
|
3.3.235 |
वृद्धप्रशस्ययोर्ज्यायान् कनीयांस्तु युवाल्पयोः । वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः ॥ २३५ ॥ |
|
3.3.236 |
दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः । द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके ॥ २३६ ॥ |
|
3.3.237 |
तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च । पत्नीपरिजनादानमूलशापाः परिग्रहाः ॥ २३७ ॥ |
|
3.3.238 |
दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः । व्यूहो वृन्देऽप्यहिवृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः ॥ २३८ ॥ |
|
3.3.239 |
परिच्छदे नृपार्हेऽर्थे परिवर्हऽव्ययाः परे । आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ॥ २३९ ॥ |
|
3.3.240 |
आ प्रगृह्य स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयो: । पापकुत्सेषदर्थे कु धिङ्निर्भर्त्सननिन्दयोः ॥ २४० ॥ |
|
3.3.241 |
चान्वाचयसमाहारेतरेतरसमुच्चये । स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ॥ २४१ ॥ |
|
3.3.242 |
स्वित्प्रश्ने च वितर्के च तु स्याद्धेदेऽवधारणे । सकृत् सहैकवारे चाप्याराद्दूरसमीपयो: ॥ २४२ ॥ |
|
3.3.243 |
प्रतीच्यां चरमे पश्चातुताप्यर्थविकल्पयोः । पुनः सहार्थयोः शश्वत् साक्षात् प्रत्यक्षतुल्ययोः॥ २४३ ॥ |
|
3.3.244 |
खेदानुकम्पासंतोषविस्मयामन्त्रणे बत । हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ २४४ ॥ |
|
3.3.245 |
प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः । इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ॥ २४५ ॥ |
|
3.3.246 |
प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि । यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥ २४६ ॥ |
|
3.3.247 |
मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ । वृथा निरर्थकाविध्योः नानानेकोभयार्थयोः ॥ २४७ ॥ |
|
3.3.248 |
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु । प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ॥ २४८ ॥ |
|
3.3.249 |
गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि । उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ २४९ ॥ |
|
3.3.250 |
अमा सह समीपे च कं वारिणि च मूर्धनि । इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ॥ २५० ॥ |
|
3.3.251 |
तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने । नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने ॥ २५१ ॥ |
|
3.3.252 |
अलं भूषणपर्याप्तिशक्तिवारणवाचकम् । हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ॥ २५२ ॥ |
|
3.3.253 |
पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः । स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ॥ २५३ ॥ |
|
3.3.254 |
ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् । स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल ॥ २५४ ॥ |
|
3.3.255 |
निषेधवाक्यालंकारे जिज्ञासानुनये खलु । समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ॥ २५५ ॥ |
|
3.4.1 |
चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः । मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः ॥ १ ॥ |
|
3.4.2 |
स्राग्झटित्यञ्जसाह्नायद्राङ्मक्षुसपदि द्रुते । बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे ॥ २ ॥ |
|
3.4.3 |
पृथग्विनान्तरेणर्ते हिरुङ् नाना च वर्जने । यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन ॥ ३ ॥ |
|
3.4.4 |
कदाचिज्जातु सार्धं तु साकं सत्रा समं सह । आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा ॥ ४ ॥ |
|
3.4.5 |
आहो उताहो किमुत विकल्पे किं किमूत च । तु हि च स्म ह वै पादपूरणे पूजने स्वति ॥ ५ ॥ |
|
3.4.6 |
दिवाह्रीत्यथ दोषा च नक्तं च रजनाविति । तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थका: ॥ ६ ॥ |
|
3.4.7 |
स्युः पाट् प्याडङ्ग हे है भो: समया निकषा हिरुक् । अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रत: ॥ ७ ॥ |
|
3.4.8 |
स्वाहा देवहविर्दाने श्रौषड्वौषड्वषट् स्वधा । किंचिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे ॥ ८ ॥ |
|
3.4.9 |
व वा यथा तथेवैवं साम्येऽहो ही च विस्मये । मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे ॥ ९ ॥ |
