अमरकोशः


श्लोकः

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि नि:शेषम् । समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥ ६५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विश्व विश्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विशति क्वुन् उणादिः अकारान्तः
2 अशेश अशेशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न शोषोऽस्य बहुव्रीहिः समासः अकारान्तः
3 कृत्स्न कृत्स्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृत्यते क्स्न उणादिः अकारान्तः
4 समस्त समस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समस्यते स्म क्त कृत् अकारान्तः
5 निखिल निखिलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निवृत्तं खिलमस्य बहुव्रीहिः समासः अकारान्तः
6 अखिल अखिलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न खिलमस्य बहुव्रीहिः समासः अकारान्तः
7 नि:शेष नि:शेषः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निष्क्रान्तं शेषात् तत्पुरुषः समासः अकारान्तः
8 समग्र समग्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सङ्गतमग्रमस्य कृत् अकारान्तः
9 सकल सकलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सह कलाभिः तत्पुरुषः समासः अकारान्तः
10 पूर्ण पूर्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पूर्यते स्म क्त कृत् अकारान्तः
11 अखण्ड अखण्डः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न खण्ड्यते घञ् कृत् अकारान्तः
12 अनूनक अनूनकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न ऊनम् कन् तद्धितः अकारान्तः