अमरकोशः


श्लोकः

अव्यथाऽतिचरा पद्मा चारटी पद्मचारिणी । काम्पिल्य: कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि ॥ १४६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अव्यथा अव्यथा स्त्रीलिङ्गः न व्यथते । तत्पुरुषः समासः आकारान्तः
2 अतिचरा अतिचरा स्त्रीलिङ्गः अति चरति । अच् कृत् आकारान्तः
3 पद्मा पद्मा स्त्रीलिङ्गः पद्यते । मन् उणादिः आकारान्तः
4 चारटी चारटी स्त्रीलिङ्गः चारयति । अटन् उणादिः ईकारान्तः
5 पद्मचारिणी पद्मचारिणी स्त्रीलिङ्गः पद्मे चरितं शीलमस्याः । णिनि कृत् ईकारान्तः
6 काम्पिल्य काम्पिल्यः पुंलिङ्गः कम्पिलाया अदूरभवः । ण्य तद्धितः अकारान्तः
7 कर्कश कर्कशः पुंलिङ्गः करे कशति । अच् कृत् अकारान्तः
8 चन्द्र चन्द्रः पुंलिङ्गः चन्दति । रक् उणादिः अकारान्तः
9 रक्ताङ्ग रक्ताङ्गः पुंलिङ्गः रक्तमङ्गमस्य । बहुव्रीहिः समासः अकारान्तः
10 रोचनी रोचनी स्त्रीलिङ्गः रोचते । ल्युट् कृत् ईकारान्तः