|
3.4.10 |
दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा । अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् ॥ १० ॥ |
|
3.4.11 |
युक्ते द्वे साम्प्रतं स्थानेऽभीक्ष्णं शश्वदनारते । अभावे नह्य नो नापि मास्म मालं च वारणे ॥ ११ ॥ |
|
3.4.12 |
पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् । प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ॥ १२ ॥ |
|
3.4.13 |
समन्ततस्तु परितः सर्वतो विष्वगित्यपि । अकामानुमतौ काममसूयोपगमेऽस्तु च ॥ १३ ॥ |
|
3.4.14 |
ननु च स्याद्विरोधोक्तौ कच्चित्कामप्रवेदने । नि:षमं दुःषमं गर्ह्ये यथास्वं तु यथायथम् ॥ १४ ॥ |
|
3.4.15 |
मृषा मिथ्या च वितथे यथार्थं तु यथातथम् । स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः ॥ १५ ॥ |
|
3.4.16 |
प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् । संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ॥ १६ ॥ |
|
3.4.17 |
अल्पे नीचैः महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः । सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने ॥ १७ ॥ |
|
3.4.18 |
अस्ति सत्त्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि । हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ ॥ १८ ॥ |
|
3.4.19 |
पुनरर्थेऽङ्ग निन्दायां दुष्ठ सुष्ठ प्रशंसने । सायं साये प्रगे प्रात: प्रभाते निकषान्तिके ॥ १९ ॥ |
|
3.4.20 |
परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति । अद्यात्राह्नि अथ पूर्वेऽह्रीत्यादौ पूर्वोत्तरापरात् ॥ २० ॥ |
|
3.4.21 |
तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः । उभयद्युश्चोभयेद्युः परे त्वह्नि परेद्यवि ॥ २१ ॥ |
|
3.4.22 |
ह्योऽतीतेऽनागतेऽह्रि श्वः परश्वश्च परेऽहनि । तदा तदानीं युगपदेकदा सर्वदा सदा ॥ २२ ॥ |
|
3.4.23 |
एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा । दिग्देशकाले पूर्वादौ प्रागुदप्रत्यगादयः ॥ २३ ॥ |
|
3.5.1 |
सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासजैः । अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत् ॥ १ ॥ |
|
3.5.2 |
लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यवाधितः । स्त्रियामीदूद्विरामैकाच् सयोनिप्राणिनाम च ॥ २ ॥ |
|
3.5.3 |
नाम विद्युन्निशावल्लीवीणादिग्भूनदीह्रियाम् । अदन्तैर्द्विगुरेकार्थः न स पात्रयुगादिभिः ॥ ३ ॥ |
|
3.5.4 |
तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन् । स्त्रीभावादावनिक्तिण्ण्वुल्णच्ण्वुच्क्यब्युजिञङ्निशा: ॥ ४ ॥ |
|
3.5.5 |
उणादिषु निरूरीश्च ङ्यावूडन्तं चलं स्थिरम् । तत्क्रीडायां प्रहरणं चेन्मौष्टा पाल्लवाणदिक् ॥ ५ ॥ |
|
3.5.6 |
घजो ञः सा क्रियास्यां चेद्दाण्डपाता हि फाल्गुनी । श्यैनंपाता च मृगया तैलंपाता स्वधेति दिक् ॥ ६ ॥ |
|
3.5.7 |
स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षापचये यदि । लङ्का शेफालिका टीका धातकी पञ्जिकाढकी ॥ ७ ॥ |
|
3.5.8 |
सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका । तिन्दुकी कणिका भङ्गि सुरङ्गासूचिमाढयः ॥ ८ ॥ |
|
3.5.9 |
पिच्छावितण्डाकाकिण्यश्चूर्णिः शाणी द्रुणी दरत् । साति: कन्था तथासन्दी नाभी राजसभापि च ॥ ९ ॥ |
|
3.5.10 |
झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला । लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी ॥ १० ॥ |
|
3.5.11 |
पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः । स्वर्गयागाद्रिमेघाब्धिद्रुकालासिशरारयः ॥ ११ ॥ |
|
3.5.12 |
करगण्डोष्ठदोर्दन्तकण्ठकेशनखस्तनाः । अह्नाहान्ता: क्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः ॥ १२ ॥ |
|
3.5.13 |
श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः । कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः ॥ १३ ॥ |
|
3.5.14 |
कषणभमरोपान्ता यद्यदन्ता अमी अथ । पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः ॥ १४ ॥ |
|
3.5.15 |
नाम्न्यकर्तरि भावे च घञजब्नङ्णघाथुचः । ल्युः कर्तरीमनिज्भावे को घो: कि: प्रादितोऽन्यतः ॥ १५ ॥ |
|
3.5.16 |
द्वन्द्वेऽश्ववडवावश्ववडवा, न समाहृते । कान्तः सूर्येन्दुपर्यायपूर्वोऽय:पूर्वकोऽपि च ॥ १६ ॥ |
|
3.5.17 |
वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः । पुङ्खो न्युङ्खः समुद्गश्च विटपट्टधटाः खट: ॥ १७ ॥ |
|
3.5.18 |
कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत् । गडुः करण्डो लगुडो वरण्डश्च किणो घुणः ॥ १८ ॥ |
|
3.5.19 |
दृतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः । कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सपूपकौ ॥ १९ ॥ |
|
3.5.20 |
आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः । पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः ॥ २० ॥ |
|
3.5.21 |
वेतालमल्लभल्लाश्च पुरोडाशोऽपि पट्टिशः । कुल्माषो रभसश्चैव सकटाहः पतद्ग्रहः ॥ २१ ॥ |
|
3.5.22 |
द्विहीनेऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् । शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम् ॥ २२ ॥ |
|
3.5.23 |
फलहेमशुल्वलोहं सुखदुःखशुभाशुभम् । जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् ॥ २३ ॥ |
|
3.5.24 |
कोट्या: शतादिसंख्यान्या वा लक्षा नियुतं च तत् । द्वयच्कमसिसुसन्नन्तं यदनान्तमकर्तरि । २४ ॥ |
|
3.5.25 |
त्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् । पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः ॥ २५ ॥ |
|
3.5.26 |
द्वन्द्वैकत्वाव्ययीभावौ पथ: संख्याव्ययात्परः । षष्ठ्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा ॥ २६ ॥ |
|
3.5.27 |
शालार्थापि परा राजामनुष्यार्थादराजकात् । दासीसभं नृपसभं रक्ष:सभमिमा दिशः ॥ २७ ॥ |
|
3.5.28 |
उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने । कोपज्ञकोपक्रमादि कन्थोशीनरनामसु ॥ २८ ॥ |
|
3.5.29 |
भावे नणकचिद्भ्योऽन्ये समूहे भावकर्मणोः । अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९ ॥ |
|
3.5.30 |
क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके । चोचं पिच्छं गृहस्थूलं तिरीटं मर्मयोजने ॥ ३० ॥ |
|
3.5.31 |
राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः । माणिक्यभाष्यसिन्दूरचीरचीवरपञ्जरम् ॥ लोकायतं हरितालं विदलं स्थालबाह्लिकम् ॥ ३१ ॥ |
|
3.5.32 |
पुंनपुंसकयो: शेषोऽर्धर्चपिण्याककण्टकाः ॥ ३२ ॥ |
|
3.5.33 |
मोदकस्तण्डकष्टङ्कः शाटकः खर्वटोऽर्वुदः । पातकोद्योगचरकतमालामलका नड: ॥ ३३ ॥ |
|
3.5.34 |
कुष्ठं मुण्डं शीघु बुस्तं क्ष्वेडितं क्षेमकुट्टिमम् । संगमं शतमानार्मशम्बलाव्ययताण्डवम् ॥ ३४ ॥ |
|
3.5.35 |
कवियं कन्दकर्पासं पारावारं युगंधरम् । यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ ॥ ३५ ॥ |
|
3.5.36 |
अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् । तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् ॥ ३६ ॥ |
|
3.5.37 |
स्त्रीपुसयोरपत्यान्ता द्विचतुःषट्पदोरगाः । जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः ३७ ॥ |
|
3.5.38 |
मुनिर्वराटकः स्वातिर्वर्णको झाटलिर्मनुः । मूषा सृपाटी कर्कन्धूर्यष्टिः शाटि कटी कुटी ॥ ३८ ॥ |
|
3.5.39 |
स्त्रीनपुंसकयोर्भावक्रिययो: प्यञ् क्वचिच्च वुञ् । औचित्यमौचिती मैत्री मैत्र्यं वुञ् प्रागुदाहृतः ॥ ३९ ॥ |
|
3.5.40 |
षष्ठ्यन्तप्राक्पदाः सेनाच्छायाशालासुरानिशाः । स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक् ॥ ४० ॥ |
|
3.5.41 |
आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् । त्रिखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि ॥ ४१ ॥ |
|
3.5.42 |
त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ । परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ॥ ४२ ॥ |
|
3.5.43 |
अर्थान्ताः प्राद्यलंप्राप्तापन्नपूर्वाः परोपगाः । तद्धितार्थे द्विगुः संख्यासर्वनामतदन्तकाः ॥ ४३ ॥ |
|
3.5.44 |
बहुव्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् । गुणद्रव्यक्रियायोगोपाधयः परगामिनः ॥ ४४ ॥ |
|
3.5.45 |
कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि । अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ ४५ ॥ |
|
3.5.46 |
षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् । परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः ॥ ४६ ॥ |
|
3.5.47 |
इत्यमरसिंहकृतौ नामलिङ्गानुशासने । सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः ॥ ४७ ॥ |
|