अमरकोशः


श्लोकः

अधिभूर्नायको नेता प्रभुः परिवृढोऽऽधिपः । अधिकद्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अधिभू अधिभू पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अधिभवति । क्विप् कृत् ऊकारान्तः
2 नायक नायकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नयति । ण्वुल् कृत् अकारान्तः
3 नेतृ नेतृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नयति । तृच् कृत् ऋकारान्तः
4 प्रभु प्रभुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रभवति । डुः कृत् उकारान्तः
5 परिवृढ परिवृढः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परिवर्हति । निपातनात् अकारान्तः
6 अधिप अधिपः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अधि पाति । कः कृत् अकारान्तः
7 अधिकर्द्धि अधिकर्द्धिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अधिका ऋद्धिरस्य । बहुव्रीहिः समासः इकारान्तः
8 समृद्ध समृद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समृध्नोति स्म । क्त कृत् अकारान्तः
9 कुटुम्बव्यापृत कुटुम्बव्यापृतः पुंलिङ्गः कुटुम्बपोषणे संसक्तः । व्याप्रियते स्म । तत्पुरुषः समासः अकारान्तः