अमरकोशः


श्लोकः

कुबेरस्त्र्यम्बकसखो यक्षराड्गुह्यकेश्वरः । मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ ६८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुबेर कुबेरः पुंलिङ्गः कुत्सितं बेरं शरीरमस्य । तत्पुरुषः समासः अकारान्तः
2 त्र्यम्बकसख त्र्यम्बकसखः पुंलिङ्गः त्र्यम्बकस्य सखा । तत्पुरुषः समासः अकारान्तः
3 यक्षराज यक्षराजः पुंलिङ्गः यक्षेषु राजते । तत्पुरुषः समासः अकारान्तः
4 गुह्मकेश्वर गुह्मकेश्वरः पुंलिङ्गः गुह्यं कायति । तत्पुरुषः समासः अकारान्तः
5 मनुष्यधर्मन् मनुष्यधर्मा पुंलिङ्गः मनुष्यस्येव धर्म आचारः श्मश्रुलत्वादिर्वास्य । तत्पुरुषः समासः नकारान्तः
6 धनद धनदः पुंलिङ्गः धनं दयते । तत्पुरुषः समासः अकारान्तः
7 राजराज राजराजः पुंलिङ्गः राज्ञां यक्षाणां राजा । तत्पुरुषः समासः अकारान्तः
8 धनाधिप धनाधिपः पुंलिङ्गः धनानामधिपः । तत्पुरुषः समासः अकारान्तः