अमरकोशः


श्लोकः

चामीकरं जातरूपं महारजतकाञ्चने । रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ ९५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चामीकर चामीकरम् नपुंसकलिङ्गः चमीकरे आकरे भवम् । अण् तद्धितः अकारान्तः
2 जातरूप जातरूपम् नपुंसकलिङ्गः जातं रूपं यस्य । बहुव्रीहिः समासः अकारान्तः
3 महारजत महारजतम् नपुंसकलिङ्गः महच्च तद्रजतं च । तत्पुरुषः समासः अकारान्तः
4 काञ्चन काञ्चनम् नपुंसकलिङ्गः काञ्चति (ते) । ल्यु कृत् अकारान्तः
5 रुक्म रुक्मम् नपुंसकलिङ्गः रोचते । मक् उणादिः अकारान्तः
6 कार्तस्वर कार्तस्वरम् नपुंसकलिङ्गः कृतस्वरे आकरविशेषे भवम् । अण् तद्धितः अकारान्तः
7 जाम्बुनद जाम्बुनदम् नपुंसकलिङ्गः जम्बूरसस्य नद्यां भवम् । अण् तद्धितः अकारान्तः
8 अष्टापद अष्टापदः पुंलिङ्गः, नपुंसकलिङ्गः अष्टौ धातवः पदानि स्थानान्यस्य । बहुव्रीहिः समासः अकारान्तः