अमरकोशः


श्लोकः

राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः । चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अधीश्वर अधीश्वरः पुंलिङ्गः अधिक ईश्वरः ॥ बहुव्रीहिः समासः अकारान्तः
2 चक्रवर्तिन् चक्रवर्ती पुंलिङ्गः चक्रे भूमण्डले राजमण्डले वा वर्तितुं शीलमस्य । णिनि कृत् नकारान्तः
3 सार्वभौम सार्वभौमः पुंलिङ्गः सर्वभूमेरीश्वरः । अण् तद्धितः अकारान्तः
4 मण्डलेश्वर मण्डलेश्वरः पुंलिङ्गः मण्डलस्य भूम्येकदेशस्य ईश्वरः । तत्पुरुषः समासः अकारान्तः