अमरकोशः


श्लोकः

समन्वितलयस्त्वेकताल: वीणा तु वल्लकी । विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 एकताल एकतालः पुंलिङ्गः एकः समस्तालो मानमस्येत्येकतालः समासः अकारान्तः
2 वीणा वीणा स्त्रीलिङ्गः वेति जायते स्वरोऽस्याम् । उणादिः आकारान्तः
3 वल्लकी वल्लकी स्त्रीलिङ्गः वल्लते । क्वुन् उणादिः ईकारान्तः
4 विपञ्ची विपञ्ची स्त्रीलिङ्गः विपञ्चयति विस्तारयति शब्दम् । अच् कृत् ईकारान्तः
5 परिवादिनी परिवादिनी स्त्रीलिङ्गः सैव सप्तभिस्तन्त्रीभिरुपलक्षिता परिवदति स्वरान् । णिनिः कृत् ईकारान्तः