अमरकोशः


श्लोकः

अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः । ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अन्धकार अन्धकारः पुंलिङ्गः, नपुंसकलिङ्गः घञ् कृत् अकारान्तः
2 ध्वान्त ध्वान्तम् नपुंसकलिङ्गः ध्वन्यते । क्तः अकारान्तः
3 तमिस्र तमिस्रम् नपुंसकलिङ्गः तमोऽस्त्यत्र । अच् तद्धितः अकारान्तः
4 तिमिर तिमिरम् नपुंसकलिङ्गः तिम्यति । किरच् बाहुलकाद् अकारान्तः
5 तमस् तमः नपुंसकलिङ्गः ताम्यत्यनेन । असुन् उणादिः सकारान्तः
6 अन्धतमस अन्धतमसम् नपुंसकलिङ्गः अन्धयति । अन्धं च तत्तमश्च । अच् अकारान्तः
7 अवतमस अवतमसम् नपुंसकलिङ्गः अव हीनं तमः अच् अकारान्तः