अमरकोशः


श्लोकः

उद्वासनप्रमथनक्रथनोज्जासनानि च । आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उद्वासन उद्वासनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 प्रमथन प्रमथनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 क्रथन क्रथनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 उज्जासन उज्जासनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 आलम्भ आलम्भः पुंलिङ्गः आलम्भनम् । घञ् कृत् अकारान्तः
6 पिञ्ज पिञ्जः पुंलिङ्गः पिञ्जनम् । अच् कृत् अकारान्तः
7 विशर विशरः पुंलिङ्गः विशरणम् । अप् कृत् अकारान्तः
8 घात घातः पुंलिङ्गः हननम् । घञ् कृत् अकारान्तः
9 उन्माथ उन्माथः पुंलिङ्गः उन्मथनम् । घञ् कृत् अकारान्तः
10 वध वधः पुंलिङ्गः हननम् । अप् कृत् अकारान्तः