अमरकोशः


श्लोकः

संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः । आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संक्रन्दन संक्रन्दनः पुंलिङ्गः संक्रन्दयति । ल्यु कृत् अकारान्तः
2 दुश्च्यवन दुश्च्यवनः पुंलिङ्गः दुःखेन दुष्टं दुष्टेषु वा च्यवनमस्य । बहुव्रीहिः समासः अकारान्तः
3 तुषाराट् तुषाराट् पुंलिङ्गः तुरं वेगवन्तं साहयत्यभिभवति । तत्पुरुषः समासः टकारान्तः
4 मेघवाहन मेघवाहनः पुंलिङ्गः मेघा वाहनमस्य । बहुव्रीहिः समासः अकारान्तः
5 आखण्डल आखण्डलः पुंलिङ्गः आखण्डयति । कलच् उणादिः अकारान्तः
6 सहस्राक्ष सहस्राक्षः पुंलिङ्गः सहस्रमक्षीण्यस्य । बहुव्रीहिः/षच् समासः अकारान्तः
7 ऋभुक्षिन् ऋभुक्षाः पुंलिङ्गः ऋभवः क्षियन्त्यत्र । बहुव्रीहिः समासः नकारान्तः