अमरकोशः


श्लोकः

कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः । बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् ॥ ६३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कञ्चुक कञ्चुकः पुंलिङ्गः कञ्च्यते । ऊक बाहुलकात् अकारान्तः
2 वारबाण वारबाणः पुंलिङ्गः, नपुंसकलिङ्गः बाणं वारयति, वृणोति वा । अण् कृत् अकारान्तः
3 सारसन सारसनम् नपुंसकलिङ्गः सारं सनोति । अच् कृत् अकारान्तः
4 अधिकाङ्ग अधिकाङ्गम् नपुंसकलिङ्गः अधिकमङ्गात् । तत्पुरुषः समासः अकारान्तः
5 शीर्षक शीर्षकम् नपुंसकलिङ्गः शर्षस्य प्रतिकृतिः । कन् तद्धितः अकारान्तः