अमरकोशः


श्लोकः

काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः । ध्वाङ्क्षात्मघोषपरभृद्वलिभुग्वायसा अपि ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काक काकः पुंलिङ्गः कायति । कन् उणादिः अकारान्तः
2 करट करटः पुंलिङ्गः करोति शकुनम् । अटन् उणादिः अकारान्तः
3 अरिष्ट अरिष्टः पुंलिङ्गः न रिष्टमस्य । तत्पुरुषः समासः अकारान्तः
4 बलिपुष्ट बलिपुष्टः पुंलिङ्गः बलिना पुष्टः ॥ तत्पुरुषः समासः अकारान्तः
5 सकृत्प्रज सकृत्प्रजः पुंलिङ्गः सकृत् प्रजा यस्य ॥ बहुव्रीहिः समासः अकारान्तः
6 ध्वाङ्क्ष ध्वाङ्क्षः पुंलिङ्गः ध्वाङ्क्षति । अच् कृत् अकारान्तः
7 आत्मघोष आत्मघोषः पुंलिङ्गः आत्मानं घोषयति । अण् कृत् अकारान्तः
8 परभृत् परभृत् पुंलिङ्गः परं बिभर्ति । क्विप् कृत् तकारान्तः
9 बलिभुज् बलिभुक् पुंलिङ्गः बलिं भुङ्क्ते । क्विप् कृत् जकारान्तः
10 वायस वायसः पुंलिङ्गः वयते । असच् उणादिः अकारान्तः