अमरकोशः


श्लोकः

अतिमुक्त: पुण्ड्रक: स्याद्वासन्ती माधवी लता । सुमना मालती जाति: सप्तला नवमालिका ॥ ७२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अतिमुक्त अतिमुक्तः पुंलिङ्गः अतिक्रान्तो मुक्तां शौक्लयात् । तत्पुरुषः समासः अकारान्तः
2 पुण्ड्रक पुण्ड्रकः पुंलिङ्गः पुण्डति पुण्ड्यते वा । कन् तद्धितः अकारान्तः
3 वासन्ती वासन्ती स्त्रीलिङ्गः वसन्ते पुष्प्यति । अण् तद्धितः ईकारान्तः
4 माधवी माधवी स्त्रीलिङ्गः मधौ पुष्प्यति । अण् तद्धितः ईकारान्तः
5 लता लता स्त्रीलिङ्गः आकारान्तः
6 सुमनस् सुमना स्त्रीलिङ्गः सुष्ठु मन्यते । असुन् उणादिः सकारान्तः
7 मालती मालती स्त्रीलिङ्गः मां लक्ष्मी लतति । तत्पुरुषः समासः ईकारान्तः
8 जाति जातिः स्त्रीलिङ्गः जायते । क्तिन् कृत् इकारान्तः
9 सप्तला सप्तला स्त्रीलिङ्गः सप्त पर्णानि मनोबुद्धीन्द्रियाणि वा लाति । तत्पुरुषः समासः आकारान्तः
10 नवमालिका नवमालिका स्त्रीलिङ्गः नवा स्तुत्या मालास्याः । बहुव्रीहिः समासः आकारान्तः