अमरकोशः


श्लोकः

पक्षभागः पार्श्वभागो दन्तभागस्तु योऽग्रतः । द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात् ॥ ४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पक्षभाग पक्षभागः पुंलिङ्गः पक्षयत्यनेन । कृत् अकारान्तः
2 पार्श्वभाग पार्श्वभागः पुंलिङ्गः पार्श्वस्य पार्श्वमेव वा भागः ॥ तत्पुरुषः समासः अकारान्तः
3 दन्तभाग दन्तभागः पुंलिङ्गः दन्तस्य भागः । तत्पुरुषः समासः अकारान्तः
4 गात्र गात्रम् नपुंसकलिङ्गः गातेऽनेन । ष्ट्रन् उणादिः अकारान्तः
5 अवर अवरम् नपुंसकलिङ्गः अव राति । कृत् अकारान्तः