अमरकोशः


श्लोकः

कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः । मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कपि कपिः पुंलिङ्गः कम्पते इन् उणादिः इकारान्तः
2 प्लवङ्ग प्लवङ्गः पुंलिङ्गः प्लवेन गच्छति । अप् कृत् अकारान्तः
3 प्लवग प्लवगः पुंलिङ्गः प्लवेन गच्छति । कृत् अकारान्तः
4 शाखामृग शाखामृगः पुंलिङ्गः शाखाचारी मृगः पशुः । तत्पुरुषः समासः अकारान्तः
5 वलीमुख वलीमुखः पुंलिङ्गः वलीयुक्तं मुखमस्य । बहुव्रीहिः समासः अकारान्तः
6 मर्कट मर्कटः पुंलिङ्गः मर्कति । अटन् उणादिः अकारान्तः
7 वानर वानरः पुंलिङ्गः वने भवं फलादि । अण् तद्धितः अकारान्तः
8 कीश कीशः पुंलिङ्गः ‘की' इति शब्दमीष्टे । कृत् अकारान्तः
9 वनौकस् वनौकाः पुंलिङ्गः वनमोकोऽस्य ॥ बहुव्रीहिः समासः सकारान्तः
10 भल्लुक भल्लुकः पुंलिङ्गः भल्लते । बाहुलकात् अकारान्तः