अमरकोशः


श्लोकः

विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला । स्त्रीधर्मिण्यवरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विप्रश्निका विप्रश्निका स्त्रीलिङ्गः विविधः प्रश्नोऽस्त्यस्याः । ठन् तद्धितः आकारान्तः
2 ईक्षणिक ईक्षणिकः स्त्रीलिङ्गः शुभाशुभयोरीक्षणमस्त्यस्याः । ठन् तद्धितः अकारान्तः
3 दैवज्ञा दैवज्ञा स्त्रीलिङ्गः दैवं शुभाशुभं जानाति । कृत् आकारान्तः
4 रजस्वला रजस्वला स्त्रीलिङ्गः रजोऽस्त्यस्याः । वलच् तद्धितः आकारान्तः
5 स्त्रीधर्मिणी स्त्रीधर्मिणी स्त्रीलिङ्गः स्त्रीधर्मो रजोऽस्त्यस्याः । इनि तद्धितः ईकारान्तः
6 अवि अविः स्त्रीलिङ्गः अवति लज्जया । उणादिः इकारान्तः
7 आत्रेयी आत्रेयी स्त्रीलिङ्गः अत्रेरपत्यम् । ढक् तद्धितः ईकारान्तः
8 मलिनी मलिनी स्त्रीलिङ्गः मलमस्त्यस्याः । इनि तद्धितः ईकारान्तः
9 पुष्पवती पुष्पवती स्त्रीलिङ्गः पुष्पं रजोऽस्त्यस्याः । मतुप् तद्धितः ईकारान्तः