अमरकोशः


श्लोकः

आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमागयोः । नीवृज्जनपदो देशविषयौ तूपवर्तनम् ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आर्यावर्त्त आर्यावर्त्तः पुंलिङ्गः आर्या आ समन्ताद् वर्तन्तेऽत्र । घञ् कृत् अकारान्तः
2 पुण्यभूमि पुण्यभूमिः पुंलिङ्गः पुण्यस्य भूमिः । तत्पुरुषः समासः इकारान्तः
3 नीवृत् नीवृत् स्त्रीलिङ्गः नियतो वर्तते । क्विप् कृत् तकारान्तः
4 जनपद जनपदः पुंलिङ्गः जन पदं वस्तु यत्र । अकारान्तः
5 देश देशः पुंलिङ्गः दिशति । अच् कृत् अकारान्तः
6 विषय विषयः पुंलिङ्गः विसिनोति । अच् कृत् अकारान्तः
7 उपवर्तन उपवर्तनम् नपुंसकलिङ्गः उपवर्तन्तेऽत्र । युच् उणादिः अकारान्तः