अमरकोशः


श्लोकः

देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः । वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 देवकीनन्दन देवकीनन्दनः पुंलिङ्गः देवक्या नन्दनः । तत्पुरुषः समासः अकारान्तः
2 शौरि शौरिः पुंलिङ्गः शूरस्यापत्यम्, तद्वंशजत्वात् । इञ् तद्धितः इकारान्तः
3 श्रीपति श्रीपतिः पुंलिङ्गः श्रियः पतिः । तत्पुरुषः समासः इकारान्तः
4 पुरुषोत्तम पुरुषोत्तमः पुंलिङ्गः पुरुषेषूत्तमः, पुरुषाणां पुरुषेभ्यो वोत्तमः । तत्पुरुषः समासः अकारान्तः
5 वनमालिन् वनमाली पुंलिङ्गः 'आपादपद्म या माला वनमालेति सा मता' इति कलिङ्गः । सास्यास्ति । इनि तद्धितः नकारान्तः
6 बलिध्वंसिन् बलिध्वंसी पुंलिङ्गः बलिमसुरं ध्वंसितुं शीलमस्य । बहुव्रीहिः समासः नकारान्तः
7 कंसाराति कंसारातिः पुंलिङ्गः कंसस्यारातिः । तत्पुरुषः समासः इकारान्तः
8 अधोक्षज अधोक्षजः पुंलिङ्गः अधः कृतम् अक्षजमैन्द्रियकं ज्ञानं येन । बहुव्रीहिः समासः अकारान्तः