अमरकोशः


श्लोकः

प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् । एकतानोऽनन्यवृत्तिरेकाग्रेकायनावपि ॥ ७९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रत्यक्ष प्रत्यक्षः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अक्षमिन्द्रियं प्रतिगतम् तत्पुरुषः समासः अकारान्तः
2 ऐन्द्रियक ऐन्द्रियकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इन्द्रियेणानुभूयते वुञ् तद्धितः अकारान्तः
3 अप्रत्यक्ष अप्रत्यक्षः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भिन्नं प्रत्यक्षात् तत्पुरुषः समासः अकारान्तः
4 अतीन्द्रिय अतीन्द्रियः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इन्द्रियमतिक्रान्तम् तत्पुरुषः समासः अकारान्तः
5 एकतान एकतानः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एकं तानयति अण् कृत् अकारान्तः
6 अनन्यवृत्ति अनन्यवृत्तिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न अन्या वृत्तिरस्य बहुव्रीहिः समासः इकारान्तः
7 एकाग्र एकाग्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एकम् एकस्मिन् वा अग्रमस्य बहुव्रीहिः समासः अकारान्तः
8 एकायन एकायनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एकमयनमस्य बहुव्रीहिः समासः अकारान्तः