अमरकोशः


श्लोकः

सनत्कुमारो वैधात्र: स्वर्वैद्यावश्विनीसुतौ । नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सनत्कुमार सनत्कुमारः पुंलिङ्गः सनत् नित्यं कुमारः । तत्पुरुषः समासः अकारान्तः
2 वैधात्र वैधात्रः पुंलिङ्गः विधातुरपत्यम् । अण् तद्धितः अकारान्तः
3 स्वर्वैद्य स्वर्वैद्या पुंलिङ्गः स्वः स्वर्गस्य वैद्यौ । तत्पुरुषः समासः अकारान्तः
4 अश्विनीसुत अश्विनीसुतौ पुंलिङ्गः अश्विन्याः सुतौ । तत्पुरुषः समासः अकारान्तः
5 नासत्य नासत्यौ पुंलिङ्गः न सत्यं ययोस्तावसत्यौ, न असत्यौ । तत्पुरुषः समासः अकारान्तः
6 अश्विन् अश्विनौ पुंलिङ्गः प्रशस्ता अश्वाः सन्ति ययोः । बहुव्रीहिः समासः नकारान्तः
7 दस्र दस्रौ पुंलिङ्गः दस्यतः क्षिपतो रोगान् । रक् उणादिः अकारान्तः
8 आश्विनेय आश्विनेयौ पुंलिङ्गः अश्विन्या अपत्ये । ढक् स्त्रीप्रत्ययः अकारान्तः