अमरकोशः


श्लोकः

पू: स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम् । स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पू पूः स्त्रीलिङ्गः पूर्यते । क्विप् कृत् ऊकारान्तः
2 पुरी पुरी स्त्रीलिङ्गः, नपुंसकलिङ्गः पुरति । कृत् ईकारान्तः
3 नगरी नगरी स्त्रीलिङ्गः, नपुंसकलिङ्गः नगाः सन्त्यत्र । तद्धितः ईकारान्तः
4 पत्तन पत्तनम् नपुंसकलिङ्गः पतन्ति जना यत्र । तनन् उणादिः अकारान्तः
5 पुटभेदन पुटभेदनम् नपुंसकलिङ्गः पुटानि पात्राणि भिद्यन्तेऽत्र । समासः अकारान्तः
6 स्थानीय स्थानीयम् नपुंसकलिङ्गः स्थानाय हितम् । तद्धितः अकारान्तः
7 निगम निगमः पुंलिङ्गः नितरां गच्छन्त्यत्र । कृत् अकारान्तः