अमरकोशः


श्लोकः

मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि । यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ॥ ९१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मण्डूकपर्णी मण्डूकपर्णी स्त्रीलिङ्गः मण्डूकवत् पर्णमस्याः । बहुव्रीहिः समासः ईकारान्तः
2 भण्डीरी भण्डीरी स्त्रीलिङ्गः भण्डति । ईरन् बाहुलकात् ईकारान्तः
3 भण्डी भण्डी स्त्रीलिङ्गः अच् कृत् ईकारान्तः
4 योजनवल्ली योजनवल्ली स्त्रीलिङ्गः योजनगामिनी वल्ली ॥ तत्पुरुषः समासः ईकारान्तः
5 यास यासः पुंलिङ्गः यसनम् । घञ् कृत् अकारान्तः
6 यवास यवासः पुंलिङ्गः आस उणादिः अकारान्तः
7 दुःस्पर्श दुःस्पर्शः पुंलिङ्गः दुःखेन स्पृश्यते । घञ् कृत् अकारान्तः
8 धन्वयास धन्वयासः पुंलिङ्गः धन्वनो यासः । तत्पुरुषः समासः अकारान्तः
9 कुनाशक कुनाशकः पुंलिङ्गः कुं नाशयति । कन् तद्धितः अकारान्तः