अमरकोशः


श्लोकः

चञ्चलं तरलं चैव पारिप्लवपरिप्लवे । अतिरिक्तः समधिको दृढसंधिस्तु संहत: ॥ ७५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चञ्चल चञ्चलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चञ्चति अलच् उणादिः अकारान्तः
2 तरल तरलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तरति अलच् उणादिः अकारान्तः
3 पारिप्लव पारिप्लवः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परिप्लवते अच् कृत् अकारान्तः
4 परिप्लव परिप्लवः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अण् तद्धितः अकारान्तः
5 अतिरिक्त अतिरिक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिरिच्यते स्म क्त कृत् अकारान्तः
6 समधिक समधिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सम्यगधिकः तत्पुरुषः समासः अकारान्तः
7 दृढसंन्धि दृढसंन्धिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दृढः सन्धिः सन्धानमस्य बहुव्रीहिः समासः इकारान्तः
8 संहत संहतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संहन्यते स्म क्त कृत् अकारान्तः