अमरकोशः


श्लोकः

चटक: कलविङ्कः स्यात्तस्य स्त्री चटका तयोः । पुमपत्ये चाटकैरस्त्र्यपत्ये चटकैव हि ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चटक चटकः पुंलिङ्गः चटति । क्वुन् उणादिः अकारान्तः
2 कलविङ्क कलविङ्कः पुंलिङ्गः कलं वङ्कते । अण् कृत् अकारान्तः
3 चटका चटका स्त्रीलिङ्गः चटकस्य स्त्रीति टाप् स्त्रीप्रत्ययः आकारान्तः
4 चाटकैर चाटकैरः पुंलिङ्गः चटकायाश्चटकस्य वा पुमपत्यम् । एरक् तद्धितः अकारान्तः
5 चटका चटका स्त्रीलिङ्गः टाप् स्त्रीप्रत्ययः आकारान्तः