अमरकोशः


श्लोकः

षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् । संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संवत्सर संवत्सरः पुंलिङ्गः संवसन्त्यृतवोऽत्र । अकारान्तः
2 वत्सर वत्सरः पुंलिङ्गः वसन्त्यृतवोऽत्र । सर उणादिः अकारान्तः
3 अब्द अब्दः पुंलिङ्गः आप्यते । दन् उणादिः अकारान्तः
4 हायन हायनः पुंलिङ्गः, नपुंसकलिङ्गः भावाञ्जहाति, जिहीते वा । ण्युट् कृत् अकारान्तः
5 शरद् शरद् स्त्रीलिङ्गः शृणाति । अदि उणादिः दकारान्तः
6 समा समा स्त्रीलिङ्गः समन्ति विक्लवं कुर्वन्ति सर्वम् । अच् कृत् आकारान्तः