अमरकोशः


श्लोकः

तिमिंगिलादयश्चाथ यादांसि जलजन्तवः । तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तिमिङ्गिल तिमिङ्गिलः पुंलिङ्गः तिमिं गिरति । कः कृत् अकारान्तः
2 यादस् यादांसि नपुंसकलिङ्गः यान्ति वेगेन । असुन् उणादिः सकारान्तः
3 जलजन्तु जलजन्तवः पुंलिङ्गः जलानां जन्तवः । तत्पुरुषः समासः समासः उकारान्तः
4 शिशुमार शिशुमारः पुंलिङ्गः शिशून् मारयति । णिच् कृत् अकारान्तः
5 उद्र उद्रः पुंलिङ्गः उनत्ति । रक् उणादिः अकारान्तः
6 शङ्कु शङ्कुः पुंलिङ्गः शङ्कतेऽस्मात् । कु उणादिः उकारान्तः
7 मकर मकरः पुंलिङ्गः मनुष्याणां करः । अच् कृत् अकारान्तः