अमरकोशः


श्लोकः

अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः । तुन्दिलस्तुन्दिकस्तुन्दी बृहत्कुक्षि: पिचिण्डिलः ॥ ४४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अमांस अमांसः पुंलिङ्गः न अल्पं मांसमस्य अल्पार्थं नञ् ॥ तत्पुरुषः समासः अकारान्तः
2 दुर्बल दुर्बलः पुंलिङ्गः दुष्टं बलमस्य ॥ बहुव्रीहिः समासः अकारान्तः
3 छात छातः पुंलिङ्गः छयति स्म । क्त कृत् अकारान्तः
4 बलवत् बलवत् पुंलिङ्गः बलमस्यास्ति । मतुप् तद्धितः तकारान्तः
5 मांसल मांसलः पुंलिङ्गः मांसमस्त्यस्य । लच् तद्धितः अकारान्तः
6 अंसल अंसलः पुंलिङ्गः अंसोऽस्यास्ति । लच् तद्धितः अकारान्तः
7 तुन्दिल तुन्दिलः पुंलिङ्गः अतिशयितं तुन्दमुदरमस्य । इलच् तद्धितः अकारान्तः
8 तुन्दिक तुन्दिकः पुंलिङ्गः अतिशयितं तुन्दमुदरमस्य । ठन् तद्धितः अकारान्तः
9 तुन्दिन् तुन्दी पुंलिङ्गः अतिशयितं तुन्दमुदरमस्य । इनि तद्धितः नकारान्तः
10 बृहत्कुक्षि बृहत्कुक्षि पुंलिङ्गः बृहन् कुक्षिरस्य ॥ बहुव्रीहिः समासः इकारान्तः
11 पिचिण्डिल पिचिण्डिलः पुंलिङ्गः अतिशयितं पिचिण्डमुदरमस्य । इलच् तद्धितः अकारान्तः