अमरकोशः


श्लोकः

प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः । वियामो वियमो यामो यमः संयामसंयमौ ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रवाह प्रवाहः पुंलिङ्गः प्रवहणम् घञ् कृत् अकारान्तः
2 प्रवृत्ति प्रवृत्तिः स्त्रीलिङ्गः प्रवर्तनम् क्तिन् कृत् इकारान्तः
3 प्रवह प्रवहः पुंलिङ्गः प्रकृष्टो वहः निपातनात् अकारान्तः
4 वियाम वियामः पुंलिङ्गः वियमनम् अप् कृत् अकारान्तः
5 वियम वियमः पुंलिङ्गः वियमनम् अप् कृत् अकारान्तः
6 याम यामः पुंलिङ्गः घञ् कृत् अकारान्तः
7 यम यमः पुंलिङ्गः अप् कृत् अकारान्तः
8 संयाम संयामः पुंलिङ्गः घञ् कृत् अकारान्तः
9 संयम संयमः पुंलिङ्गः अप् कृत् अकारान्तः