अमरकोशः


श्लोकः

क्रोधनोऽमर्षण: कोपी चण्डस्त्वत्यन्तकोपनः । जागरूको जागरिता घूर्णितः प्रचलायित: ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्रोधन क्रोधनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्रोधनशीलः युच् कृत् अकारान्तः
2 अमर्षण अमर्षणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न मर्षशीलः । युच् कृत् अकारान्तः
3 कोपिन् कोपिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवश्यं कुप्यति । णिनि कृत् नकारान्तः
4 चण्ड चण्डः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चण्डते । अच् कृत् अकारान्तः
5 अत्यन्तकोपन अत्यन्तकोपनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अत्यन्तं कुप्यति । युच् कृत् अकारान्तः
6 जागरूक जागरूकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जागरणशीलः । ऊक कृत् अकारान्तः
7 जागरितृ जागरितृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जागरणशीलः । तृन् कृत् ऋकारान्तः
8 घूर्णित घूर्णितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः घूर्णत स्म । क्तः कृत् अकारान्तः
9 प्रचलायित प्रचलायितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रचल इवाचरति । क्यड् कृत् अकारान्तः