अमरकोशः


श्लोकः

चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः । अनुप्लव: सहायश्चानुचरोऽभिसरः समाः ॥ ७१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चर्मिन् चर्मी पुंलिङ्गः चर्मास्यास्ति । इनि तद्धितः नकारान्तः
2 फलकपाणि फलकपाणिः पुंलिङ्गः फलकं पाणावस्य ॥ बहुव्रीहिः समासः इकारान्तः
3 पताकिन् पताकिन् पुंलिङ्गः पताकास्यास्ति । इनि तद्धितः नकारान्तः
4 वैजयन्तिक वैजयन्तिकः पुंलिङ्गः वैजयन्त्यस्यास्ति । ठन् तद्धितः अकारान्तः
5 अनुप्लव अनुप्लवः पुंलिङ्गः अनु पश्चात् प्लवते । अच् कृत् अकारान्तः
6 सहाय सहायः पुंलिङ्गः सह अयते । अच् कृत् अकारान्तः
7 अनुचर अनुचरः पुंलिङ्गः अनु चरति । कृत् अकारान्तः
8 अभिसर अभिसरः पुंलिङ्गः अभितः सरति । अच् कृत् अकारान्तः