अमरकोशः


श्लोकः

तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः । तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तुवर तुवरः पुंलिङ्गः, नपुंसकलिङ्गः तवीति हिनस्ति रोगान् । ष्वरच् उणादिः अकारान्तः
2 कषाय कषायः पुंलिङ्गः, नपुंसकलिङ्गः कषति कण्ठम् । अकारान्तः
3 मधुर मधुरः पुंलिङ्गः मधु माधुर्यमस्यास्ति । रः तद्धितः अकारान्तः
4 लवण लवणः पुंलिङ्गः लुनाति जाड्यम् । ल्यु कृत् अकारान्तः
5 कटु कटुः पुंलिङ्गः कटत्यावृणोति तीक्ष्णतया मुखम् । उः उणादिः उकारान्तः
6 तिक्त तिक्तः पुंलिङ्गः तेजयति स्म । क्तः कृत् अकारान्तः
7 अम्ब्ल अम्ब्लः पुंलिङ्गः अम्ब्यते शब्द्यते भोक्तृभिः । क्लः उणादिः अकारान्तः