अमरकोशः


श्लोकः

वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी । विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वियत् वियत् नपुंसकलिङ्गः वि विश्वत एति व्याप्नोति । शतृ कृत् तकारान्तः
2 विष्णुपद विष्णुपदम् नपुंसकलिङ्गः विष्णोः पदम् आस्पदम् स्वरूपं वा । तत्पुरुषः समासः अकारान्तः
3 आकाश आकाशः पुंलिङ्गः,नपुंसकलिङ्गः आ समन्तात् काशन्ते सूर्यादयोऽत्र । समासः अकारान्तः
4 विहायस् विहायः पुंलिङ्गः,नपुंसकलिङ्गः विशेषेण हाययति गमयति विमानादीन् । समासः सकारान्तः