अमरकोशः


श्लोकः

सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः । भास्कराहस्करब्रध्नप्रभाकरविभाकरा: ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सूर सूरः पुंलिङ्गः सुवति प्रेरयति कर्मणि लोकम् । क्रन् उणादिः अकारान्तः
2 सूर्य सूर्यः पुंलिङ्गः सरति । क्यप् कृत् अकारान्तः
3 अर्यमन् अर्यमा पुंलिङ्गः इयर्ति । कनिन् उणादिः नकारान्तः
4 आदित्य आदित्यः पुंलिङ्गः अदितेरपत्यम् । ण्य तद्धितः अकारान्तः
5 द्वादशात्मन् द्वादशात्मन् पुंलिङ्गः द्वादश आत्मानो मूर्तयो यस्य । बहुव्रीहिः समासः नकारान्तः
6 दिवाकर दिवाकरः पुंलिङ्गः दिवा दिनं करोति । तत्पुरुषः समासः अकारान्तः
7 भास्कर भास्करः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
8 अहस्कर अहस्करः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
9 ब्रध्न बध्नः पुंलिङ्गः तिमिरं बध्नाति । नक् उणादिः अकारान्तः
7 प्रभाकर प्रभाकरः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
8 विभाकर विभाकरः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः