अमरकोशः


श्लोकः

उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः । रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उदासीन उदासीनः पुंलिङ्गः उदास्ते । शानच् कृत् अकारान्तः
2 पार्ष्णिग्राह पार्ष्णिग्राहः पुंलिङ्गः पार्ष्णिं पश्चात्पदं गृह्णाति । अण् कृत् अकारान्तः
3 रिपु रिपुः पुंलिङ्गः रपति दोषम् । कु उणादिः उकारान्तः
4 वैरिन् वैरिन् पुंलिङ्गः वीरस्य कर्म भावो वा । अण् तद्धितः नकारान्तः
5 सपत्न सपत्नः पुंलिङ्गः सपत्नीव । निपातनात् अकारान्तः
6 अरि अरिः पुंलिङ्गः इयर्ति विरोधम् । उणादिः इकारान्तः
7 द्विषत् द्विषत् पुंलिङ्गः शतृ कृत् तकारान्तः
8 द्वेषण द्वेषणः पुंलिङ्गः द्वेषशीलः । युच् कृत् अकारान्तः
9 दुर्हृद् दुर्हृद् पुंलिङ्गः दुष्टं हृदयमस्य । तत्पुरुषः समासः दकारान्तः