पितामहः पितृपिता तत्पिता प्रपितामहः । मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः ॥ ३३ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | पितामह | पितामहः | पुंलिङ्गः | पितृपिता = पितुः पिता ॥ | डामहच् | तद्धितः | अकारान्तः |
2 | पितृपितृ | पितृपिता | पुंलिङ्गः | पितृपिता = पितुः पिता ॥ | तत्पुरुषः | समासः | ऋकारान्तः |
3 | प्रपितामह | प्रपितामहः | पुंलिङ्गः | तस्य पितामहस्य पिता । | तत्पुरुषः | समासः | अकारान्तः |
4 | मातामह | मातामहः | पुंलिङ्गः | मातुः पिता । | तत्पुरुषः | समासः | अकारान्तः |
5 | प्रमातामह | प्रमातामहः | पुंलिङ्गः | प्रकृष्टो मातामहः | तत्पुरुषः | समासः | अकारान्तः |
6 | सपिण्ड | सपिण्डः | पुंलिङ्गः | समानः पिण्डो देहो मूलपुरुषो निर्वाप्यो वास्य । | बहुव्रीहिः | समासः | अकारान्तः |
7 | सनाभि | सनाभिः | पुंलिङ्गः | समानो नाभिर्मूलपुरुषोऽस्य । | बहुव्रीहिः | समासः | इकारान्तः |