अमरकोशः


श्लोकः

स तु सर्वधुरीणो यो भवेत्सर्वधुरावहः । माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी ॥ ६६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सर्वधुरीण सर्वधुरीणः पुंलिङ्गः सर्वा चासौ धूश्च । तत्पुरुषः समासः अकारान्तः
2 सर्वधुरावह सर्वधुरावहः पुंलिङ्गः सर्वधुराया वहः ॥ तत्पुरुषः समासः अकारान्तः
3 माहेयी माहेयी स्त्रीलिङ्गः मह्या अपत्यं स्त्री ढक् तद्धितः ईकारान्तः
4 सौरभेयी सौरभेयी स्त्रीलिङ्गः सुरभ्या अपत्यम् ॥ ढक् तद्धितः ईकारान्तः
5 गो गो स्त्रीलिङ्गः डो उणादिः ओकारान्तः
6 उस्त्रा उस्त्रा स्त्रीलिङ्गः वसति क्षीरमस्याम् । रक् उणादिः आकारान्तः
7 मातृ मातृः स्त्रीलिङ्गः मान्यते । तृन् उणादिः ऋकारान्तः
8 शृङ्गिणी शृङ्गिणी स्त्रीलिङ्गः शृङ्गमस्त्यस्याः । इनि तद्धितः ईकारान्तः