अमरकोशः


श्लोकः

महाकुलकुलीनार्यसभ्यसज्जनसाधवः । ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 महाकुल महाकुलः पुंलिङ्गः महच्च तत् कुलं च । तत्पुरुषः समासः अकारान्तः
2 कुलीन कुलीनः पुंलिङ्गः कुलस्यापत्यम् । तद्धितः अकारान्तः
3 आर्य आर्यः पुंलिङ्गः अर्यते । ण्यत् कृत् अकारान्तः
4 सभ्य सभ्यः पुंलिङ्गः सभायां साधुः । तद्धितः अकारान्तः
5 सज्जन सज्जनः पुंलिङ्गः संश्चासौ जनश्च । तत्पुरुषः समासः अकारान्तः
6 साधु साधुः पुंलिङ्गः साध्नोति धर्मम् । उण् उणादिः उकारान्तः
7 ब्रह्मचारिन् ब्रह्मचारिन् पुंलिङ्गः ब्रह्म वेदः । णिनि कृत् नकारान्तः
8 गृहिन् गृहिन् पुंलिङ्गः गृहा दाराः सन्त्यस्य । इनि तद्धितः नकारान्तः
9 वानप्रस्थ वानप्रस्थः पुंलिङ्गः वनमेव प्रस्थो, वनस्य वा प्रस्थः प्रदेशः वनप्रस्थे भवः । अण् तद्धितः अकारान्तः
10 भिक्षु भिक्षुः पुंलिङ्गः भिक्षणशीलः । कृत् उकारान्तः