अमरकोशः


श्लोकः

गरुत्पक्षच्छदाः पत्त्रं पतत्त्रं च तनूरुहम् । स्त्री पक्षतिः पक्षमूलं चञ्स्त्रोटिरुभे स्त्रियौ ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गरुत् गरुत् पुंलिङ्गः गिरति । उति उणादिः तकारान्तः
2 पक्ष पक्षः पुंलिङ्गः पक्षयति । अच् कृत् अकारान्तः
3 छद छदः पुंलिङ्गः, नपुंसकलिङ्गः छाद्यतेऽनेनाङ्गम् । कृत् अकारान्तः
4 पत्र पत्रम् नपुंसकलिङ्गः पतत्यनेन । ष्ट्न् कृत् अकारान्तः
5 पतत्र पतत्रम् नपुंसकलिङ्गः पतन्तं त्रायते । कृत् अकारान्तः
6 तनूरुह तनूरुहम् नपुंसकलिङ्गः तन्वां रोहति । कृत् अकारान्तः
7 पक्षति पक्षतिः स्त्रीलिङ्गः पक्षस्य मूलम् । ति तद्धितः इकारान्तः
8 पक्षमूल पक्षमूलम् नपुंसकलिङ्गः पक्षस्य मूलम् । ति तद्धितः अकारान्तः
9 चञ्चु चञ्चुः स्त्रीलिङ्गः चञ्चति । बाहुलकात् उकारान्तः
10 त्रोटि त्रोटिः स्त्रीलिङ्गः त्रोट्यते । उणादिः इकारान्तः