अमरकोशः


श्लोकः

पश्चाद्ग्रीवासिरा मन्या नाडी तु धमनि: सिरा । तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम् ॥ ६५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मन्या मन्या स्त्रीलिङ्गः मन्यतेऽनया । क्यप् कृत् आकारान्तः
2 नाडी नाडी स्त्रीलिङ्गः नाडयति । उणादिः ईकारान्तः
3 धमनि धमनिः स्त्रीलिङ्गः ध्वाने धमिः सौत्रः । अनि उणादिः इकारान्तः
4 सिरा सिरा स्त्रीलिङ्गः सिनोति । रक् उणादिः आकारान्तः
5 तिलक तिलकम् नपुंसकलिङ्गः तेलति । कृत् अकारान्तः
6 क्लोम क्लोमम् नपुंसकलिङ्गः क्लवते । मनिन् उणादिः अकारान्तः
7 मस्तिष्क मस्तिष्कम् नपुंसकलिङ्गः मस्यते मसनं वा । क्तिन् स्त्रीप्रत्ययः अकारान्तः
8 गोर्द गोर्दम् नपुंसकलिङ्गः गूर्यते । दन् उणादिः अकारान्तः
9 किट्ट किट्टम् नपुंसकलिङ्गः केटति स्म । क्त कृत् अकारान्तः
10 मल मलः पुंलिङ्गः, नपुंसकलिङ्गः मलते । अच् कृत् अकारान्तः