अमरकोशः


श्लोकः

समज्या परिषद्गोष्ठी सभासमितिसंसदः । आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समज्या समज्या स्त्रीलिङ्गः समजन्त्यस्याम् । क्यप् कृत् आकारान्तः
2 परिषद् परिषद् स्त्रीलिङ्गः परितः सीदन्त्यस्याम् । क्विप् कृत् दकारान्तः
3 गोष्ठी गोष्ठी स्त्रीलिङ्गः गावोऽनेका वाचस्तिष्ठन्त्यस्याम् । कृत् ईकारान्तः
4 सभा सभा स्त्रीलिङ्गः सह भान्त्यस्याम् । अङ् कृत् आकारान्तः
5 समिति समितिः स्त्रीलिङ्गः समयन्त्यस्याम् । क्तिन् स्त्रीप्रत्ययः इकारान्तः
6 संसद् संसद् स्त्रीलिङ्गः संसीदन्त्यस्याम् । क्विप् कृत् दकारान्तः
7 आस्थानी आस्थानी स्त्रीलिङ्गः आतिष्ठन्त्यस्याम् । ल्युट् कृत् ईकारान्तः
8 आस्थान आस्थानम् नपुंसकलिङ्गः आतिष्ठन्त्यस्याम् । ल्युट् कृत् अकारान्तः
9 सदस् सदस् स्त्रीलिङ्गः, नपुंसकलिङ्गः सीदन्त्यस्याम् । असुन् उणादिः सकारान्तः