अमरकोशः


श्लोकः

पुच्छोऽस्त्री लूमलाङ्गूले बालहस्तश्च बालधिः । त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥ ५० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुच्छ पुच्छः पुंलिङ्गः, नपुंसकलिङ्गः पुच्छति । अच् कृत् अकारान्तः
2 लूम लूमम् नपुंसकलिङ्गः लूयते । मक् बाहुलकात् अकारान्तः
3 लाङ्गूल लाङ्गूलम् नपुंसकलिङ्गः लङ्गति । अण् तद्धितः अकारान्तः
4 बालहस्त बालहस्तः पुंलिङ्गः बालो हस्त इव । तत्पुरुषः समासः अकारान्तः
5 बालधि बालधिः पुंलिङ्गः बाला धीयन्तेऽत्र । कि कृत् इकारान्तः
6 उपावृत्त उपावृत्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उपावर्तते स्म । क्त कृत् अकारान्तः
7 लुठित लुठितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लुठति स्म । क्त कृत् अकारान्तः