अमरकोशः


श्लोकः

रोदनी कच्छुराऽनन्ता समुद्रान्ता दुरालभा । पृश्निपर्णी पृथक्पर्णी चित्रपर्यङ्घ्रिपर्णिका ॥ ९२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रोदनी रोदनी स्त्रीलिङ्गः रोदयति । ल्युट् कृत् ईकारान्तः
2 कच्छुरा कच्छुरा स्त्रीलिङ्गः कच्छूं राति । तत्पुरुषः समासः आकारान्तः
3 अनन्ता अनन्ता स्त्रीलिङ्गः नान्तोऽस्याः । तत्पुरुषः समासः आकारान्तः
4 समुद्रान्ता समुद्रान्ता स्त्रीलिङ्गः समुद्रान्तोऽस्त्यस्याः । अच् तद्धितः आकारान्तः
5 दुरालभा दुरालभा स्त्रीलिङ्गः दुःखेनालभ्यते । तत्पुरुषः समासः आकारान्तः
6 पृश्निपर्णी पृश्निपर्णी स्त्रीलिङ्गः पृश्निरल्पं पर्णमस्याः । बहुव्रीहिः समासः ईकारान्तः
7 पृथक्पर्णी पृथक्पर्णी स्त्रीलिङ्गः पृथगसक्तं पर्णमस्याः । बहुव्रीहिः समासः ईकारान्तः
8 चित्रपर्णी चित्रपर्णी स्त्रीलिङ्गः चित्रं पर्णमस्याः ॥ बहुव्रीहिः समासः ईकारान्तः
9 अङ्घ्रिपर्णिका अङ्घ्रिपर्णिका स्त्रीलिङ्गः अङ्घ्रेरालभ्य पर्णान्यस्याः । बहुव्रीहिः समासः आकारान्तः