अमरकोशः


श्लोकः

रीढावमाननावज्ञावहेलनमसूर्क्षणम् । मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यत: ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रीढा रीढा स्त्रीलिङ्गः रेहणम् । क्तः उणादिः आकारान्तः
2 अवमानना अवमानना स्त्रीलिङ्गः अवमाननम् । युच् कृत् आकारान्तः
3 अवज्ञा अवज्ञा स्त्रीलिङ्गः अङ् कृत् आकारान्तः
4 अवहिलन अवहेलनम् नपुंसकलिङ्गः घञ् कृत् अकारान्तः
5 असूर्क्षण असूर्क्षणम् नपुंसकलिङ्गः नञ् समासः समासः अकारान्तः
6 मन्दाक्ष मन्दाक्षम् नपुंसकलिङ्गः मन्दमक्षं वागाद्यत्र ॥ अकारान्तः
7 ह्री ह्रीः स्त्रीलिङ्गः क्विप् कृत् ईकारान्तः
8 त्रपा त्रपा स्त्रीलिङ्गः अङ् आकारान्तः
9 व्रीडा व्रीडा स्त्रीलिङ्गः अप् कृत् आकारान्तः
10 लज्जा लज्जा स्त्रीलिङ्गः लज्जनम् । अप् कृत् आकारान्तः
11 अपत्रपा अपत्रपा स्त्रीलिङ्गः सा लज्जा अन्यतश्चेत् सापत्रपा अयं ह्रीमात्रेऽपि । आकारान्तः