अमरकोशः


श्लोकः

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् । राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मूर्धाभिषिक्त मूर्धाभिषिक्तः पुंलिङ्गः मूर्धन्यभिषिक्तः । तत्पुरुषः समासः अकारान्तः
2 राजन्य राजन्यः पुंलिङ्गः राज्ञोऽपत्यम् । यत् तद्धितः अकारान्तः
3 बाहुज बाहुजः पुंलिङ्गः बाहभ्यां जातः कृत् अकारान्तः
4 क्षत्रिय क्षत्रियः पुंलिङ्गः क्षद संवरणे सौत्रः । ष्ट्रन् उणादिः अकारान्तः
5 विराज् विराज् पुंलिङ्गः विशेषेण राजति । क्विप् कृत् जकारान्तः
6 राजन् राजन् पुंलिङ्गः राजति । कनिन् उणादिः नकारान्तः
7 राज् राज् पुंलिङ्गः क्विप् कृत् जकारान्तः
8 पार्थिव पार्थिवः पुंलिङ्गः अञ् तद्धितः अकारान्तः
9 क्ष्माभृत् क्ष्माभृत् पुंलिङ्गः क्ष्मां बिभर्ति । क्विप् कृत् तकारान्तः
10 नृप नृपः पुंलिङ्गः कृत् अकारान्तः
11 भूप भूपः पुंलिङ्गः भुवं पाति ॥ कृत् अकारान्तः
12 महीक्षित् महीक्षित् पुंलिङ्गः महीं क्षियति । क्विप् कृत् तकारान्तः