अमरकोशः


श्लोकः

स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये । पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्यय: ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 व्यत्यास व्यत्यासः पुंलिङ्गः व्यत्यसनम् घञ् कृत् अकारान्तः
2 विपर्यास विपर्यासः पुंलिङ्गः विपर्यसनम् घञ् कृत् अकारान्तः
3 व्यत्यय व्यत्ययः पुंलिङ्गः व्यत्ययनम् अच् कृत् अकारान्तः
4 विपर्यय विपर्ययः पुंलिङ्गः विपर्यसनम् अच् कृत् अकारान्तः
5 पर्यय पर्ययः पुंलिङ्गः पर्ययणम् अच् कृत् अकारान्तः
6 अतिक्रम अतिक्रमः पुंलिङ्गः अतिक्रमणम् घञ् कृत् अकारान्तः
7 अतिपात अतिपातः पुंलिङ्गः अतिपतनम् घञ् कृत् अकारान्तः
8 उपात्यय उपात्ययः पुंलिङ्गः उपात्ययनम् अच् कृत् अकारान्तः