अमरकोशः


श्लोकः

निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये । सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहते ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निष्ठुर निष्ठुम् नपुंसकलिङ्गः नितिष्ठति । कुरच् उणादिः अकारान्तः
2 परुष परुम् नपुंसकलिङ्गः पिपर्ति पूरयति अलंबुद्धिं करोति । उषच् उणादिः अकारान्तः
3 ग्राम्य ग्राम्यम् नपुंसकलिङ्गः ग्रामे भवम् । यत् तद्धित अकारान्तः
4 अश्लील अश्लीलम् नपुंसकलिङ्गः श्रियं लाति । कः कृत् अकारान्तः
5 सूनृत सूनृतम् नपुंसकलिङ्गः प्रीणाति ।सत्सु साधु । कः कृत् अकारान्तः
6 संकुल संकुलम् नपुंसकलिङ्गः कः कॄदन्तः अकारान्तः
7 क्लिष्ट क्लिष्टम् नपुंसकलिङ्गः क्लिश्यते स्म । क्तः कॄदन्तः अकारान्तः
8 परस्परपराहत परस्परपराहतम् नपुंसकलिङ्गः पराऽघानि । क्तः कॄदन्तः अकारान्तः