अमरकोशः


श्लोकः

वशा वन्ध्याऽवतोका तु स्रवद्गर्भाऽथ सन्धिनी । आक्रान्ता वृषभेणाथ वेहद्गर्भोपघातिनी ॥ ६९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वशा वशा स्त्रीलिङ्गः वष्टि । अच् कृत् आकारान्तः
2 वन्ध्या वन्ध्या स्त्रीलिङ्गः बध्नाति । ण्यत् कृत् आकारान्तः
3 अवतोका अवतोका स्त्रीलिङ्गः अवगलितं तोकमपत्यं यस्याः ॥ बहुव्रीहिः समासः आकारान्तः
4 स्रवद्गर्भा स्रवद्गर्भा स्त्रीलिङ्गः स्रवन् गर्भो यस्याः ॥ बहुव्रीहिः समासः आकारान्तः
5 संधिनी संधिनी स्त्रीलिङ्गः सन्धानम् । इनि तद्धितः ईकारान्तः
6 वेहत् वेहत् स्त्रीलिङ्गः विहन्ति गर्भम् । अति उणादिः तकारान्तः
8 गर्भोपघातिनी गर्भोपघातिनी स्त्रीलिङ्गः गर्भमुपहन्ति । णिनि कृत् ईकारान्तः