अमरकोशः


श्लोकः

तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुंमुखे । आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तनूरुह तनूरुहः पुंलिङ्गः, नपुंसकलिङ्गः तन्वां रोहति । कृत् अकारान्तः
2 रोमन् रोम नपुंसकलिङ्गः रोहति निपातनात् नकारान्तः
3 लोमन् लोम नपुंसकलिङ्गः निपातनात् नकारान्तः
4 श्मश्रु श्मश्रुम् नपुंसकलिङ्गः श्म मुखं श्रयति । डु कृत् उकारान्तः
5 आकल्प आकल्पः पुंलिङ्गः आकल्पनम् । घञ् कृत् अकारान्तः
6 वेष वेषः पुंलिङ्गः वेषणम्, विष्यते, वा । घञ् कृत् अकारान्तः
7 नेपथ्य नेपथ्यम् नपुंसकलिङ्गः निनो नेत्रस्य, नेर्नेतुर्वा पथ्यम् । विच् कृत् अकारान्तः
8 प्रतिकर्मन् प्रतिकर्म नपुंसकलिङ्गः प्रत्यङ्गं प्रतिख्यातं वा कर्म । तत्पुरुषः समासः नकारान्तः
9 प्रसाधन प्रसाधनम् नपुंसकलिङ्गः प्रसाध्यतेऽनेनाङ्गम् । ल्युट् कृत् अकारान्तः