अमरकोशः


श्लोकः

पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने । आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मेधि मेधिः पुंलिङ्गः मेध्यन्ते पशवोऽत्र इन् उणादिः इकारान्तः
2 आशु आशुः पुंलिङ्गः अश्नुते । उण् उणादिः उकारान्तः
3 व्रीहि व्रीहिः पुंलिङ्गः वर्हत्युपचयं गच्छति । इन् उणादिः इकारान्तः
4 पाटल पाटलः पुंलिङ्गः पाटं लाति । कृत् अकारान्तः
5 सितशूक सितशूकः पुंलिङ्गः सितं शूकं यस्य, इति मध्यतालव्यः । बहुव्रीहिः समासः अकारान्तः
6 यव यवः पुंलिङ्गः यौति । अच् कृत् अकारान्तः